आत्मदशकम्
(अनुष्टुप्छन्दः)
ज्ञाता सत्वगुणः शुद्धो रजो ज्ञानस्य साधनम् ।
ज्ञेयं तमोगुणं प्राहुरात्मैवैषां प्रकाशकः ॥ १॥
सोऽहमात्मैव चित्सूर्यः स्वान्यन्मृगजलोपमम् ।
नाहं ज्ञाता न तज्ज्ञानं ज्ञेयं नो ज्ञान साधनम् ॥ २॥
नाहं कर्ता न भोक्तापि शान्तानन्दचिदम्बुधिः ।
स्वभावपरिनिष्ठोऽहं सहजानन्दरूपवान् ॥ ३॥
न मेऽस्ति किञ्चित् कर्तव्यं जनिमद्रज्जुसर्पवत् ।
निष्कलो निर्विकल्पोऽहं निष्प्रपञ्चश्च निर्गुणः ॥ ४॥
नाहं देहो न मे देहो नेन्द्रियाणि मनो न हि ।
आकाशादपि सूक्ष्मोऽहं चिदानन्दः स्वयम्प्रभः ॥ ५॥
प्राप्यत्वाच्च स्वरूपत्वादानन्दस्त्वेक एव हि ।
अद्वितीये परानन्दे भेदः केनावलोक्यते ॥ ६॥
नाहं जीवो न चेशोऽपि न प्रेर्यः प्रेरकस्तथा ।
सर्वोपाधिविहीनोऽस्मि केवलानन्दतोऽद्वयः ॥ ७॥
न मे माया न चाविद्या ब्रह्माण्डं पिण्डमेववा ।
निर्लिप्तो व्योमवत्स्वच्छो निरहं निर्ममोऽचलः ॥ ८॥
अनिर्देश्योऽस्मि चिन्मात्रो ब्रह्मानन्दोऽभयोऽव्ययः ।
सत्तासामान्यरूपोऽस्मि मत्तोऽन्यच्छशशृङ्गवत् ॥ ९॥
वन्ध्यापुत्रकथैवायं जगदुत्पत्तिसम्भवः ।
नास्ति नास्ति किमप्येवमानन्दोऽस्म्यहमद्वयः ॥ १०॥
य आत्मदशकं ज्ञात्वा प्रपठेच्छृणुयादपि ।
ब्रह्मैवसन्नसौ नित्यं ब्रह्म भूत्वा विराजते ॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं आत्मदशकं सम्पूर्णम् ।
विजयदर्शाम महाप्रसाद ः श्रीक्षेत्र वरदपुरं
Proofread by Manish Gavkar