अपराधक्षमा
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
संसारघूर्णसन्तापव्याध्याधिभयपीडिता ।
उद्धारय मदाचार्य अहमस्मि तवाश्रिता ॥ १॥
क्षुद्रचिन्ताकुलोपेता वैकल्यसङ्कुलान्विता ।
आचार्य तव कर्तव्यं मच्छिद्रन्यूनतापहम् ॥ २॥
अपराधचयं क्षाम्यं गुरुदेव कृपां कुरु ।
तवास्मीत्येव जानामि अन्यं जाने न मत्प्रभो ॥ ३॥
न जाने भक्तिवैराग्यं न जाने धर्मसच्चरम् ।
न जाने वेदवेदान्तं न जाने ज्ञानसत्फलम् ॥ ४॥
रागतालं न जानामि जाने न कृतिकीर्तनम् ।
जपमन्त्रं च जाने न जाने न नामपूजनम् ॥ ५॥
नादसज्ज्ञानभिक्षां च नाममन्त्रोपदेशनम् ।
नामसद्ध्याननिष्ठां च देहि मे नादसँल्लयम् ॥ ६॥
नामसङ्कीर्तनानन्दचिन्मयं कुरु मे गुरो ।
दर्शनं तव दिव्यं च कुरु मे तव सात्मताम् ॥ ७॥
मङ्गलं ते मदाचार्य त्यागब्रह्मगुरुप्रभो ।
मङ्गलं तव पादाय पुष्पार्चिताय मङ्गलम् ॥ ८॥
इत्यपराधक्षमानामैतत्प्रार्थना सद्गुरुश्रीत्यागराजस्वामिनः
शुभचरणपुष्पे गुरुशरणार्थिपुष्पया समर्पिता ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan