श्रीकार्तवीर्यकवचम्
नारद उवाच ।
साधु साधु महाप्राज्ञ सर्व तन्त्रविशारद ।
त्वया मह्यं समाख्यातं विधानं तन्त्रगोपितम् ॥ १॥
अधुना तु महाभाग कीर्तवीर्यहनूमतोः ।
कवचे श्रोतुमिच्छामि तद्वदस्व कृपानिधे ॥ २॥
सनत्कुमार उवाच ।
शृणु विप्रेन्द्र वक्ष्यामि कवचं परमाद्भुतम् ।
कार्तवीर्यस्य येनासौ प्रसन्नः कार्यसिद्धिकृत् ॥ ३॥
सहस्रादित्यसङ्काशे नानारत्नसमुज्ज्वले ।
भास्वद्ध्वजपताकाढ्ये तुरगायुतभूषिते ॥ ४॥
महासंवर्तकाम्भोधिभीमरावविराविणि ।
समुद्धृतमहाछत्रवितानितवियत्पथे ॥ ५॥
महारथवरे दीप्तनानायुधविराजिते ।
सुस्थितं विपुलोदारं सहस्रभुजमण्डितम् ॥ ६॥
वामैरुद्दण्डकोदण्डान्दधानमपरैः शरान् ।
किरीटहारमुकुटकेयूरवलयाङ्गदैः ॥ ७॥
मुद्रिकोदरबन्धाद्यैर्मौञ्जीनूपुरकादिभिः ।
भूषितं विविधाकल्पैर्भास्वरैः सुमहाधनैः ॥ ८॥
आबद्धकवचं वीरं सुप्रसन्नाननाम्बुजम् ।
धनुर्ज्या सिंहनादेन कम्पयन्तं जगत्त्रयम् ॥ ९॥
सर्वशत्रुक्षयकरं सर्वव्याधिविनाशनम् ।
सर्वसम्पत्प्रदातारं विजयश्रीनिषेवितम् ॥ १०॥
सर्वसौभाग्यदं भद्रं भक्ताभयविधायिनम् ।
दिव्यमाल्यानुलेपाढ्यं सर्वलक्षणसंयुतम् ॥ ११॥
रथनागाश्वपादातवृन्दमध्यगमीश्वरम् ।
वरदं चक्रवर्तीनं सर्वलोकैकपालकम् ॥ १२॥
समानोदितसाहस्रदिवाकरसमद्युतिम् ।
महायोगभवैश्वर्यकीर्त्याक्रान्तजगत्त्रयम् ॥ १३॥
श्रीमच्चक्रं हरेरंशादवतीर्णं महीतले ।
सम्यगात्मादिभेदेन ध्यात्वा रक्षामुदीरयेत् ॥ १४॥
अस्याङ्गमूर्तयः पञ्च पान्तु मां स्फटिकोज्ज्वलाः ।
अग्नीशासुरवायव्यकोणेषु हृदयादिकाः ॥ १५॥
सर्वतोस्रज्वलद्रूपा दरचर्मासिपाणयः ।
अव्याहतबलैश्वर्यशक्तिसामर्थ्यविग्रहाः ॥ १६॥
क्षेमङ्करीशक्तियुतश्चौरवर्गविभञ्जनः ।
प्राचीं दिशं रक्षतु मे बाणबाणासनायुधः ॥ १७॥
श्रीकरीशक्तिसहितो मारीभयविनाशकः ।
शरचापधरः श्रीमान् दिशं मे पातु दक्षिणाम् ॥ १८॥
महावश्यकरीयुक्तः सर्वशत्रुविनाशकृत् ।
महेषुचापधृक्पातु मम प्राचेतसीं दिशम् ॥ १९॥
यशःकर्या समायुक्तो दैत्यसङ्घविनाशनः ।
परिरक्षतु मे सम्यग्विदिशं चैत्रभानवीम् ॥ २०॥
विद्याकरीसमायुक्तः सुमहद्दुःखनाशनः ।
पातु मे नैरृतीं चापपाणिर्विदिशमीश्वरः ॥ २१॥
धनकर्या समायुक्तो महादुरित नाशनः ।
इष्वासनेषुधृक्पातु विदिशं मम वायवीम् ॥ २२॥
आयुःकर्या युतः श्रीमान्महाभयविनाशनः ।
चापेषुधारी शैवीं मे विदिशं परिरक्षतु ॥ २३॥
विजयश्रीयुतः साक्षात्सहस्रारधरो विभुः ।
दिशमूर्ध्वामवतु मे सर्वदुष्टभयङ्करः ॥ २४॥
शङ्खभृत्सुमहाशक्तिसंयुतोऽप्यधरां दिशम् ।
परिरक्षतु मे दुःखध्वान्तसम्भेदभास्करः ॥ २५॥
महायोगसमायुक्तः सर्वदिक्चक्रमण्डलः ।
महायोगीश्वरः पातु सर्वतो मम पद्मभृत् ॥ २६॥
एतास्तु मूर्तयो रक्ता रक्तमाल्यांशुकावृताः ।
प्रधानदेवतारूपाः पृथग्रथवरे स्थिताः ॥ २७॥
शक्तयः पद्महस्ताश्च नीलेन्दीवरसन्न्निभाः ।
शुक्लमाल्यानुवसनाः सुलिप्ततिलकोज्ज्वलाः ॥ २८॥
तत्पार्षदेश्वराः स्वस्ववाहनायुधभूषणाः ।
स्वस्वदिक्षु स्थिताः पान्तु मामिन्द्राद्या महाबलाः ॥ २९॥
एतस्तस्य समाख्याताः सर्वावरणदेवताः ।
सर्वतो मां सदा पातुं सर्वशक्तिसमन्विताः ॥ ३०॥
हृदये चोदरे नाभौ जठरे गुह्यमण्डले ।
तेजोरूपाः स्थिताः पातुं वाञ्छासुरवनद्रुमाः ॥ ३१॥
दिशं चान्ये महावर्णा मन्त्ररूपा महोज्ज्वलाः ।
व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥ ३२॥
कार्तवीर्यः शिरः पातु ललाटं हैहयेश्वरः ।
सुमुखो मे मुखं पातु कर्णौ व्याप्तजगत्त्रयः ॥ ३३॥
सुकुमारो हनुं पातु भ्रूयुगं मे धनुर्धरः ।
नयनं पुण्डरीकाक्षो नासिकां मे गुणाकरः ॥ ३४॥
अधरोष्ठौ सदा पातु ब्रह्मज्ञेयो द्विजान्कविः ।
सर्वशास्त्रकलाधारी जिह्वां चिबुकमव्ययः ॥ ३५॥
दत्तात्रेयप्रियः कण्ठं स्कन्धौ राजकुलेश्वरः ।
भुजौ दशास्यदर्पघ्नो हृदयं मे महाबलः ॥ ३६॥
कुक्षिं रक्षतु मे विद्वान् वक्षः परपुरञ्जयः ।
करौ सर्वार्थदः पातु कराग्राणि जगत्प्रियः ॥ ३७॥
रेवाम्बुलीलासंदृप्तो जठरं परिरक्षतु ।
वीरशूरस्तु मे नाभिं पार्श्वौ मे सर्वदुष्टहा ॥ ३८॥
सहस्रभुजभृत्पृष्टं सप्तद्वीपाधिपः कटिम् ।
ऊरू माहिष्मतीनाथो जानुनी वल्लभो भुवः ॥ ३९॥
जङ्घे वीराधिपः पातु पातु पादौ मनोजवः ।
पातु सर्वायुधधरः सर्वाङ्गं सर्वमर्मसु ॥ ४०॥
सर्वदुष्टान्तकः पातु धात्वष्टककलेवरम् ।
प्राणादिदशजीवेशान्सर्वशिष्टेष्टदोऽवतु ॥ ४१॥
वशीकृतेन्द्रियग्रामः पातु सर्वेन्द्रियाणि मे ।
अनुक्तमपि यत्स्थान शरीरान्तर्बहिश्च यत् ॥ ४२॥
तत्सर्वं पातु मे सर्वलोकनाथेश्वरेश्वरः ।
वज्रात्सारतरं चेदं शरीरं कवचावृतम् ॥ ४३॥
बाधाशतविनिर्मुक्तमस्तु मे भयवर्जितम् ।
बद्धेदं कवचं दिव्यमभेद्यं हैहयेशितुः ॥ ४४॥
विचरामि दिवा रात्रौ निर्भयेनान्तरात्मना ।
राजमार्गे महादुर्गे मार्गे चौरा दिसङ्कुले ॥ ४५॥
विषमे विपिने घोरे दावाग्नौ गिरिकन्दरे ।
सङ्ग्रामे शस्त्रसङ्घाते सिंहव्याघ्रनिषेविते ॥ ४६॥
गह्वरे सर्वसङ्कीर्णे सन्ध्याकाले नृपालये ।
