सद्गुरुश्रीत्यागब्रह्मशरणागतिस्तोत्रम्
ॐ
। श्रीरामजयम् ।
। ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ शरणागतिस्तोत्रम् ।
स्वररागसुधारसपुण्यतनो नरतल्लजसत्कृतिकारगुरो ।
कविशक्तिसरक्तिसुयुक्तकृते गुरुदेव भवच्चरणं शरणम् ॥ १॥
स्वरदैवतनर्तनदिव्यदृश सरिगामपधानिझरासरग ।
सकलार्थसुनामसुकञ्जसर गुरुदेव भवच्चरणं शरणम् ॥ २॥
ऋषभप्रियमोदननामनिधे ऋषिपुङ्गव मत्प्रियसत्त्वगुरो ।
रिपुसूदनसूदननादनिधे गुरुपुङ्गव सच्चरणं शरणम् ॥ ३॥
गगनागमदेव सुगानपते गगनागमपुण्यसरित्सुकृते ।
गिरिराजसुताप्रवहानदग गुरुदेव भवच्चरणं शरणम् ॥ ४॥
ममकारनकारनकारगुरो मम सुश्रुतिसद्गतिशिक्षगुरो ।
मम दोषनिवारणरक्षगुरो मम देव भवच्चरणं शरणम् ॥ ५॥
मम मानसराजतपुण्यहिम मम वाक्प्रवहानदगङ्गसर ।
मम मानसलीनसुनादगुरो मम सर्व भवच्चरणं शरणम् ॥ ६॥
परपञ्चनदोद्भवनादनद पररामपराङ्गवसङ्गमग ।
परसुस्वरपूजितरामहरे गुरुदेव भवच्चरणं शरणम् ॥ ७॥
धनदाशरथीनुतिगानसुधे धरणीतनयापतिरागनिधे ।
धरणीतलसञ्चरनादपते गुरुदेव भवच्चरणं शरणम् ॥ ८॥
निषदापनयानदरागसरे निरुपायमदोद्धरणं तव खम् ।
निगमागमशास्त्रसुकीर्तनधे गुरुदेव भवच्चरणं शरणम् ॥ ९॥
सगुणार्चितनिर्गुणरूपविद स्वरसागरपारगनादरुचे ।
हरिभक्तियुताद्भुतशक्तिदध गुरुदेव भवच्चरणं शरणम् ॥ १०॥
हरिदाशरथीरतगाशरधे हरिदाससुदाससुभावयुत ।
हरिहारणसत्तमकृत्ययुत गुरुदेव भवच्चरणं शरणम् ॥ ११॥
हरिरामसुगानसुनादरस हरिकृष्णसुनामसुधाप्लवन ।
हरिकेशवमाधवगानघन गुरुदेव भवच्चरणं शरणम् ॥ १२॥
सुरवन्दनसिञ्चनभक्तिरस सुररामसुनामसुगानरस ।
वररागलयज्ञसुभाषरस गुरुदेव भवच्चरणं शरणम् ॥ १३॥
पदशिञ्जनझङ्कृतिनादयुत करताललयालयलास्यगुरो ।
गललीनसुतुम्बरनादरत गुरुदेव भवच्चरणं शरणम् ॥ १४॥
भगवद्गुणगानसमाधिलय भगदायकगायकभक्तिनिधे ।
निधितुच्छमतप्रियरामनिधे गुरुराय भवच्चरणं शरणम् ॥ १५॥
रघुरामसरामविराममते अविरामरमारमराममते ।
अभिरामसुनामसुमन्त्रजप गुरुदेव भवच्चरणं शरणम् ॥ १६॥
नररूपसुदर्शितरामघृणे वरगानसुवर्षणनादगिरे ।
परदर्शनहर्षयुतप्रबुध गुरुदेव भवच्चरणं शरणम् ॥ १७॥
भवतारणतारकमन्त्रगुरो भवभावनभावनगाननिधे ।
भववैद्यनिवेद्यसुदिव्यकृते गुरुदेव भवच्चरणं शरणम् ॥ १८॥
स्वररागलयार्चितमारमण वररागसुधारसपानरत ।
पररामसुनामसुगानसुख गुरुदेव भवच्चरणं शरणम् ॥ १९॥
रघुपुङ्गवकीर्तनतुङ्गगिरे रघुनाथसुनादसुवर्गनद ।
रघुराजसुकीर्तनराजवर गुरुदेव भवच्चरणं शरणम् ॥ २०॥
मम जीवनजीवनजीवनद वरसत्कृतिविप्लवसान्त्वगुरो ।
वररागलयालयकीर्तनद गुरुदेव भवच्चरणं शरणम् ॥ २१॥
वरवाग्वचनार्थसुपुष्टिनृतिस्वरसौष्टवभक्तियुतप्रवह ।
रघुनायकगायकदिव्यनद गुरुदेव भवच्चरणं शरणम् ॥ २२॥
वरविष्णुसुपादवहानदवाक्सलसुस्वरनामसुनन्दलका ।
वरवेणिभगीरथयत्नफलानदगङ्गसुगासर मे शरणम् ॥ २३॥
परिपूतसुवागभिषिक्तहरे परिमूकसुवागभिषिक्तगुरो ।
गुरुभक्त्युपयुक्त्यसहायनुत गुरुदेव भवच्चरणं शरणम् ॥ २४॥
शरणागतनान्यगतिप्रणय स्वररागरहस्यलयाहरण ।
परिमूकसुनादसुवाग्वरद गुरुदेव भवच्चरणं शरणम् ॥ २५॥
हृदयङ्गमसत्कृतितत्त्वसर हृदयङ्गमसत्तमसत्त्वगुरो ।
हृदये कमले नितरां भवित गुरुदेव भवच्चरणं शरणम् ॥ २६॥
हृदयालयविग्रहरामनुते हृदयालयविग्रहरूपनुत ।
हृदयाचलघाङ्षणगाननद गुरुदेव भवच्चरणं शरणम् ॥ २७॥
हृदयालयवाससदानिरत हृदयालयवासनपुष्परस ।
हृदयालयसार्चनपुष्पपद गुरुदेव भवच्चरणं शरणम् ॥ २८॥
भगभव्यसुमङ्गलनित्यवर भवतारकनामसुगानवर ।
चिरजीवनिरामयदिव्यदृश गुरुमङ्गलसच्चरणं शरणम् ॥ २९॥
गुरुमङ्गलसुप्रदभव्यवर शुभमङ्गलसत्प्रदपूज्यपद ।
चिरमङ्गलकारकगानगुरो तव मङ्गलसच्चरणं शरणम् ॥ ३०॥
ॐ
शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan