श्रीरामचन्द्रपादुकार्चनं
ध्यानम् -
मुक्ता-विद्रुम-हेम-हीर-घटिते श्रीपीठराजोत्तमे ।
दीव्यन्तौ विलसत्-निसर्ग-परमानन्दप्रकाशाद्भुते ॥
विस्फूर्जत्-तरुणार्ककोटिकिरणव्याकीर्ण शुद्धाम्बरे ।
सत्-चित्-रूप-घने घनाघ-तिमिर-स्तोमैक-नाशोद्भटे ॥
भक्तानां शिरसि प्रकाशपटली फुल्लत्-सहस्रच्छदे ।
पद्मेऽखण्डचन्द्रमण्डलगते श्रीहंसपीठोत्तमे ॥
तिष्ठन्त्यौ निजपूर्णधामनि सदा कल्याणदिव्यास्पदे ।
माया-मोह-मदान्धकारशमने सेव्ये विभोः पादुके ॥
ॐ ऐं ह्रीं श्रीं ह्स्ख्फ्रें हसक्षमलवरयूम् ।
ॐ ऐं ह्रीं श्रीं स्ह्ख्फ्रें सहक्षमलवरयीम् ।
रां रामचन्द्रसहजानन्दिनी
रामचन्द्रसहजानन्दिनी श्रीपादुकां पूजयामि नमः ।
रामचन्द्रसह indicates Bharata and that
which gives him bliss is rAmachandrasahajAnandinI
the padukas.
ॐ श्रीरामपादुकायै नमः ।
ॐ रामचन्द्रपादाम्बुजाश्रितायै नमः ।
ॐ समस्तरोगशमन्यै नमः ।
ॐ सर्वाभीष्टप्रदायिन्यै नमः ।
ॐ भरताराधितायै नमः ।
ॐ शान्तायै नमः ।
ॐ नन्दिग्रामनिवासिन्यै नमः ।
ॐ आर्तार्तिभञ्जनपरायै नमः ।
ॐ रावणान्तकर्यै नमः ।
ॐ शिवायै नमः । १०
ॐ वेदान्तवेद्यायै नमः ।
ॐ मोक्षानन्दप्रदायिन्यै नमः ।
ॐ अरिषड्वर्गशमन्यै नमः ।
ॐ अन्तरानन्ददायिन्यै नमः ।
ॐ रामावतारसन्तुष्टायै नमः ।
ॐ रामपादावन्यै नमः ।
ॐ शुभायै नमः ।
ॐ विश्वामित्रार्चितायै नमः ।
ॐ नित्यायै नमः ।
ॐ विश्ववन्द्यायै नमः । २०
ॐ विभावर्यै नमः ।
ॐ ताटकाप्राणसंहारकुतूहलसमन्वितायै नमः ।
ॐ विश्वामित्राध्वरत्राणरघुनन्दनपूजितायै नमः ।
ॐ अहल्यापापशमन्यै नमः ।
ॐ धनुर्भङ्गकुतूहलायै नमः ।
ॐ सीतापतिपदाम्भोजपावन्यै नमः ।
ॐ पापनाशिन्यै नमः ।
ॐ जामदग्न्यमहादर्पदलनप्रेमपूरितायै नमः ।
ॐ साकेतवाससन्तुष्टायै नमः ।
ॐ वनवासरताश्रितायै नमः । ३०
ॐ दण्डकारण्यसञ्चारनिपुणायै नमः ।
ॐ स्वामिसौख्यदायै नमः ।
ॐ गुहार्चितायै नमः ।
ॐ महाभागायै नमः ।
ॐ भरद्वाजाभिनन्दितायै नमः ।
ॐ स्वकीयरजसा प्राणिसर्वकोल्बिषनाशिन्यै नमः ।
ॐ रजसा तमसोहन्त्र्यै नमः ।
ॐ राममार्गप्रदर्शिन्यै नमः ।
ॐ सन्मार्गदायिन्यै नमः ।
ॐ शुद्धायै नमः । ४०
ॐ शुद्धसत्त्वप्रबोधिन्यै नमः ।
ॐ चित्रकूटैकनिलयायै नमः ।
ॐ भरतार्चितवैभवायै नमः ।
ॐ मुक्तिदायै नमः ।
ॐ भुक्तिदायै नमः ।
ॐ ज्ञानविज्ञानशमदायै नमः ।
ॐ शुभायै नमः ।
