श्रीमङ्गलाम्बाष्टकम्
श्री कुम्भघोण नगराम्बुधि-चन्द्रकान्ते
श्री कुम्भनाथ-हृदयाम्बुज-भानुकान्ते ।
श्रीमद्-गजानन-कुमार-सवित्रि सौम्ये
श्रीमङ्गलाम्ब मयि देहि कृपा-कटाक्षम् ॥ १॥
स्वर्णाचलाकलित-कार्मुक-चित्तगेहे
स्वर्ण-प्रदान-निरते नमतां नराणाम् ।
स्वर्गौकसामपि कृपापर-धूतभीते
श्रीमङ्गलाम्ब मयि देहि कृपा-कटाक्षम् ॥ २॥
मन्दार-मूल-विलसन्-मणि-मण्टपस्थे
मन्मानसाम्बुरुह-मन्थर-मत्त-भृङ्गि ।
मन्दस्मिताञ्चित-मनोज्ञ-मुखारविन्दे
श्रीमङ्गलाम्ब मयि देहि कृपा-कटाक्षम् ॥ ३॥
कर्णावलम्बि-मणिकुण्डल-मण्डितास्ये
स्वर्णोपवीत-रुचिरम्य-भुजान्तराले ।
पर्णाम्बु-मूल-पवनाशि-मुनीन्द्र-मान्ये
श्रीमङ्गलाम्ब मयि देहि कृपा-कटाक्षम् ॥ ४॥
अम्ब त्वदीय-मुखचन्द्रज-चन्द्रिकाप्तं
अम्भोधि-तुल्यमतिवेलमिदं पुरं नः ।
यद्वै विदुः किल पुरामुपमानमेकं
श्रीमङ्गलाम्ब मयि देहि कृपा-कटाक्षम् ॥ ५॥
श्री-मन्त्रपीठ-निलयेऽम्ब महातिमाये
चिन्तामणे श्रितपदां पुरुषार्थदाने ।
सच्चित्-सुखैक-घनरूपिणि सर्वमातः
श्रीमङ्गलाम्ब मयि देहि कृपा-कटाक्षम् ॥ ६॥
लीला तवेयमखिलाखिल-लोकमाला
बालास्तवाम्ब निखिला जगतां च पालाः ।
मूलादिवाकलयितुं तव कोऽपि नालं
श्रीमङ्गलाम्ब मयि देहि कृपा-कटाक्षम् ॥ ७॥
स्रष्टा सृजत्यखिलमम्ब तवाज्ञयैव
युक्तस्तदेव परिपाति च वारिजाक्षः ।
अन्ते हरत्यपि हरस्त्वदनुज्ञयैव
श्रीमङ्गलाम्ब मयि देहि कृपा-कटाक्षम् ॥ ८॥
नारायणाख्य-कविगीतमिदं च गीतं
श्रीमङ्गलाष्टकमहो भुवि ये पठन्ति ।
तेषां समृद्धिमतुलामिह देहि मातः
श्रीमङ्गलाम्ब मयि देहि कृपा-कटाक्षम् ॥ ९॥
मङ्गलाम्बाष्टकमिदं नारायण-मुखोद्गतम् ।
पठतां शृण्वतां चापि मङ्गलं स्यात् पदे पदे ॥ १०॥
इति श्रीमङ्गलाम्बाष्टकं सम्पूर्णम् ।
Encoded and proofread by Rajani Arjun Shankar