विवादे विपुलावर्ते समुद्रे च नदीतटे ॥ ४७॥
परिपन्थिजनाकीर्णे देशे दस्युगणावृते ।
सर्वस्वहरणे प्राप्ते प्राप्ते प्राणस्य सङ्कटे ॥ ४८॥
नानारोगज्वरावेशे पिशाचप्रेतयातने ।
मारीदुःस्वप्नपीडासु क्लिष्टे विश्वासघातके ॥ ४९॥
शारीरे च महादुःखे मानसे च महाज्वरे ।
आधिव्याधिभये विघ्नज्वालोपद्रवकेऽपि च ॥ ५०॥
न भवतु भयं किञ्चित्कवचेनावृतस्य मे ।
आगन्तुकामानखिलानस्मद्वसुविलुम्पकान् ॥ ५१॥
निवारयतु दोर्दण्डसहस्रेण महारथः ।
स्वकरोद्धृतसाहस्रपाशबद्धान्सुदुर्जयान् ॥ ५२॥
संरुद्धगतिसामर्थ्यान्करोतु कृतवीर्यजः ।
सृणिसाहस्रनिर्भिन्नान्सहस्रशरखण्डितान् ॥ ५३॥
राजचूडामणिः क्षिप्रं करोत्वस्मद्विरोधकान् ।
खड्ग साहस्रदलितान्सहस्रमुशलार्दितान् ॥ ५४॥
चौरादि दुष्टसत्त्वौघान्करोतु कमलेक्षणः ।
स्वशङ्खनादसन्त्रस्तान्सहस्रारसहस्रभृत् ॥ ५५॥
अवतारो हरेः साक्षात्पालयत्वखिलं मम ।
कार्तवीर्य महावीर्य सर्वदुष्टविनाशन ॥ ५६॥
सर्वत्र सर्वदा दुष्टचौरान्नाशाय नाशय ।
किं त्वं स्वपिषि दुष्टघ्न किं तिष्ठसि चिरायसि ॥ ५७॥
उत्तिष्ठ पाहि नः सर्वभयेभ्यः स्वसुतानिव ।
ये चौरा वसुहर्तारो विद्विषो ये च हिंसकाः ॥ ५८॥
साधुभीतिकरा दुष्टाश्छद्मका ये दुराशयाः ।
दुर्हृदो दुष्टभूपाला दुष्टामात्याश्च पापकाः ॥ ५९॥
ये च कार्यविलोप्तोरो ये खलाः परिपन्थिनः ।
सर्वस्वहारिणां ये च पञ्च मायाविनोऽपरेः ॥ ६०॥
महाक्लेशकरा म्लेच्छा दस्यवो वृषलाश्च ये ।
येऽग्निदा गरदातारो वञ्चकाः शस्त्रपाणयः ॥ ६१॥
ये पापा दुष्टकर्माणो दुःखदा दुष्टबुद्धयः ।
व्याजकाः कुपथासक्ता ये च नानाभयप्रदाः ॥ ६२॥
छिद्रान्वेषरता नित्यं येऽस्मान्बाधितुमुद्यताः ।
ते सर्वे कार्तवीर्यस्य महाशङ्खरवाहताः ॥ ६३॥
सहसा विलयं यान्तु दूरादेव विमोहिताः ।
ये दानवा महादित्या ये यक्षा ये च राक्षसाः ॥ ६४॥
पिशाचा ये महासत्त्वा ये भूतब्रह्मराक्षसाः ।
अपस्मारग्रहा ये च ये ग्रहाः पिशिताशनाः ॥ ६५॥
महालोहितभोक्तारो वेताला ये च गुह्यकाः ।
गन्धर्वाप्सरसः सिद्धा ये च देवादियोनयः ॥ ६६॥
डाकिन्यो द्रुणसाः प्रेताः क्षेत्रपाला विनायकाः ।
महाव्याघ्रमहामेघा महातुरगरूपकाः ॥ ६७॥
महागजा महासिंहा महामहिषयोनयः ।
ऋक्षवाराहशुनकवानरोलूकमूर्तयः ॥ ६८॥
महोष्ट्रखरमार्जारसर्पगोवृषमस्तकाः ।
नानारूपा महासत्त्वा नानाक्लेशसहस्रदाः ॥ ६९॥
नानारोगकराः क्षुद्रा महावीर्या महाबलाः ।
वातिकाः पैत्तिका घोरा श्लैष्मिकाः सान्निपातिकाः ॥ ७०॥