ॐ सत्यप्रतिज्ञायै नमः ।
ॐ सत्येज्यायै नमः ।
ॐ सत्यसन्धात्मदेवतायै नमः । ५०
ॐ इक्ष्वाकुकुलसत्कीर्तिदायिन्यै नमः ।
ॐ कुलपाविन्यै नमः ।
ॐ वीर्यशौर्यप्रदायै नमः ।
ॐ वीरायै नमः ।
ॐ वीराराध्यायै नमः ।
ॐ विराट्प्रियायै नमः ।
ॐ विश्वसम्मोहिन्यै नमः ।
ॐ विश्वविविधाकारकारणायै नमः ।
ॐ विमलायै नमः ।
ॐ विजयायै नमः । ६०
ॐ वाण्यै नमः ।
ॐ विविधार्थप्रदायिन्यै नमः ।
ॐ विष्णुप्रियायै नमः ।
ॐ विष्णुपूजितायै नमः ।
ॐ विष्णुलोकैकमण्डितायै नमः ।
ॐ विश्वम्भरायै नमः ।
ॐ विश्वपूज्यायै नमः ।
ॐ विश्वावसुसुखप्रदायै नमः ।
ॐ विश्वनाथसमाराध्यायै नमः ।
ॐ विराधवधतोषितायै नमः । ७०
ॐ विश्वेश्वर्यै नमः ।
ॐ वीरमात्रे नमः ।
ॐ वीरलोकपूजितायै नमः ।
ॐ वेद्यायै नमः ।
ॐ वन्द्यायै नमः ।
ॐ वन्द्यलोकयोगक्षेमविधायिन्यै नमः ।
ॐ वषट्कारायै नमः ।
ॐ कामधेनवे नमः ।
ॐ कलानिधये नमः ।
ॐ कलाढ्यै नमः । ८०
ॐ कालकालेश्यै नमः ।
ॐ कल्यायै नमः ।
ॐ कल्याणदायिन्यै नमः ।
ॐ कारुण्यविग्रहायै नमः ।
ॐ कान्तायै नमः ।
ॐ कामकेलिप्रदायिन्यै नमः ।
ॐ खरसंहारिण्यै नमः ।
ॐ गङ्गायै नमः ।
ॐ शुचये नमः ।
ॐ धर्माराध्यायै नमः । ९०
ॐ धर्मपूजितायै नमः ।
ॐ सनातन्यै नमः ।
ॐ अर्थदात्र्यै नमः ।
ॐ कामपूजितायै नमः ।
ॐ लावण्याम्बुधिपारगायै नमः ।
ॐ सुन्दर्यै नमः ।
ॐ श्रीमत्यै नमः ।
ॐ श्रीशायै नमः ।
ॐ शिवलोकप्रियायै नमः ।
ॐ अमरायै नमः । १००
ॐ देवाराध्यायै नमः ।
ॐ देवपूज्यायै नमः ।
ॐ देवराजसुखावहायै नमः ।
ॐ कान्त्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ प्रभायै नमः ।
ॐ मूर्त्यै नमः ।
ॐ तेजःपुञ्जायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ मालिन्यै नमः । ११०
ॐ शूलिन्यै नमः ।
ॐ शक्त्यै नमः ।
ॐ गुहाराध्यायै नमः ।
ॐ गुहप्रियायै नमः ।
ॐ गुह्येश्वर्यै नमः ।
ॐ गुह्यविद्यायै नमः ।
ॐ गोप्यायै नमः ।
ॐ गोपालसुन्दर्यै नमः ।
ॐ गोपवेषधरायै नमः ।
ॐ गोप्त्र्यै नमः । १२०
ॐ गोविन्दसुखदायिन्यै नमः ।
ॐ दशाननप्राणहर्यै नमः ।
ॐ विश्वानन्दैकविधिन्यै नमः ।
ॐ रत्नसिंहासनरूढायै नमः ।
ॐ रामराज्यप्रदायिन्यै नमः ।
ॐ रामपादसमारूढायै नमः ।
ॐ सर्वलोकसुखावहायै नमः । १२७
इति रामपादुकाष्तोत्तरशतनामावलीसहितं
श्रीरामचन्द्रपादुकार्चनं सम्पूर्णम् ।
Proofread by Mandar Kulkarni