सप्तरात्रोत्सवप्रकारः
देवोपदेवाः पितरो योगीन्द्राश्चक्रवर्तिनः ।
श्रीविष्णुपार्षदाः सर्वेऽप्यायान्तूत्सवरक्षकाः ॥ १॥
घ्नन्त्वन्तरायान्परितः कृन्तन्तु परिपन्थिनः ।
सन्तारयन्तु कर्माब्धि सन्तु सन्तोषदाः सदा ॥ २॥
हीनतां पूरयन्त्वेते हानिर्मास्त्वत्र काचन ।
ज्ञानानन्दमयः श्रीमान् श्रीनाथः प्रीयतां प्रभुः ॥ ३॥
सप्तरात्रोत्सवास्सर्वे सार्थकास्सन्तु सन्ततं ।
तृप्तोऽस्तु लक्ष्मीरमणोऽस्माकं युष्मदनुग्रहात् ॥ ४॥
इन्द्रो महैश्वर्यदः स्यादस्मिन्नुत्सवकर्मणि ।
हुतं तु सुहुतं कुर्यात्सप्तजिह्वो हुताशनः ॥ ५॥
यमो नियमयेच्छत्रून्निरृतिर्हन्तु राक्षसान् ।
वरुणो वारयेद्विघ्नान्वायुर्ज्ञानप्रदोऽस्तु नः ॥ ६॥
धनदस्तु धनं भूरि दद्यादुत्सवपूर्तये ।
चन्द्रः शान्तकरो भूयादाह्लादयतु च प्रजाः ॥ ७॥
विद्रावयेदभद्राणि रुद्रो रौद्रपराक्रमः ।
अनन्तोऽनन्तफलदमिमं कुर्यान्महोत्सवम् ॥ ८॥
ब्रह्मा सर्वाणि कर्माणि सम्यञ्चीह करोतु नः ।
हरे भवत्प्रसादेन मोक्षाख्यफलसद्धये ॥ ९॥
अङ्कुरारोपणं पूर्वं किङ्करैः क्रियते तव ।
पार्षदाः पान्त्वहोरात्रमस्मिन्नुत्सवकर्मणि ॥ १०॥
विष्णोस्सर्वाणि भूतानि रक्षन्तु परितो दिशं ।
विष्वक्सेनश्च विघ्नेशो विष्वक्स्वस्वगणैर्युतौ ॥ ११॥
निकृन्ततां चान्तरायं शान्तिं च कुरुतां सदा ।
पञ्चोत्सवाः पञ्चदिनेष्वथो विष्णुरथोत्सवः ॥ १२॥
पश्चादवभृथस्नानं द्रष्टॄणां सन्तु तुष्टये ।
प्राग्रत्नमण्टपे कुर्यादुत्सवं श्रीपतेः सुधीः ॥ १३॥
पश्चात्सिंहोत्सवं कुर्याद्गजोत्सवमतः परं ।
शेषोत्सवं ततः कुर्यात्तार्क्ष्योत्सवमतः परम् ॥ १४॥
रथोत्सवं ततः कुर्यादलङ्कृत्य जनार्दनं ।
सर्वोत्सवस्य श्रीभर्तुः सर्वोत्सवशिरोमणिः ॥ १५॥
रथोत्सवोऽयं दद्यान्नो मनोरथमहोत्सवं ।
सप्तरात्रोत्सवान्यस्तु भक्त्या सेवेत मानवः ॥ १६॥
सप्तलोकोपरिस्थोऽस्य विष्णुर्हस्तगतो भवेत् ।
नमोऽस्तु विष्णवे तुभ्यं श्रियै चास्तु नमोनमः ॥ १७॥
नमोऽस्तु परिवारेभ्यो देवेभ्यः शिवमस्तु नः ।
तृपतस्त्रिविक्रमस्सर्वोत्तमस्सप्तभिरुत्सवैः ॥ १८॥
दद्यादायुः श्रियं भक्तिं मुक्तिं च भजतां सतां ।
जनास्सुकृतिनस्सन्तु मनोऽस्तु मधुसूदने ॥ १९॥
भक्तिर्भवेद्भवो नश्येन्नश्येयुरघराशयः ।
पूर्वापूर्वक्रमज्ञप्त्यै सप्तरात्रमहर्निशम् ॥ २०॥
इमं स्तवं यस्तु पठेद्वादिराजसमीरितं ।
दिनेदिने तस्य भवेदायुः श्रेयश्च मङ्गलम् ॥ २१॥
आहूय देवतास्सर्वा मन्त्रेणानेन मान्त्रिकः ।
आरभेतोत्सवं विष्णोर्भेरीताडनपूर्वकम् ॥ २२॥
वाचयित्वा स्वस्त्ययनं स्तोत्रमेदद्दिवौकसां ।
अङ्कुरारोपणत्पूर्वं पठेयुर्हरिकिङ्कराः ॥ २३॥
इति श्रीमद्वादिराजपूज्यचरणविरचितं
सप्तरात्रोत्सवप्रकारः सम्पूर्णः ।
भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ।
Proofread by Revathy Rajaraman, Uma Mahesh