माहेश्वरा वैष्णवाश्च वैरिञ्च्याश्च महाग्रहाः ।
स्कान्दा वैनायकाः क्रूरा ये च प्रमथगुह्यकाः ॥ ७१॥
महाशत्रुग्रहा रौद्रा महामारीमसूरिकाः ।
ऐकाहिका द्व्याहिकाश्च त्र्याहिकाश्च महाज्वराः ॥ ७२॥
चातुर्थिकाः पाक्षिकाश्च मास्याः षाण्मासिकाश्च ये ।
सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥ ७३॥
स्वाप्निका ये महोत्पाता ये च दुःस्वाप्निका ग्रहाः ।
कूष्माण्डा जृम्भिका भौमा द्रोणाः सान्निध्यवञ्चकाः ॥ ७४॥
भ्रमिकाः प्राणहर्तारो ये च बालग्रहादयः ।
मनोबुद्वीन्द्रियहराः स्फोटकाश्च महाग्रहाः ॥ ७५॥
महाशना बलिभुजो महाकुणपभोजनाः ।
दिवाचरा रात्रिचरा ये च सन्ध्यासु दारुणाः ॥ ७६॥
प्रमत्ता वाऽप्रमत्ता वै ये मां बाधितुमुद्यताः ।
ते सर्वे कार्तवीर्यस्य धनुर्मुक्तशराहताः ॥ ७७॥
सहस्रधा प्रणश्यन्तु भग्नसत्त्वबलोद्यमाः ।
ये सर्पा ये महानागा महागिरिबिलेशयाः ॥ ७८॥
कालव्याला महादंष्ट्रा महाजगरसंज्ञकाः ।
अनन्तशूलिकाद्याश्च दंष्ट्राविषमहाभयाः ॥ ७९॥
अनेकशतशीर्षाश्च खण्डपुच्छाश्च दारुणाः ।
महाविषजलौकाश्च वृश्चिका रुक्तपुच्छकाः ॥ ८०॥
आशीविषाः कालकूटा महाहालाहलाह्वयाः ।
जलसर्पा जलव्याला जलग्राहाश्च कच्छपाः ॥ ८१॥
मत्स्यका विषपुच्छाश्च ये चान्ये जलवासिनः ।
जलजाः स्थलजाश्चैव कृत्रिमाश्च महाविषाः ॥ ८२॥
गुप्तरूपा गुप्तविषा मूषिका गृहगोधिकाः ।
नानाविषाश्च ये घोरा महोपविषसंज्ञकाः ॥ ८३॥
येऽस्मान्बाधितुमिच्छन्ति शरीरप्राणनाशकाः ।
ते सर्वे कार्तवीर्यस्य खड्गसाहस्रदारिताः ॥ ८४॥
दूरादेव विनश्यन्तु प्रणष्टेन्द्रियसाहसाः ।
मनुष्याः पशवो त्वृक्षवानरा वनगोचराः ॥ ८५॥
सिंहव्याघ्रवराहाश्च महिषा ये महामृगाः ।
गजास्तुरङ्गा गवया रासभाः शरभा वृकाः ॥ ८६॥
शुनका द्वीपिनः शुभ्रा मार्जारा बिललोलुपाः ।
शृगालाः शशकाः श्येना गुरुत्मन्तो विहङ्गमाः ॥ ८७॥
भेरुण्डा वायसा गूध्रा हंसाद्याः पक्षिजातयः ।
उद्भिज्जाश्चाण्डजाश्चैव स्वेदजाश्च जरायुजाः ॥ ८८॥
नानाभेदकुले जाता नानाभेदाः पृथग्विधाः ।
येऽस्मान्बाधितुमिच्छन्ति सन्ध्यासु च दिवा निशि ॥ ८९॥
ते सर्वे कार्तवीर्यस्य गदासाहस्रदारिताः ।
दूरादेव विनश्यन्तु विनष्टगतिपौरुषाः ॥ ९०॥
ये चाक्षेमप्रदातारः कूटमायाविनश्च ये ।
मारणोत्सादनोन्मूलद्वेषमोहनकारकाः ॥ ९१॥
विश्वासघातका दुष्टा ये च स्वामिद्रुहो नराः ।
ये चाततायिनो दुष्टा ये पापा गोप्यहारिणः ॥ ९२॥
दाहोपघातगरलशस्त्रपातातिदुःखदाः ।
क्षेत्रवित्तादिहरणबन्धनादिभयप्रदाः ॥ ९३॥
ईतयो विविधाकारो ये चान्ये दुष्टजातयः ।
पीडाकरा ये सततं छिद्रमिच्छन्ति बाधितुम् ॥ ९४॥
ते सर्वे कार्तवीर्यस्य चक्रसाहस्रदारिताः ।
दूरादेव क्षयं यान्तु विनष्टबलसाहसाः ॥ ९५॥
ये मेघा ये महावर्षा ये वाता याश्च विद्युतः ।
ये महाशनयो दीप्ता ये निर्घाताश्च दारुणाः ॥ ९६॥
उल्कापाताश्च ये घोरा ये महेन्द्रायुधादयः ।
सूर्येन्दुकुजसौम्याश्च गुरुकाव्यशनैश्चराः ॥ ९७॥
राहुश्च केतवो घोरा नक्षत्रा राशयस्तथा ।
तिथयः सङ्क्रमा मासा हायना युगनायकाः ॥ ९८॥
मन्वन्तराधिपाः सिद्धा ऋषयो योगसिद्धयः ।
निधयो ऋग्यजुःसामाथर्वाणश्चैव वह्नयः ॥ ९९॥
ऋतवो लोकपालाश्च पितरो देवसंहतिः ।
विद्याश्चैव चतुःषष्टिभेदा या भुवनत्रये ॥ १००॥
ये त्वत्र कीर्तिताः सर्वे ये चान्ये नानुकीर्तिताः ।
ते सन्तु नः सदा सौम्याः सर्वकालसुखावहाः ॥ १०१॥
आज्ञया कार्तवीर्यस्य योगीन्द्रस्यामितद्युतेः ।
कार्तवीर्यार्जुनो धन्वी राजेन्द्रो हैहयेश्वरः ॥ १०२॥
दशास्यदर्पहा रेवालीलादृप्तः सुदुर्जयः ।
दुःखहा चौरदमनो राजराजेश्वरः प्रभुः ॥ १०३॥
सर्वज्ञः सर्वदः श्रीमान् सर्वशिष्टेष्टदः कृती ।
राजचूडामणिर्योगी सप्तद्वीपाधिनायकः ॥ १०४॥
विजयी विश्वजिद्वाग्मी महागतिरलोलुपः ।
यज्वा विप्रप्रियो विद्वान् ब्रह्मज्ञेयः सनातनः ॥ १०५॥
माहिष्मतीपतिर्योधा महाकीर्तिर्महाभुजः ।
सुकुमारो महावीरो मारीघ्नो मदिरेक्षणः ॥ १०६॥
शत्रुघ्नः शाश्वतः शूरः शङ्खभृद्योगिवल्लभः ।
महाभागवतो धीमान्महाभयविनाशनः ॥ १०७॥
असाध्यी विग्रहो दिव्यो भावो व्याप्तजगत्त्रयः ।
जितेन्द्रियो जितारातिः स्वच्छन्दोऽनन्तविक्रमः ॥ १०८॥
चक्रभृत्परचक्रघ्नः सङ्ग्रामविधिपूजितः ।
सर्वशास्त्रकलाधरी विरजा लोकवन्दितः ॥ १०९॥
वीरो विमलसत्त्वाढ्यो महाबलपराक्रमः ।
विजयश्रीमहामान्यो जितारिर्मन्त्रनायकः ॥ ११०॥
खड्गभृत्कामदः कान्तः कालघ्नः कमलेक्षणः ।
भद्रवादप्रियो वैद्यो विबुधो वरदो वशी ॥ १११॥
महाधनो निधिपतिर्महायोगी गुरुप्रियः ।
योगाढ्यः सर्वरोगघ्नो राजिताखिलभूतलः ॥ ११२॥
दिव्यास्त्रभृदमेयात्मा सर्वगोप्ता महोज्ज्वलः ।
सर्वायुधधरोऽभीष्टप्रदः परपुरञ्जयः ॥ ११३॥
योगसिद्धो महाकायो महावृन्दशताधिपः ।
सर्वज्ञाननिधिः सर्वसिद्धिदानकृतोद्यमः ॥ ११४॥
इत्यष्टशतनामोक्त्या मूर्तयो दश दिक्पथि ।
सम्यग्दशदिशो व्याप्य पालयन्तु च मां सदा ॥ ११५॥
स्वस्थाः सर्वेन्द्रियाः सन्तु शान्तिरस्तु सदा मम ।
शेषाद्या मूर्तयोऽष्टौ च विक्रमेणैव भास्वराः ॥ ११६॥
अग्निनिरृतिवाय्वीशकोणगाः पान्तु मां सदा ।
मम सौख्यमसम्बाधमारोग्यमपराजयः ॥ ११७॥
दुःखहानिरविघ्नश्च प्रजावृद्धिः सुखोदयः ।
वाञ्छाप्तिरतिकल्याणमवैषम्यमनामयम् ॥ ११८॥
अनालस्यमभीष्टं स्यान्मृत्युहानिर्बलोन्नतिः ।
भयहानिर्यशः कान्तिर्विद्या ऋद्धिर्महाश्रियः ॥ ११९॥
अनष्टद्रव्यता चैव नष्टस्य पुनरागमः ।
दीर्घायुष्यं मनोहर्षः सौकुमार्यमभीप्सितम् ॥ १२०॥
अप्रधृष्यतमत्वं च महासामर्थ्यमेव च ।
सन्तु मे कार्तवीर्यस्य हैहयेन्द्रस्य कीर्तनात् ॥ १२१॥
य इदं कार्तवीर्यस्य कवच पुण्यवर्धनम् ।
सर्वपापप्रशमनं सर्वोपद्रवनाशनम् ॥ १२२॥
सर्वशान्तिकरं गुह्यं समस्तभयनाशनम् ।
विजयार्थप्रदं नॄणां सर्वसम्पत्प्रदं शुभम् ॥ १२३॥
शृणुयाद्वा पठेद्वापि सर्वकामानवाप्नुयात् ।
चौरैर्हृतं यदा पश्येत्पश्वादिधनमात्मनः ॥ १२४॥
सप्तवारं तदा जप्येन्निशि पश्चिमदिङ्मुखः ।
सप्तरात्रेण लभते नष्टद्रव्यं न संशयः ॥ १२५॥
सप्तविंशतिधा जप्त्वा प्राचीदिग्वदनः पुमान् ।
देवासुरनिभं चापि परचक्रं निवारयेत् ॥ १२६॥
विवादे कलहे घोरे पञ्चधा यः पठेदिदम् ।
विजयो जायते तस्य न कदाचित्पराजयः ॥ १२७॥
सर्वरोगप्रपीडासु त्रेधा वा पञ्चधा पठेत् ।
स रोगमृत्युवेतालभूतप्रेतैर्न बाध्यते ॥ १२८॥
सम्यग्द्वादशधा रात्रौ प्रजपेद्बन्धमुक्तये ।
त्रिदिनान्निगडाद्बद्धो मुच्यते नात्र संशयः ॥ १२९॥
अनेनैव विधानेन सर्वसाधनकर्मणि ।
असाध्यमपि सप्ताहात्साधयेन्मन्त्रवित्तमः ॥ १३०॥
यात्राकाले पठित्वेदं मार्गे गच्छति यः पुमान् ।
न दुष्टचौरव्याघ्राद्यैर्भयंस्यात्परिपन्थिभिः ॥ १३१॥
जपन्नासेचनं कुर्वञ्जलेनाञ्जलिना तनौ ।
न चासौ विषकृत्यादिरोगस्फोटैः प्रबाध्यते ॥ १३२॥
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली ।
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ १३३॥
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ १३४॥
सम्पदस्तस्य जायन्ते जनास्तस्य वशे सदा ।
यः सेवते सदा विप्र श्रीमच्चक्रावतारकम् ॥ १३५॥
तस्य रक्षां सदा कुर्याच्चक्रं विष्णोर्महात्मनः ।
मयैतत्कवचं विप्र दत्तात्रेयान्मुनीश्वरात् ॥ १३६॥
श्रुतं तुभ्यं निगदितं धारयस्वाखिलेष्टदम् ॥ १३७॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने
तृतीयपादे कार्तवीर्यकवचकथनं नाम सप्तसप्ततितोमोऽध्यायः ॥ ७७॥
Naradapurana Purvabhaga Adhyaya 77