सद्गुरुश्रीत्यागराजमङ्गलाष्टकम्
ॐ
श्रीरामजयम् ।
सद्गुरु श्रीत्यागराजस्वामिने नमो नमः ।
अथ सद्गुरुमङ्गलाष्टकम् ।
हिमगद्यप्रसन्नाय हिमगद्यालयाय च ।
हिमगद्यप्रसादाय गुरुदेवाय मङ्गलम् ॥ १॥
हिमोत्तुङ्गसुपुण्याय हिमसानुसुकीर्तये ।
हिमगङ्गासुवाग्गाय गुरुदेवाय मङ्गलम् ॥ २॥
हिममौनप्रशान्ताय हिमगङ्गासुपूतये ।
हिमशान्तिप्रदात्रे च गुरुदेवाय मङ्गलम् ॥ ३॥
चतुर्धामसुपुण्याय पुष्पामोदसुगीतये ।
नारायणसुगेयाय त्यागराजाय मङ्गलम् ॥ ४॥
देवदारुसुगीताय नामपक्षिस्वराय च ।
कृत्यामोदसमीराय गुरुदेवाय मङ्गलम् ॥ ५॥
तलकाचतटाकाय तालरागहिमाद्रये ।
गललीनसुगङ्गाय गुरुदेवाय मङ्गलम् ॥ ६॥
नीलाकाशविकाशाय शुद्धश्वेतघनाय च ।
बालालापप्रमोदाय गुरुदेवाय मङ्गलम् ॥ ७॥
हिमालयप्रभावाय बृहदुत्तमगीतये ।
सद्गुरुत्यागराजाय सर्वस्वाय सुमङ्गलम् ॥ ८॥
ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्मचरणयुगले समर्पितं
सद्गुरुमङ्गलाष्टकं सम्पूर्णम् ।
ॐ शुभमस्तु
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan