श्रीसीतारामस्तवः
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ सीतावराय विद्महे । गुरुगेयाय धीमहि ।
तन्नो रामः प्रचोदयात् ॥
ध्यानम्-
ब्रह्माण्डनायकं रामं ब्रह्माशङ्करसंस्तुतम् ।
ब्रह्मज्ञानसमष्टिं च ब्रह्मानन्दस्वरूपकम् ॥ १॥
पूर्णायुष्कारपूर्णं तं पूर्णसद्भक्तिकारकम् ।
पूर्णसज्ज्ञानसद्बोधं पूर्णत्वरूपसद्गुरुम् ॥ २॥
क्षित्याभाससुतेजस्कं क्षितिजारमणं हरिम् ।
क्षिप्राप्रवाहसुश्लोकं क्षिप्रप्रसाददायकम् ॥ ३॥ (१)
वन्देऽहं करकाम्भोजं स्मितवक्त्रं सुनेत्रकम् ।
परमानन्दसद्रूपं सीतारामं शुभाकरम् ॥ ४॥
सीतारामं नरोद्धारं परब्रह्मस्वरूपिणम् । (२)
अभयप्रदहस्ताब्जं सीतारामं नमाम्यहम् ॥ १॥
पदपल्लवबालार्कं तेजोमयास्यविग्रहम् ।
स्मितलोचनकारुण्यण् सीतारामं नमाम्यहम् ॥ २॥
त्यागब्रह्मगुरुप्रेष्ठं गुरुस्वामिबहुस्तुतम् ।
गुरुकीर्तनसम्राजं सीतारामं नमाम्यहम् ॥ ३॥
सीतासाध्वीकलत्रं तं सीताहृत्पद्मवासनम् ।
सीतामिष्टस्वरावासं सीतारामं नमाम्यहम् ॥ ४॥
दाशरथ्यतिलावण्यं राघवं धर्मसंस्थिरम् ।
पितृवाक्परिपालं तं सीतारामं नमाम्यहम् ॥ ५॥
सीताजानिं चापपाणिं लक्ष्मणानुजसेवितम् ।
आञ्जनेयनुतं ध्यातं सीतारामं नमाम्यहम् ॥ ६॥
घोरराक्षससंहारं घोरपापविमोचनम् ।
घोरसंसारतारं तं सीतारामं नमाम्यहम् ॥ ७॥
वासनासुरसंहारं कुमनोजगणापहम् ।
प्रसन्नमानसाभासं सीतारामं नमाम्यहम् ॥ ८॥
ध्यानतत्परसंरक्षं ध्यानारिच्छेदनं हरिम् ।
ध्यातृहृन्मीरखद्योतं सीतारामं नमाम्यहम् ॥ ९॥ (३)
शरणागतवात्सल्यं गुरुगानसुपूजितम् ।
वरसुस्वरमाधुर्यं सीतारामं नमाम्यहम् ॥ १०॥
शरणार्थ्यभिरक्षं तं अभयव्रतपालनम् ।
परिपालितसद्भक्तं सीतारामं नमाम्यहम् ॥ ११॥
एकवाक्सत्यशीलं स्वं एकशब्दनराकृतिम् ।
एकपत्नीकराजानं सीतारामं नमाम्यहम् ॥ १२॥
एकाग्रध्यानसंगम्यं एकान्तध्यातृगोचरम् ।
एकान्तं एकशब्दार्थं सीतारामं नमाम्यहम् ॥ १३॥
मन्त्रतारकनामानं रूपतारकनामकम् ।
मन्त्रराजजपापालं सीतारामं नमाम्यहम् ॥ १४॥ (४)
आत्मारामं स्वरारामं नतभक्तहृदारमम् ।
अभिरामं लयारामं सीतारामं नमाम्यहम् ॥ १५॥
श्रीत्यागोपनिषत्सारं कीर्तनासारवर्षितम् ।
कृतिगङ्गाभिषिक्तं तं सीतारामं नमाम्यहम् ॥ १६॥
त्यागराजनुतश्रेष्ठं कृतिरत्नसुभूषणम् ।
त्यागराजसुवाक्चेलं सीतारामं नमाम्यहम् ॥ १७॥
त्यागराजकृतिप्रीतं गुरुकीर्तनसन्निधिम् ।
भजनाह्लादसान्निध्यं सीतारामं नमाम्यहम् ॥ १८॥
नादोपासनसानन्दं नादसुस्वरसात्मकम् ।
नादसद्गुरुसात्मानं सीतारामं नमाम्यहम् ॥ १९॥
उपदेशगुरुं श्रीदं रागदं अनुरागदम् ।
मोक्षदं शाश्वतानन्दं सीतारामं नमाम्यहम् ॥ २०॥
त्यागब्रह्मगुरुस्वामिशिष्यापुष्पाप्रकीर्तितम् ।
शिशुजल्पनिभालापस्वीकारं तं नमाम्यहम् ॥ २१॥
सीतारामनुतिस्तोत्रं सीतारामकृपावहम् ।
सद्गुरुप्रेरणागीतं सीतारामपदार्पणम् ॥ २२॥
तव पादं गृहीताहं अभयं कुरु मेऽच्युत ।
ज्ञाताज्ञातापराधान्मे क्षमस्व मत्प्रभो हरे ॥ २३॥
मङ्गलं रामभद्राय सीतारामाय मङ्गलम् ।
मङ्गलं ज्ञानमोक्षाय श्रीरामाय सुमङ्गलम् ॥ २४॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः
श्रीसीतारामस्तवः गुरौ समर्पितः ।
ॐ शुभमस्तु ।
Footnotes
(१) क्षिप्रा - Ganga
(२) सीता +आरामं - Delight of Sita 33
(३) The Sun obver the sea of mind of the meditator
(४) मन्त्रराज - Sri rAma tAraka mantra
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan