भारताख्यः स्वदेशः
सलिलनिधि तरङ्गैर्धौतपादाम्बुजोऽसौ
हिमगिरिशुभहासैर्भासयन्नाननं स्वम् ।
प्रकृतिकल विलासैर्मोदकारी जनानां
जयति जगति नित्यं भारताख्यः स्वदेशः ॥ १॥
शिखिकुलकलकेका काकली कोकिलानां
कलयति कलकाले कान्तकान्तारप्रान्तान् ।
प्रकृतिकलविलासान् यत्र पश्यन्ति नित्यं
विकचकमलनेत्रैर्हर्षफुल्लैस्सरांसि ॥ २॥
नवपरिमलगन्धैर्मन्दशीतैः समीरैः
प्रकृतिनववधूटीस्वाङ्गरागैः परागैः ।
धृतमधुकरपुञ्जैर्गुञ्जितैर्मञ्जुकुञ्जै-
र्विलसति मधुमत्तो यत्र राजा ऋतूनाम् ॥ ३॥
भृगुकलकलनादैः किञ्चिदाभाषयन्त्यो
जलपतनजफेनैर्मोदमाना हसन्त्यः ।
मरकत तृणवासैरावृता यत्र लुब्धाः
विदधति गिरिमालाः स्वैः पयोधृद्धिराशाः ॥ ४॥
भ्रमिकरजलवीचिभ्रू कटाक्षान् क्षिपन्त्य-
स्तटगतखगशब्दैः सिन्धुमाकारयन्त्यः ।
घृतबहुविध रत्नं यान्ति लावण्यपूर्णं
बहुनदिनदधाराः यत्र नित्यं नदीशम् ॥ ५॥
वनविटपिकदम्बैः केलिलोलाकदम्बै-
र्मुरलिवटस नाथैर्भृङ्गकृष्णैः स्थलैश्च ।
चलरवितनयायाः श्यामिकाभिश्च यत्रा-
नुभवति खलु वृन्दाकाननं कृष्णमीशम् ॥ ६॥
भवति मृदुलशोभा सर्षपाणां वसन्ते
शरदि कमलराशिः प्रस्फुटो जायते च ।
हरितवसनशोभां वर्द्धयन्ती पृथिव्या
विलसति तृणराजिर्यत्र वर्षर्तुकाले ॥ ७॥
कनकगुणनिबद्धैः कुन्तलानां कलापैः
सम इह चलविद्युद्दामशोभः प्रसन्नः ।
करिगण इव कृष्णो नीरगण्डूषकारी
स्वनति मृदुगभीरं तोयवाहः सुकाले ॥ ८॥
क्व मिलति विषधृ द्भिर्मित्रता चन्दनानां ?
क्व च मलयजगन्धो याति धीरः समीरः ?
क्व च वितरति मोदं शुभ्रकाश्मीरशोभा ?
प्रकृतिकलविलासो भारतादन्यतः क्व ? ॥ ९॥
क्व च मुनिगणपूर्णा आश्रमाः सम्भवन्ति ?
नव किसलयरागा यत्र चित्तं हरन्ति ।
त्यजति ऋजुमुनीनां क्रोडमागत्य यत्र
नवमृगसुतवृन्दं नाभिनालानि, चित्रं ! ॥ १०॥
क्वचिदपि हरिणाली सञ्चरन्ती चकास्ति
क्वचिदपि च गजानां यत्र यूथं प्रसन्नम् ।
क्वचिदपि दृढनादो यत्र कण्ठीरवाणां
उपवन-वनभागा ईदृशाः कुत्र सन्ति ? ॥ ११॥
धवलजल पवित्रा पापनाशे प्रसक्ता,
क्वणितजलतरङ्गा कच्छपीधारिणी च ।
जल गणशुचिकर्त्री नीलकण्ठासना च
विलसति शुभगङ्गा शारदा च क्व शुभ्रा ? ॥ १२॥
जय भारतभूमे ! (संस्कृतकाव्यम्)
रचना - डाॅ. रमाकान्त शुक्लः
Proofread by Mandar Kulkarni