श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामस्तोत्रम्
श्रीगुरुभ्यो नमः ।
श्रीकाञ्चीकामकोटिपीठाधीश्वरजगद्गुरु श्रीशङ्कराचार्य
परमपूज्य श्रीचन्द्रशेखरेन्द्रसरस्वतीश्रीचरण सहस्रनामस्तोत्रम् ।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥ १॥
पुस्तकजपवटहस्ते वरदाभयचिह्नचारुबाहुलते ।
कर्पूरामलदेहे वागीश्वरि शोधयाशु मम चेतः ॥ २॥
नारायणः पद्मभवो वसिष्ठः शक्तिश्च तत्पुत्रपराशरश्च ।
व्यासः शुको गौडपदो यमीन्द्रो गोविन्दयोगीति गुरुक्रमोऽयम् ॥ ३॥
आद्यः श्रीशङ्कराचार्योभगवत्पादसंज्ञकः ।
अवतीर्णः शम्भुरिति प्रथितः कालटीपदे ॥ ४॥
सुरेश्वरः पद्मपादो हस्तामलकतोटकौ ।
सर्वज्ञश्चेति तच्छिष्याः प्रथिता गुरुसन्निभाः ॥ ५॥
शङ्करः कामकोट्याख्यं पीठं काञ्च्यां व्यराजयत् ।
प्रत्यस्थापयदद्वैतं पीठेसर्वज्ञके स्थितः ॥ ६॥
आत्मानमनु सर्वज्ञं सुरेश्वरमते स्थितम् ।
गोप्तारं कामकोट्याख्यपीठस्य व्यदधाद्गुरुः ॥ ७॥
तदाद्येन्द्रसरस्वत्याख्याऽविच्छिन्ना परम्परा ।
पाति नो गुरुवर्याणां शारदामठसुस्थिता ॥ ८॥
अष्टषष्टितमाचार्यः शङ्करश्चन्द्रशेखरः ।
विराजते ब्रह्मभूतः स्वं वृन्दावनमास्थितः ॥ ९॥
तस्य नामान्यनन्तानि तदनुग्रहभाजनैः ।
गीयन्तेऽनुदिनं भक्त्या तदनुग्रहकाम्यया ॥ १०॥
नाम्नां सहस्रं गौणेभ्यस्तन्नामभ्यः प्रकीर्तये ।
चित्तशुद्धयै तत्प्रसादलब्ध्यै लोकशिवाय च ॥ ११॥
तदार्हन्त्यै प्रपद्ये तान् कामकोटिगुरूत्तमान् ।
प्रपन्नवत्सलान् लोकहिताचरणतत्परान् ॥ १२॥
ध्यानम् -
अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् ।
श्रीचन्द्रशेखरगुरुं ध्यायामि तमहर्निशम् ॥ १३॥
श्रीशङ्करार्यमपरं श्रीशिवाशिवरूपिणम् ।
पूज्यश्रीकामकोट्याख्यपीठगं तं दयानिधिम् ॥ १४॥
अथ सहस्रनामस्तोत्रम् ।
ॐ अपारकरुणासिन्धुर्ज्ञानदः शान्तमानसः ।
श्रीचन्द्रशेखरगुरुः शुचिर्दान्तस्तपोरतः ॥ १॥
ऋजुः क्षमापरोऽतर्क्यः स्थिरधीरचलोऽमलः ।
अष्टषष्टितमाचार्यशङ्करो देशिकाग्रणीः ॥ २॥
काञ्चीराजत्कामकोटिपीठालङ्कृतिविश्रुतः ।
कामकोटीपीठकृत्यनिर्वाहोद्युक्तपूर्वजः ॥ ३॥
जयाब्दवैशाखजातः प्रतिपत्तिथिसम्भवः ।
आर्याभिख्यातगोविन्दयज्वदौहित्रवंशजः ॥ ४॥
कुलदेवतयाऽऽख्यात स्वामिशैलेशनामवान् ।
नागेश्वरार्यदौहित्रो मीनाक्षीतनुजाभवः ॥ ५॥
सुब्रह्मण्यात्मजः सूरिरनुराधाभवः सुहृत् ।
महालक्ष्मीगर्भधृतः ऋग्वेदी हरितान्वयः ॥ ६॥
होसलस्मार्तकुलजः कर्णाटीमातृभाषणः ।
गणपत्यनुजः साम्बललितादिपुरोभवः ॥ ७॥
पराभवाब्दमाघात्ततुर्याश्रम उदारधीः ।
सर्वज्ञभगवत्पादाचार्यरूपो महायशाः ॥ ८॥
महादेवेन्द्रयतिराडनुगो बालसंयमी ।
रक्तशुक्लप्रभामिश्रश्रीगुरुध्याननिर्वृतः ॥ ९॥
कलवैग्राम आरूढपीठो गुरुपदस्थितः ।
प्लवङ्गचैत्रे पट्टाभिषिक्तो देशिकसत्तमः ॥ १०॥
गृहीतविद्यः प्रमुखसूरिभ्यस्तत्त्ववित्तमः ।
महेन्द्रमङ्गलगुरुकुलवासी द्विजावृतः ॥ ११॥
दक्षस्तीर्थात्तशास्त्रार्थस्तीर्थीकृतनिजाश्रितः ।
सर्वतः सारसङ्ग्राही सम्भाषारसिकाग्रणीः ॥ १२॥
सारज्ञाताऽविसंवादी ज्ञातज्ञेयो विशालधीः ।
परचित्तविदेकान्तचिन्तकोऽमर्षवर्जितः ॥ १३॥
संस्कृतद्राविडान्ध्रादिबहुभाषाविशारदः ।
स्वयं शिष्टः शिष्टजनवृतो धर्म्ये पथि स्थितः ॥ १४॥
शुद्धस्त्रिषवणस्नायी काषायाम्बरवेष्टितः ।
आद्यशङ्करयोगीन्द्रसमयानुगतौरतः ॥ १५॥
बाहुदण्डलसद्दण्डः कराग्रगकमण्डलुः ।
फालभागलसद्भूति पुण्ड्रोऽतिविमलाननः ॥ १६॥
स्वदण्डपूजनरतो दण्डदृष्टेश्वरः सुधीः ।
भूतिप्रलिप्तावयवः पुण्यतीर्थकृताप्लवः ॥ १७॥
अग्निर्वायुर्जलं सर्वं भस्मेति मनने रतः ।
सदा त्रियम्बकमनुजापी शिवतनुः शिवः ॥ १८॥
धृतरुद्राक्षमकुटो जनदृष्टशिवाकृतिः ।
रुद्राक्षमालाभरणः कम्रो मन्दगतिर्व्रती ॥ १९॥
धर्ममार्गाग्रगामी चानुगमार्गप्रदर्शकः ।
वाणीविहारिजिह्वाग्रो लोकसङ्ग्रहणेरतः ॥ २०॥
सुन्दरीचन्द्रमौलीशपदाब्जमधुपान्तरः ।
श्रीमहादेवयतिराडीप्सिताचार संयतः ॥ २१॥
श्रीचन्द्रशेखरयतिदृष्टतुर्याश्रमस्थितिः ।
श्रीमेरुमध्यबिन्दुस्थ सुन्दरीध्यानतत्परः ॥ २२॥
कैलासानीतयोगाख्यशिवलिङ्गकृतार्हणः ।
पूजामण्डपवाहादिसमलङ्कृतितत्परः ॥ २३॥
गणेशादित्यगोविन्द शिवाशङ्करपूजकः ।
अद्वैतभावनापेतभेदधीः (१००) सगुणेक्षणः ॥ २४॥
सर्वं ब्रह्मेति कृतधीः सर्वत्रब्रह्मभावनः ।
पञ्चायतनसुज्ञेयदेवपूजनतत्परः ॥ २५॥
श्रीरुद्रपाठनिरतोऽतिरुद्रादिप्रवर्तकः ।
शिवार्पितमनःकायः सर्वत्र श्रीशिवेक्षणः ॥ २६॥
क्षेत्रयात्रापरो विश्वाकारब्रह्मविमर्शकः ।
क्षेत्रेशपूजकश्चिन्ताक्रियान्वयकृतौ क्षमः ॥ २७॥
सद्वृत्तजनताभाग्यं साधुतर्पणभाषणः ।
चिद्रसार्द्रः सत्तमानामतिरोधापितक्रमः ॥ २८॥
ऊहाद्यगम्यव्यापारोऽनलसः सफलोद्यमः ।
सुव्रतः सुखदाचारः सुकृती सुकृतार्हणः ॥ २९॥
कष्टावहव्रती कष्टाचिन्तकः सुकरोद्यमः ।
निर्व्यापारलवः स्वार्थे व्यापृतो जनताहिते ॥ ३०॥
दुर्ज्ञेयवस्तुनिवहलघूकरणभाषणः ।
निर्लक्ष्यो लब्धलक्ष्यार्थो वाङ्मनोऽतीतचिन्तकः ॥ ३१॥
विविधाप्तजनप्रार्थ्यदर्शनोऽगूढचर्यकः ।
कालदेशावधिकृतनियन्त्रणबहिर्भवः ॥ ३२॥
निगमागमनिर्भाततत्त्वान्वेषी विचारवान् ।
अस्पष्टो दृष्टमात्रेण शान्तः सुग्रहविग्रहः ॥ ३३॥
भूतभूतेन्द्रियमनोवशीकरणतत्परः ।
दुर्लभ्यवस्तुसुलभीकरणे मार्गदर्शकः ॥ ३४॥
उद्युक्तः पुरुषार्थार्थी सान्द्रानन्दावबोधकः ।
तन्वा वाचा धियाऽक्षुद्रः क्षुद्रचेतोविदूरगः ॥ ३५॥
विश्वपीडापहानाय यतः स्थिरतरात्मधीः ।
रजस्तमोऽनाकुलितसत्ववृत्तिः प्रशान्तधीः ॥ ३६॥
परानन्दामृतास्वादी निष्कम्पः कुपरिस्थितौ ।
नित्यपूर्णपरब्रह्मलीनधीरकृतान्तरः ॥ ३७॥
अव्यापृतोऽनेककृत्यव्यापृतोरागदूरगः ।
उद्यत्सूर्याभवक्त्रश्रीः भालराजित्रिरेखकः ॥ ३८॥
प्रव्राट् प्रव्राड्गणोद्दीपः काषायाम्बरशायनः ।
कौपीनराजत्कटिको वस्त्रालङ्कृत्यनिर्भरः ॥ ३९॥
महितो वेदवचसा मोहितो वेदवाचनैः ।
कान्तः स्वाचरणैः कान्तिनिधानं मधुरेहितः ॥ ४०॥
पूर्वभाषी मधुरवाक् निकटस्थो हितैषणः ।
विभुर्हृदा प्रभुःशक्त्या कुतुकी लोकसङ्ग्रहे ॥ ४१॥
प्रभविष्णुः प्रभविता निश्चेष्टश्चेष्टिताखिलः ।
नेत्रद्वयमतिप्रीतिदायकाचरणः कृती ॥ ४२॥
अम्बाध्यानामृतस्यन्दसन्दोहाप्लुतमानसः ।
धराधरसुतादिव्यकथामृतकृतादरः ॥ ४३॥
सौन्दर्यलहरीपाने पायनेऽश्रुपरिप्लुतः ।
पुरः सन्निहितानम्रजनाभीष्टदवाक्सुधः ॥ ४४॥
परमानन्दसान्द्रात्मभाषणाल्लोकनन्दकः ।
परभक्तिप्लतो देवीचन्द्रमौलिप्रपूजकः ॥ ४५॥
कारुण्यात्माऽऽश्रितहिताचरणोऽमेयहृद्गतः ।
वागीशानो मधुरवाक् स्वात्मदश्चाविशेषदृक् ॥ ४६॥
दयागुरुर्लोकहितप्रवणीकृतसज्जनः ।
अनभ्यर्थ्यर्थिनिवहविश्राणितधनादिकः (२०१) ॥ ४७॥
लोकाहितावहजननेतृसौमत्यदायकः ।
निग्रहानुग्रहचणोऽसङ्गोभगवदाश्रितः ॥ ४८॥
भक्तेष्टदः पारिजातसमः स्वात्मन ईशिता ।
अर्थिव्रजार्तिहरणनियोजितधनिव्रजः ॥ ४९॥
स्फीतभाग्यप्रदानोत्कचरणः स्वात्मनिष्ठितः ।
कीर्त्यो गुणगणाधारः सौन्दर्यलहरीरतः ॥ ५०॥
स्वाङ्गभास्वत्तपःश्रीको विश्वतेजा विभावितः ।
महिताचार्यचरणोऽखिलविद्वेद्यदर्शनः ॥ ५१॥
ईशितेशितसन्मर्त्यः शारदामठसुस्थितः ।
विद्यावान्विमलोद्योगो विज्ञो निःस्पृहचेष्टितः ॥ ५२॥
असक्तः सुखसंवेत्ताऽदीनः शोकविवर्जितः ।
विवासी विजने गानरतो वीणाविनोदवन् ॥ ५३॥
शक्रवाटीद्रुमततिलघूकारिशिवास्मृतिः ।
शिवयोर्ध्यानयोगेन शिवीकृतजगत्त्रयः ॥ ५४॥
आत्मारामात्मदृष्टिपावितस्वजनो महान् ।
शङ्कृत्यधिकृतैश्वर्यः शङ्करार्पितचिन्तनः ॥ ५५॥
विगीतो निःस्पृहैः सेव्यः सङ्गवार्ताविनाकृतः ।
प्रेमार्द्रहासो मधुरवचाः क्षिप्रप्रसादनः ॥ ५६॥
दृश्यः सुनासः सुग्रीवो विभूत्यङ्कित फालकः ।
कण्ठोज्ज्वलत्सुरुद्राक्षमालयोन्नतकन्धरः ॥ ५७॥
रुद्राक्षभूषितश्रोत्रो रुद्राक्षावलिशेखरः ।
करलम्बितरुद्राक्षजपमालः सुदर्शनः ॥ ५८॥
तुलसीबिल्वमालाधृक्शिराः प्रणतवत्सलः ।
नारायणेतिव्याहारदत्ताशीर्वचनोऽनघः ॥ ५९॥
नारायणेति व्याहार स्मृतगोविन्ददत्तधीः ।
भगवद्रूपकलनाव्यापृतक्षण ईडिता ॥ ६०॥
आत्मसम्पद्रतः सम्पद्यश्रद्धः स्वाश्रिताश्रयः ।
अच्युतस्मृतिलीनात्माऽच्युतोऽच्युतनिजाश्रितः ॥ ६१॥
चिरन्तनोक्तिमहितवेदरक्षापरायणः ।
आश्चर्यदर्शी कुतुकी विश्वगाश्चर्यदर्शने ॥ ६२॥
महीयसाऽपिमहितः महनीयो महामनाः ।
दर्पणालोकितजगद्बोधितात्मस्वरूपदृक् ॥ ६३॥
लघ्वायाससुनिर्वर्त्यसत्कर्मसु नियोजकः ।
क्लिष्टतर्कारतो नीतिमार्गज्ञो नीतिबोधकः ॥ ६४॥
ऐहिकश्रेयसो वक्ता चामुष्मिकहितावहः ।
मृदुर्मृदुतरस्वान्तो बह्वर्थललितस्मितः ॥ ६५॥
ललितान्यस्तसर्वस्वः सदयो दयिताश्रितः ।
महामहिमराष्ट्रेशसचिवाद्यभिवन्दितः ॥ ६६॥
काशीनेपालराष्ट्रेशकृतपादाभिवन्दनः ।
धर्म्यमार्गगसन्नेतृन्यस्तधर्माभिरक्षणः ॥ ६७॥
सौन्दर्यलहरीमुख्यस्तुतितत्त्वविदग्रणीः ।
शिवाकारः शिवानन्दलहरीमग्नमानसः ॥ ६८॥
भगवत्पादरचितस्तोत्रपारायणोत्सुकः ।
आद्याचार्याखिलग्रन्थसारवेत्ता प्रगल्भवाक् ॥ ६९॥
क्रोधदूरः क्रोधयन्ता यतो(३००) दान्तनिजान्तरः ।
स्वच्छन्दवृत्तिरच्छन्दो धर्मच्छन्दानुवर्तनः ॥ ७०॥
तच्छब्दवाच्यचिन्ताकस्तदर्थात्मनियोजकः ।
तद्वशस्तत्पदज्ञेयसगुणाज्ञावशंवदः ॥ ७१॥
सगुणब्रह्मदत्तेक्षः सगुणाभ्यर्हणेरतः ।
सगुणेऽर्पितसर्वस्वः सगुणान्निर्गुणेक्षकः ॥ ७२॥
भक्तप्रियोभक्तिवेद्यः भक्तिवश्यो भवार्चकः ।
भक्तसौभाग्यघटको भक्तेष्टाचरणप्रियः ॥ ७३॥
मन्त्रजापी मन्त्रसिद्धो मन्त्रार्थमनने रतः ।
भावनागम्यललितामहिमावेक्षणेरतः ॥ ७४॥
भवारण्यकुठारात्मानन्दलब्धिसुनिर्वृतः ।
महायोगेश्वरस्तन्त्रमन्त्रयोगविदर्हितः ॥ ७५॥
परात्मभावनालीनो मन्त्रतन्त्राद्युपेक्षकः ।
निर्ममो निरहङ्कारो निष्कामो निष्परिग्रहः ॥ ७६॥
अक्लेशतो धीकालुष्यहारी विमलधीप्रदः ।
प्रमोदभरितस्वान्तो निर्वृतात्मेशचिन्तकः ॥ ७७॥
धन्यो धन्यस्मृतिर्धन्यतापादकवचःस्मृतिः ।
तपसाऽधिगतस्वेष्टोऽगदोगदनिवारणः ॥ ७८॥
देवीपदाब्जस्मरणरसिको नामजापकः ।
आधिव्याधिहरोदीनजनविश्रान्तिदायकः ॥ ७९॥
चिद्रूपसद्दर्शनाप्तानन्दः सम्मोदसम्भृतः ।
गूढात्मगतिरव्यग्रः प्रौढयोगगतौचणः ॥ ८०॥
देवीनामस्मृतिप्राप्तनैरुजस्तापवर्जितः ।
धर्म्याचारे दृढमतिः ईशेज्याधूतकल्मषः ॥ ८१॥
ईशालोकोत्कनयनः ईशगाथारतश्रवाः ।
पराङ्मुखस्याभिमुखीकरणे चाटुवाक्ततिः ॥ ८२॥
आर्तप्रलापिजनतोत्साहकृत् दैन्यनाशकः ।
यमादिनिरतः शान्तिदान्तिभूमा समाधिमान् ॥ ८३॥
शुभदर्भासनासीनो मृगाजिनकृतासनः ।
तारमन्त्रजपेलीनः प्राणवायुनियामकः ॥ ८४॥
ईशे विश्वात्मभावाढ्यः विश्वे ईशात्मभावनः ।
तारत्र्यवयवध्याता तारनादोन्मुखश्रवाः ॥ ८५॥
धारणाच्यवनक्लिन्नः पुनः सिद्धात्मधारणः ।
धारणानिर्वृतो ध्यानलब्धात्मानन्द आत्मवान् ॥ ८६॥
अनावृतपदस्थायी ब्रह्मभावादविच्युतः ।
अक्लिष्टकारी सुकरध्यानमार्गप्रदर्शकः ॥ ८७॥
स्निग्धः समो मधुरगीर्मधुरान्मधुरेक्षणः ।
अव्याजकरुणापूर्णहृदयः करुणेक्षणः ॥ ८८॥
निस्तुलस्तुलनाहीनब्रह्मवस्तुनिविष्टधीः ।
दुष्टदूरो दुष्टजनपावनो दुष्टतापहः ॥ ८९॥
आर्यधर्मकामकोटिमुखपत्रप्रवर्तकः ।
बिम्बग्रहकलाभिज्ञो गायको गीतसारवित् ॥ ९०॥
ज्ञानसम्बन्धवागीशमुखगीतान्तरार्थदृक् ।
मणिवाचकगोदेशसुप्रभातस्तुतेश्वरः ॥ ९१॥
श्रीमद्रामायणकथाश्रवणे कुतुकी शमी (४००) ।
रामनामप्रभावज्ञो रामचारित्रविस्मितः ॥ ९२॥
श्रीरामनामलेखोत्कजनतोत्साहवर्धनः ।
कोटिसङ्ख्याक श्रीरामनामलेख प्रवर्तकः ॥ ९३॥
शुकवागमृतास्वादी श्रीकृष्णध्यानलीनधीः ।
कृतार्थचित्तो धन्यात्मा धन्यवाक्कायमण्डलः ॥ ९४॥
समाकूतिः सहृदयः समनाः सङ्गवर्जितः ।
समः स्वपरभेदाज्ञः क्षमया पृथिवीसमः ॥ ९५॥
करुणास्यन्दिदृक्पातो गीतदेवाररञ्जितः ।
देवारश्रवणप्रीतिधाता देवारतत्त्ववित् ॥ ९६॥
देवारगायकगणरक्षको मधुगायनः ।
विद्वन्महितदेवारगीतः परशिवाकृतिः ॥ ९७॥
सुधामधुरभाष्यल्पाक्षरोभूर्यर्थवेदकः ।
अक्षितेजोधूतपापो गोब्राह्मणहिते रतः ॥ ९८॥
गोशालापालनव्यग्रो वृद्धानाथसुपोषकः ।
यतिमण्डलसंवीतो बालचित्तविनोदनः ॥ ९९॥
भक्तमानसराजीवमित्रो मैत्रीदयाव्रती ।
आङ्ग्ल्यादिबहुभाषावित् नव्यविज्ञानसूक्ष्मवित् ॥ १००॥
स्वभाषयाऽन्यभाषाविद्गणसम्भाषणोत्सुकः ।
नव्यविज्ञानविन्मुख्यैस्तत्त्वविद्याविचारकृत् ॥ १०१॥
सम्भाषाज्ञातविज्ञानतारतम्यगवेषकः ।
पादमूलनतानेकविपश्चिद्गणसंवृतः ॥ १०२॥
सद्गोष्ठीमहितः साधुहिताचारः सताङ्गतिः ।
भगवच्छङ्करगुरोरपराकृतिरुत्तमः ॥ १०३॥
काषायवासा विध्वस्तकषायोदेशिकोत्तमः ।
शिरोवेष्टितकाषायवासोऽच्छन्नमुखाम्बुजः ॥ १०४॥
विशालवक्षा निष्टप्तहेमाभतनुरूर्जितः ।
वेदाध्ययनशालाकृद्वेदाधीतिकृतादरः ॥ १०५॥
वेदरक्षासमितिकृद्वेदाध्यापकमण्डनः ।
त्रयीपदविभागज्ञवेदाध्यापकरक्षकः ॥ १०६॥
अनधीतिवशाल्लुप्तवेदशाखागवेषकः ।
विमानितद्विजगणसम्माननकृतादरः ॥ १०७॥
पदक्रमजटापाठे विद्यार्थ्युत्साहवर्धनः ।
जयाख्येन्द्रसरस्वत्या कृतपादाभिवन्दनः ॥ १०८॥
श्रीशङ्करविजयेन्द्रसरस्वत्यभिवन्दितः ।
श्रीजयेन्द्रगुरुप्रेरकेच्छाशक्तिः प्रभावनः ॥ १०९॥
क्रियाशक्तिश्रीजयेन्द्र पूरितेच्छो विभावनः ।
गुरुप्रियाब्रह्मसूत्रवृत्तिकृच्छिष्यतोषितः ॥ ११०॥
राजराजाख्यचोलस्य स्वर्णमौलिकृतार्हणः ।
गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृदाश्रवः ॥ १११॥
कामाक्षीवाहकस्वर्णरथकल्पननिर्भरः ।
कामाक्ष्यम्बालयस्वर्णच्छादको हेमदीप्तिमान् ॥ ११२॥
काश्यां श्रीकामकोटीशालयकर्ता विदांवरः ।
कुम्भाभिषेचनादीप्तदेवालय उदारधीः ॥ ११३॥
कालट्यां शङ्करगुरोः कीर्तिस्तम्भकृतार्हणः ।
चिदम्बरेशकरुणाप्लावितः शैववाग्रतः ॥ ११४॥
रत्नभूषितनृत्येशहस्तशीर्षपदाम्बुजः ।
श्रीचक्रात्मकताटङ्कनवीकरणमोदितः ॥ ११५॥
श्रीकामाक्ष्याः सहस्राख्यामालालङ्करणक्षमः ।
पदयात्रालङ्घिताध्वा क्षेत्रतीर्थाटनः सदा ॥ ११६॥
क्षेमदो जनतायोगक्षेमविद्भद्रकारकः ।
वर्णधर्मरहस्यज्ञो ब्रह्मचर्यव्रते स्थितः ॥ ११७॥
भस्मीकृतैषणाभत्रिभूतिरेखाललाटकः ।
ऊरीकृतजगद्रक्षो दृक्कोणकरुणेक्षणः ॥ ११८॥
सुधास्रुतिसमाभाषः कण्ठगस्फटिकावलिः ।
अम्बिकाक्रीडसौधाभाभयहस्तः पुरानवः ॥ ११९॥
षड्भावदूरस्तपसा दीप्ततेजा बुधार्हितः (५००) ।
अन्तर्मुखः सदा मौनी जिततृष्णो जितक्षुधः ॥ १२०॥
गीर्वाणवाणीसम्पोषलग्नः क्षामोदरः कृशः ।
बहिर्मुखो लोकहिते उपवासरतोऽक्लमः ॥ १२१॥
धर्मपोषणसङ्कल्पो धर्मज्ञो धर्म्यपालनः ।
असङ्गविवृतज्ञानयोगो वेत्ता जितेन्द्रियः ॥ १२२॥
शिष्योपदेशनिरतः कार्याकार्यप्रबोधकः ।
ज्ञानमुद्राञ्चितकरः कुक्कुटासनसुस्थितः ॥ १२३॥
कान्तः पद्मासनासीनः क्वचिदुत्कटकस्थितः ।
पारिव्राज्याश्रमयशःकारको मन्त्रतन्त्रवित् ॥ १२४॥
त्रयीमार्गोप्रदेष्टाऽर्च्यः सर्वतन्त्रस्वतन्त्रधीः ।
वेदान्तस्मृतितत्त्वज्ञो द्वैताद्वैतविचक्षणः ॥ १२५॥
श्रुतिस्मृतिपुराणादिसारविद्विज्ञसम्मतः ।
सारस्वतानुग्रहदोगुणत्रयविभागवित् ॥ १२६॥
कलिघ्नः कल्युचितसत्सङ्गधाता विरक्तधीः ।
शैववैष्णवशाक्तादिलक्ष्यभेदप्रदर्शकः ॥ १२७॥
भगवन्नामरतिकृत् नामजपकमध्यगः ।
अमानुषचरित्राढ्यश्चातिमानुषवीर्यवान् ॥ १२८॥
तत्तद्भाषागभजनस्तुतिगीतप्रकाशकः ।
चित्रकर्मरतश्चित्रदर्शनोत्सुकमानसः ॥ १२९॥
शिल्पचित्रकलाभिज्ञसंरक्षणविधौरतः ।
शिल्पचित्रकलाबोधिविद्यालयविधायकः ॥ १३०॥
शिल्पि प्रचोदकः शिल्पैः कृतालयपरिष्कृतिः ।
स्वनामविख्यातविश्वविद्यालयसमीक्षकः ॥ १३१॥
विश्वराष्ट्रीयसद्ग्रन्थालयलब्धात्मतोषणः ।
विद्यालयव्रातकृतितुष्टो विद्याविवर्धनः ॥ १३२॥
भेरीपटहवाद्यादिमहितस्वागतोत्सवः ।
सकृत्स्मरणसन्तुष्टः सर्वज्ञो ज्ञानदायकः ॥ १३३॥
दरस्मितमुखाम्भोजः कान्त्या विजितभास्करः ।
स्वानुष्ठित्याख्यातकर्मयोगो नेता स्वकर्मवित् ॥ १३४॥
स्वभक्तियोगघटितचन्द्रमौलिपदद्वयः ।
सप्तकोटिमहामन्त्रवेत्ता जप्तमहामनुः ॥ १३५॥
मैत्र्यादिवासनावाप्तसमधीर्लोकशर्मदः ।
वैखरीजितवागीशाशावर्गजिदग्रणीः ॥ १३६॥
प्राच्याग्रहाररचनारसिकः स्थितरक्षकः ।
ग्रामीणजनसद्वृत्तिविधाता विहितार्थदृक् ॥ १३७॥
शैवः शाक्तो गाणपतो वैष्णवोऽभेददर्शकः ।
ब्रह्मचर्यात्प्रव्रजित एषणात्रयवर्जितः ॥ १३८॥
भगवत्पादस्मृत्युत्थरोमाञ्चोऽरतिवर्जितः ।
भक्त्यावनम्रविजयजयेन्द्रेड्यो यमीश्वरः ॥ १३९॥
प्रपञ्चव्यवहाराणां साक्षी सङ्गविवर्जितः ।
द्वन्द्वातीतः सुहृदयो राजयोगस्थिरान्तरः ॥ १४०॥
अवस्थात्रितयातीतभानवान् सूरितल्लजः ।
वीक्षाविवशिताशेषजनस्वान्तः स्वराड् गुहः ॥ १४१॥
शिवो गुरुः शिवगुरुः शिवगुर्वात्मजाश्रितः ।
श्रीकामकोटिपीठाग्र्यनिकेतो गुरुतल्लजः (६००) ॥ १४२॥
स्ववृत्तप्रीणिताशेषविबुधो विबुधोत्तमः ।
महावाक्यसमाम्नाततत्त्वज्ञस्तत्त्वबोधकः ॥ १४३॥
भक्तोपहृतसद्ग्रन्थकृतेक्षस्तत्स्थसारवित् ।
ज्ञानदानोत्कमधुरवाग्विलासो महामहाः ॥ १४४॥
मर्यादोल्लङ्घनरतजनदूरोऽविदूरगः ।
बालकोत्साहदो बालसुलभो बालदेशिकः ॥ १४५॥
व्यक्तोऽव्यक्तोऽतिविशदश्चिन्मयश्चित्कलाधरः ।
आकाङ्क्ष्यदर्शनो नव्यनव्यरूपधृगीश्वरः ॥ १४६॥
मूकवाचालकृत्पङ्गुसुकराद्रीशलङ्घनः ।
सच्छिष्यरक्षितः शिष्यरक्षाकृत् शिष्यवत्सलः ॥ १४७॥
पदवाक्यप्रमाणज्ञः प्रस्थानत्रयपण्डितः ।
भक्तानां परमस्पष्टः परमाख्यगुरुप्रियः ॥ १४८॥
परर्द्ध्यस्पृह आर्तेष्टदाता धर्मपरायणः ।
पर्जन्यवद्धितकरः परिग्रहविवर्जितः ॥ १४९॥
पवनः पावनः पूतस्वाचारे पर्यवस्थितः ।
स्मरणादाधिशतहृत् भवरुग्भेषजं भिषक् ॥ १५०॥
पुण्यकीर्तिः पुण्यलभ्यदर्शनः स्मृतिपावनः ।
पुष्कराक्षः पुष्पहासः पुरुजित्पुरुसत्तमः ॥ १५१॥
भूतभव्यभवद्द्रष्टा भव्यो रुद्राक्षभूषणः ।
प्रग्रहः पेशलः प्रांशुः शिष्यदोषप्रतर्दनः ॥ १५२॥
ब्रह्म ब्रह्मविदामग्र्यः प्रसन्नोब्रह्मभावदः ।
भ्राजिष्णुः प्राणदः प्राणनिलयोमङ्गलं परम् ॥ १५३॥
मनोजवो मारुतजित्श्वासायामो महाक्रमः ।
महोनिधिर्महाभागो महाबुद्धिर्महार्हणः ॥ १५४॥
मृदुस्वनो महावाग्मी परा मुक्त्यर्थिनां गतिः ।
सुमेधया दृष्टलोकवार्ताकोऽदृश्यदर्शनः ॥ १५५॥
भगवत्पदविश्रान्तो नेता योगविदां सताम् ।
रविमण्डलमध्यस्थश्रीमात्रालोकतत्परः ॥ १५६॥
चन्द्रमण्डलदृष्टात्मदैवतो भावनाबली ।
वनमालिस्तुतिपरो वरारोह उदारवाक् ॥ १५७॥
कर्ता विकर्ता गहनचेष्टो गुह्यस्वविक्रमः ।
विश्वदृष्टिविशेषज्ञो विधेयविनयावहः ॥ १५८॥
विरजोमार्गसञ्चारी विरामो विरजोऽयनः ।
आत्मारामो जितमनाः विहायसगतिप्रियः ॥ १५९॥
वीरो वीतभयो विष्णुर्वेगवान् वीतदुर्भगः (७००) ।
व्यग्रो व्यवस्थितोऽक्लिष्टव्यवसायोऽव्यथक्रमः ॥ १६०॥
व्याससूक्तिरतो व्यासदृष्टभारतभाववित् ।
रामसेतुधनुष्कोटिरामेश्वरचिरस्थितिः ॥ १६१॥
अग्नितीर्थे द्वादशेशलिङ्गदर्शननिर्वृतः ।
अब्धिवेलातिक्रमणरोधिमारुतिपूजकः ॥ १६२॥
वृषारूढमहेशानदर्शनासक्त उत्तरः ।
वात्यादिनष्टमार्गस्थदीनानाथान्नदानकृत् ॥ १६३॥
विविक्तसेवी विजितकरणः पूतहृच्छयः ।
जन्ममृत्युजराभीतिपदादायी जितान्तरः ॥ १६४॥
जितमन्युर्जितक्रोधो जितामर्षोऽव्यथेन्द्रियः ।
ज्योतिरादित्यदत्तेक्षः आत्मज्योतिषि निष्ठितः ॥ १६५॥
प्रबलेन्द्रियसङ्घर्षजयीन्द्रियविनोदनः ।
स्वकृत्यभरसंक्षेप्ता सदायोगी सतां गतिः ॥ १६६॥
सत्कृतो द्विजसत्कर्तासत्पथाचारदेशिकः ।
सत्वस्थः सत्ववान्साधुसन्धाता सुसमीहितः ॥ १६७॥
समितिञ्जयवाग्भूतिः सर्वशास्त्रविदांवरः ।
सर्वदर्शी सर्वसहः सर्वयोगविनिःसृतः ॥ १६८॥
सर्वासुनिलयश्रीमत्कामाक्षी पदनिष्ठितः ।
सहः सहिष्णुः सर्वज्ञ साक्ष्यात्मा सिद्धसाधनः ॥ १६९॥
पराहन्ताभरन्यस्तस्वाहम्भाव उपेक्षकः ।
धन्यनामा धन्यकृतिः धन्यतापादनक्षमः ॥ १७०॥
धराधरक्षमाशीलो दर्पहा सौम्यभावनः ।
धर्मगुब्धर्मकृद्धर्मी धर्माध्यक्षो दुरारिहा ॥ १७१॥
दाक्षिण्यनिधिराशान्तख्यातकीर्तिरदारुणः ।
धृतिमान् जितषड्वर्गो दीप्तिमान्दुर्गमान्तरः ॥ १७२॥
दुर्मर्षणोऽप्रतिरथः तुरीयात्मनि निष्ठितः ।
दुःस्वप्नहा दुष्कृतिहा वरदेशप्रसादनः ॥ १७३॥
तेजोनिधिर्द्युतिधरो निर्धनो द्रविणप्रदः ।
धृतात्माऽऽनन्दनो नन्दी नयनीतस्वजीवनः ॥ १७४॥
निग्रहो निगृहीतात्मा निग्रहाध्वप्रदर्शकः ।
नियतोऽनियमोजेताध्याननीतक्षणान्तरः ॥ १७५॥
नैककर्मकृदव्यग्रो नैकरूपोऽनिरूपितः ।
भगवान्भगवत्पादस्मृतिधन्यो भवापहः ॥ १७६॥
अनुत्तमपदद्रष्टा भयकृद्भयनाशनः ।
अक्रूरोऽतीन्द्रियद्रष्टाऽग्राह्योऽशोकोऽतमा (८००) दृढः ॥ १७७॥
अचिन्त्यवेगोऽधिष्ठानस्थितोऽधोक्षज आश्रमः ।
कृते लोकहितेऽतृप्तोऽनन्तरूप उदीरतः ॥ १७८॥
अनिरोध्योऽप्रमेयात्मा वादेऽतिरथ उग्रधीः ।
अनुकूलोऽरविन्दाक्षोऽमेयश्रीर्धरणीशयः ॥ १७९॥
अमानी मानदो मान्यो मिताशी मितभाषणः ।
करणीयादनावृत्तोऽक्षोभ्य आनन्दभावनः ॥ १८०॥
उदारचिन्तो निःस्वार्थ ऊर्जावानूर्जितः स्वतः ।
कपीन्द्रभक्तो गरुडवाहनारायणार्चकः ॥ १८१॥
कविहृद्यकथावक्ताऽकामो गुरुतमः स्वयम् ।
गोविन्दाष्टकगायी सुकृताशीर्गातृमध्यगः ॥ १८२॥
भजगोविन्दगानेन तुच्छरागव्यपोहनः ।
कृतज्ञो गुरुपादेषु कृतधीः स्वकृतौ स्वतः ॥ १८३॥
बालादपि श्रुतनयः चतुरश्रः शुचिश्रवाः ।
स्वामी शक्तिमतांश्रेष्ठः चतुर्वेदविदर्हणः ॥ १८४॥
स्वान्तर्गतारिनिवहनियन्ताऽबाह्यशत्रुकः ।
गोक्षीरचन्दनक्षोदघृताद्यैरीशसेचकः ॥ १८५॥
शब्दातिगब्रह्मरतः शब्दब्रह्मणि निष्ठितः ।
अक्षुब्धचेता अक्रुद्धः स्वशास्ता शिष्यशासकः ॥ १८६॥
इष्ठोऽविशिष्टः शिष्टेष्टः शुभाङ्गः शुभदेक्षणः ।
शिवार्पितमनाः श्रीशसेवी श्रेयोदसूक्तिमान् ॥ १८७॥
दान्तो दमयिताऽदम्यः तीर्णश्रुत्यादिसागरः ।
सिद्धार्थः सिद्धसङ्कल्पः सुतपा शुभदर्शनः ॥ १८८॥
आश्रितावननिष्णातसुप्रसादः सुलोचनः ।
सुमुखः सुरुचिः सेवाऽऽयातार्थिसुलभः सुदृक् ॥ १८९॥
सोमयागादिविप्रेन्द्रनिर्वर्त्यक्रतुरक्षकः ।
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोतास्तुतातिगः ॥ १९०॥
स्थविरो दण्डधृत् दण्डापनीताश्रितरुक्चयः ।
स्थिरः स्पष्टाक्षरो बिल्वतुलसीस्रग्विभूषितः ॥ १९१॥
स्वस्तिकृत्स्ववशः स्वङ्गः स्वभावमृदुरक्षितः ।
हवनप्रीतहुतभुङ्मध्यगेश्वरदर्शनः ॥ १९२॥
अनुग्रहक्षमः क्षामद्रष्टा क्षेमकृदीक्षणः ।
क्षेत्रक्षेत्रज्ञदृष्ट्याप्तसमदृष्टिर्हितङ्करः (९०१) ॥ १९३॥
महनीयगुणग्रामो जयेन्द्रन्यस्तपीठधूः ।
स्वहंसगमनव्याप्तभारतो विबुधाकृतिः ॥ १९४॥
कदन्नतृप्तः क्षामोदरो मुग्धतराननः ।
महाध्वगमनाश्रान्तो महापाशुपताकृतिः ॥ १९५॥
सामगानप्रियः सामगानतोषितशङ्करः ।
महामन्त्रजपप्राप्तविभूतिर्भूतिदोनृणाम् ॥ १९६॥
सुधाधरीकृतिचणसूक्तिः स्वीकृतसंयमः ।
वृत्तौ मधुकरश्चित्ते हिमोवागीश्वरो धिया ॥ १९७॥
सुवासिन्यर्चनरतो नवकन्यासमर्चकः ।
सुवासिनीमण्डलगदेवीदर्शननिर्वृतः ॥ १९८॥
अजपाजपसुप्रीतः कामाक्षीप्रकटाकृतिः ।
देव्यै नवनवस्निग्धमधुरान्ननिवेदकः ॥ १९९॥
अग्रजाग्रोऽचिन्त्यगुणोऽगर्वितोऽमरवाग्वदः ।
वैदिकैस्तान्त्रिकैर्मन्त्रैरर्हिताम्बोह्यतान्त्रिकः ॥ २००॥
अनाकलितसादृश्यः श्रीविद्यामन्त्रतन्त्रवित् ।
सर्वाधिशायिकरुणोललितः स्मितरोचिषा ॥ २०१॥
अद्वैतं सत्यमित्याख्यन्मध्यार्जुनशिवार्चकः ।
त्र्याश्रमस्थैरर्हिताङ्घ्रिः प्रत्यक् चितिविमर्शकः ॥ २०२॥
दयमानो दीर्घदृष्टिः गुरुसङ्केतपालकः ।
निजसंलापमाधुर्यहृतसज्जनमानसः ॥ २०३॥
उपचारैः षोडशभिर्मानसैर्महितेश्वरः ।
आबालगोपविदितः कर्माकर्मविभागवित् ॥ २०४॥
लुप्तविघ्नः स्वाश्रितानां ऋजुचित्तसमीपगः ।
दैवीसम्पद्धृताकारो दैवीसम्पन्निधानभूः ॥ २०५॥
अम्बापादावलम्बिस्वजीवनः सुखजीवनः ।
मौन्यचेष्टोऽवचनप्रवक्ता श्रोतृतर्पकः ॥ २०६॥
जराशोषितसर्वाङ्गो जरयाऽजरितान्तरः ।
वाचापनीतवैमत्यः शास्त्ररक्षणतत्परः ॥ २०७॥
गुरुवारे शास्त्रविद्भिः कृतशास्त्रविचारणः ।
स्वजन्मभानुराधासु वेदरक्षाविचारकृत् ॥ २०८॥
अप्रौढकन्योद्वाहार्थनिधिदो लोकनायकः ।
अनाथप्रेतसंस्कारोपकृन्निधिविधायकः ॥ २०९॥
वेदभाष्याधीतिपालः क्षुधितान्नवितारकः ।
मुष्टितण्डुलचित्त्यात्तनिःस्वालयसुपोषणः ॥ २१०॥
रुग्णालयगतार्तानां ईशानुग्रहवेदकः ।
कलवैस्थस्वगुरुराड्वृन्दावनचिरस्थितिः ॥ २११॥
सताराक्षेत्रगोदीच्य चिदम्बरशिवाश्रयः ।
देहलीनिर्मिताद्र्यग्र्य स्वामिशैलेशमन्दिरः ॥ २१२॥
शरणागतदीनार्तपरित्राणपरायणः ।
आम्नायसारगुलिकाचूषकः स्वच्छहृच्छयः ॥ २१३॥
विदितात्मरसानन्दास्वादत्यक्तैषणः स्वभूः ।
सिंहासनेशीमनुराड्जपनिस्तन्द्रितान्तरः ॥ २१४॥
आत्मानन्दरसास्वादार्धसम्मीलितपक्ष्मकः ।
पूजागेहानन्तरभूकृतवासोऽनिकेतनः ॥ २१५॥
महागुरुमहास्वामिपरमाचार्यसंज्ञकः ।
नवोमहानितिख्यात शिष्यः शिष्योपनायकः ॥ २१६॥
देशपालैरर्चिताङ्घ्रिः कोट्यतीतजनैर्नुतः ।
श्रीजयेन्द्रसरस्वत्यै स्वयमद्वैतबोधकः ॥ २१७॥
शिष्याय योगलिङ्गार्चामार्गनिर्देशकारकः ।
सुन्दरीवरिवस्यार्ह श्रीविद्यादीक्षिताश्रवः ॥ २१८॥
प्रख्यापितप्रशिष्यश्च बालस्वामीति संज्ञया ।
स्वसन्निधौ प्रशिष्याय बोधिताद्वैत आशुकृत् ॥ २१९॥
शिष्यप्रशिष्यनिर्वृत्तशताब्दीपरमोत्सवः ।
वेदैश्चतुर्भिर्विप्रौघघोषितैर्मुदितान्तरः ॥ २२०॥
पादपीठे न्यस्तपादो हेमसिंहासनास्थितः ।
गुरुद्वितयशिष्याग्र्यकृतचामरवीजनः ॥ २२१॥
शिष्यैर्जयेन्द्रैः कनकमुद्राकृतपदार्चनः ।
वृन्दावनेसन्निहितः काञ्च्यन्तरितविग्रहः (१०००) ।
स्वर्च्यः स्तवेड्यः स्तुत्यात्मापुरःस्फुरितभातनुः ॥ २२३॥
नाद्यास्तीति भ्रान्तिभीतस्वान्तेऽस्मीतिप्रदर्शकः ।
काञ्च्यां श्रीकामकोट्याख्यपीठगः शङ्करो गुरुः ॥ २२४॥
पूज्यश्रीचरणः चन्द्रशेखरेन्द्रसरस्वती ।
महास्वामी विजयताच्छारदामठसुस्थितः (१००८) ॥ २२५॥
नमस्ते परमाचार्य महास्वामिन् महागुरो ।
वृन्दावने सन्निहित रक्ष वृन्दमिमं स्वकम् ॥ २२६॥
नामस्तवनमात्रेणपुरः स्फुरितविग्रहः ।
दर्शयत्यात्मचरितं मोदयन्नः परोगुरुः ॥ २२७॥
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
आप्नोति सम्पदं सर्वामिष्टामर्थ्यां शुभेक्षणः ॥ २२८॥
श्रीचन्द्रशेखरेन्द्रसरस्वती सहस्रनामस्तोत्रं सम्पूर्णम् ।
श्री गुरो जय विजयीभव ।
Proofread by Aruna Narayanan