गुरुपादुकापञ्चकम्
जगज्जनि-स्तेम-लयालयाभ्यां अगण्य-पुण्योदय-भाविताभ्याम् ।
त्रयीशिरोजात-निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम् ॥ १॥
विपत्तमस्तोम-विकर्तनाभ्यां विशिष्ट-संपत्ति-विवर्धनाभ्याम् ।
नमज्जनाशेष-विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २॥
समस्त-दुस्तर्क-कलङ्क-पङ्कापनोदन-प्रौढ-जलाशयाभ्याम् ।
निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ३॥
तापत्रयादित्य-करार्दितानां छायामयीभ्यां अतिशीतलाभ्याम् ।
आपन्न-संरक्षण-दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ४॥
यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः ।
ताभ्यामजेशाच्युत-भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ५॥
ये पादुका-पञ्चकमादरेण पठन्ति नित्यं प्रयताः प्रभाते ।
तेषां गृहे नित्य-निवासशीला श्रीदेशिकेन्द्रस्य कटाक्षलक्ष्मीः ॥ ६॥
इति श्रीगुरुपादुकापञ्चकं सम्पूर्णम् ।
Encoded and proofread by N.Balasubramanian