श्रीलिङ्गभङ्गमुक्तिशतकम्

श्रीलिङ्गभङ्गमुक्तिशतकम्

यः पूज्यः सकलामरैर्मुनिगणा ध्यायन्ति यं येन वै श्रेयोमार्गनियोजिताः सुयतयः कुर्वन्ति यस्मै नमः । यस्मात् सर्वमभूत् प्रमातृपटलं यस्यांशकत्रैपदे यस्मिन्नाशमुपैति मायिकपदं तं रामचन्द्रं भजे ॥ १॥ श्रीमत्त्रैपदरामचन्द्रपरमानन्दाम्बुधिं चिद्घनं नत्वा श्रीगुरुवासुदेवयतिराट्पादाम्बुजे चासकृत् । मच्चित्तासुविरूपनाशविभवां मुक्तिं प्रवाञ्छन्हरे- स्तुष्ट्यै लिङ्गविभङ्गमुक्तिशतकं कुर्वे हृदि स्याद्धरिः ॥ २॥ सत्कर्माणि विशुद्धये स्वमनसः कृत्वाथ शुद्धेऽन्तरे छित्वा कर्मजबन्धनं दृढतरं वैराग्यतीक्ष्णासिना । सन्न्यस्य श्रवणादिना स्वमनसो नाशाद्यमापुर्हरिं दद्यात् कारककर्मभङ्गविभवां मुक्तिं स रामोऽद्य मे ॥ ३॥ वाक्छोत्रादिदशेन्द्रियासुमनसो वागादिरूपं भजं- स्तत्तद्व्यापृतिशक्ततां प्रजनयन्निःसङ्गरूपेण यः । आस्तेऽद्यापि समस्तभूतहृदये वेद्यादवेद्यात् परो दद्यात् सर्वविभासकत्वविभवां मुक्तिं स रामोऽद्य मे ॥ ४॥ देशाद्भूमिरुपैति भूमपदवीं भूमेर्जलं तज्जला- द्वह्निर्वह्नितनोः सदागतिरसौ तस्माद्बृहद्व्योम खात् । बीजं बीजतनोर्निरङ्कुशविभुर्निर्बीजभूमैव यो दद्यात् केवलभूमरूपविभवां मुक्तिं स रामोऽद्य मे ॥ ५॥ अर्थादर्थमुपैति सूक्ष्मपदवीमर्थात्मनो मानसात् बुद्धिर्बुद्धितनोर्महत्तत इहाव्यक्तं ततः पूरुषः । सूक्ष्मात् सूक्ष्मतरः पुमान्परमको यस्मान्न सूक्ष्मान्तरं दद्यात् पूरुषशिष्टतत्त्वविभवां मुक्तिं स रामोऽद्य मे ॥ ६॥ सूर्यो यत्र ज भाति शीतकिरणो वह्निर्न भानां गणः सत्त्वादित्रिगुणं दशेन्द्रियमनःप्राणाः सुराणां गणः । यं भान्तं ह्यनुभान्ति न स्वत इमे सूर्याग्निचन्द्रादयो दद्यात् सूर्यशशाङ्कभासकपदां मुक्तिं स रामोऽद्य मे ॥ ७॥ पूरन्नादिसमस्तकोशकलितास्त्येकादशद्वारपै- र्वागाद्यैशश्च सुरक्षितातिभयतः स्वस्वामिभागेच्छया । तत्रासङ्गतया वसन्ननुदिनं यः प्रत्यगात्मा भवे- दद्यात् केवलबोधरूपविभवां मुक्तिं स रामोऽद्य मे ॥ ८॥ यज्ज्ञानक्षुरधारया हृदयचिद्ग्रन्थिर्दृढा भिद्यते यत्साक्षात्करणेन संशयगणः कुत्रेति न ज्ञायते । यज्ज्ञानाग्निरनन्तजन्मफलदं कर्मेन्धनं निर्दहे दृद्यात् कर्तृचिदैक्यमोहविकलां मुक्तिं स रामोऽद्य मे ॥ ९॥ एकीकृत्य विराट्तनाविह पुनर्विश्वं स्वसूत्रेण तं सूत्रे स्वप्तपतिं च बीजतनुना प्राज्ञं पुनर्बीजकम् । निर्बीजात्मतया विचिन्त्य यतयो यं तुर्यरूपं विदु- र्दद्यात्तुर्यशिवाद्वयात्मविभवां मुक्तिं स रामोऽद्य मे ॥ १०॥ अन्नं प्राणतयावशिष्य मुनयः प्राणं मनोमात्रतो विज्ञानात्मतयावशिष्य च मनो ज्ञानं च मोदात्मना । तं चाप्यात्मतयावशिष्य सहसा यं ब्रह्म पुच्छं विदु- र्दद्यात् कोशविरूपनाशविभवां मुक्तिं स रामोऽद्य मे ॥ ११॥ सत्यं वैकृतिशून्यमेकममलं ज्ञानं जगद्भासकं कालाकाशविदेशतोऽप्यतिविभु ब्रह्म ह्यनन्तं विदुः । सत्यं ज्ञानमनन्तमस्म्ययमिति ध्यात्वा यमीशं विदुः दद्यात् सत्यसुबोधसौख्यविभवां मुक्तिं स रामोऽद्य मे ॥ १९॥ सूर्यो भाति सदागतिश्च पवते वह्निर्ज्वलत्यञ्जसा मृत्युर्वज्रधरोऽपि शीतकिरणो राज्ञो भिया भृत्यवत् । उद्यद्दण्डधरस्य यस्य भयतः सूर्यादयो वेपिता दद्यात् सर्वनियामकाद्वयपदां मुक्तिं स रामोऽद्य मे ॥ १३॥ निःसामान्यविशेषबोधनयने स्वस्मिन्नखण्डाद्वये दुःसामान्यविशेषदृष्टियुगलं दुर्बुद्धिभीकल्पितम् । प्रत्याख्याय विमूढकल्पितदृशं सन्न्यासिनो यं विदु- र्दद्यादद्वयदृष्टिसाध्यविभवां मुक्तिं स रामोऽद्य मे ॥ १४॥ रूपं पश्यति येन वक्ति वचनं जिघ्रेत् सुगन्धादिकं गृह्णात्याशु ददाति वस्तुनिचयं जानात्यशेषं सदा । यं प्रज्ञानमुदाहरन्ति मुनयो ब्रह्मादिकीटान्तगं दद्याज्ज्ञानघनस्वरूपविभवां मुक्तिं स रामोऽद्य मे ॥ १५॥ विश्वं येन समुत्थितं चिरतरं यत्सत्तया भाति सत् सम्यग्बोधदृशा विकारविलये यन्मात्रतः शिष्यते । तरमाद्वस्तुविकारजातमनघा ब्रह्मेति जानन्ति यं दद्यात् सर्वविकारभङ्गविभवां मुक्तिं स रामोऽद्य मे ॥ १६॥ विश्वं ब्रह्मणि जातु जन्म न भजे सम्भूत्यभावश्रुते- र्नोत्पादस्य विनाशनं न घटते नाशप्रहाणश्रुतेः । कार्याकार्यजनिप्रहाणरहितं यं निर्विकारं विदु- र्दद्यात् कारणकार्यकर्त्रविकलां मुक्तिं स रामोऽद्य मे ॥ १७॥ प्रागाग्नेयविदिक्षु दिक्षु निखिलस्यान्तर्बहिः सर्वतः तिष्ठन्नूर्व उदेति नैत्युदयतां नास्तङ्गतः कुत्रचित् । यः कोट्यर्कसमूहभासकरुचिश्चित्सूर्यरूपो हरि- र्दद्यान्नित्यचिदर्करूपविभवां मुक्तिं स रामोऽद्य मे ॥ १८॥ सर्वज्ञादिगुणान्वितः परशिवः किञ्चिज्ज्ञ एवापरो ज्ञाज्ञत्वे प्रविहाय जीवपरयोर्लक्ष्यैकतां वेदतः । ज्ञात्वा तत्त्वमसीति याति यतिराड्-ब्रह्माहमस्मीति यं दद्याज्जीवपरैक्यसौख्यविभवां मुक्तिं स रामोऽद्य मे ॥ १९॥ नान्यत् पश्यति यत्र जातु यतिराण्णान्यच्छृणोत्यञ्जसा नो जानाति विशेषवस्तुपटलं भूमाद्वयत्वश्रुतेः । ज्ञात्वा नामहृदालयोपरिलसद्भूमात्मकं यं विदु- र्दद्याद्भूमघनाद्वितीयविभवां मुक्तिं स रामोऽद्य मे ॥ २०॥ दह्रे ब्रह्मपुराभिधानगगने लब्धासनो लोचनं काणं प्राप्य च हृच्च जीवकलनां जाग्रन्मुखां भासयन् । मूर्धानं प्रतिपद्य यो विजयते तुर्यस्वरूपो हरि- र्दद्यात्तुर्यपरात्मसौख्यविभवां मुक्तिं स रामोऽद्य मे ॥ २१॥ प्रत्यक्तत्वमहम्पदेन गदितं ब्रह्मेति शब्दात् परं भेदो मायिक एव जीवपरयोर्मायामृषात्वश्रुतेः । प्रत्यग्ब्रह्म भवाम्यहं परशिवोऽस्मीतीह यं प्राप्नुयु- र्दद्यात् प्रत्यगभिन्नभूरिविभवां मुक्तिं स रामोऽद्य मे ॥ २२॥ मूर्तामूर्तविभातदृश्यपटले मायामनःकल्पिते नेतीति श्रुतियुक्तितः प्रविलयं यातेऽथ यः शिष्यते । मूर्तामूर्तविभागमोहरहितः सत्यस्य सत्योऽद्वयो दद्यान्निर्भयसत्यबोधविभवां मुक्तिं स रामोऽद्य मे ॥ २३॥ वैराग्यात् प्रतिपद्य बालपदवीं सर्वत्र निःसङ्गतो मौनामौनविवेचनाहधिषणापाण्डित्यपारङ्गताः । जीवन्मुक्तिमवाप्य तां पुनरमी विस्मृत्य यं प्राप्नुयु- र्दद्यान्मौनविमुक्त शुद्धपदवीं मुक्तिं स रामोऽद्य मे ॥ २५॥ क्षेत्रापत्यकलत्रवित्तविभवं त्यक्त्वा दवीयो भृशं श्रोतव्यादिगुणान्वितोऽयमजडानन्दावबोधाम्बुधिः । ध्यातव्योऽनिशमप्रमादधिषणैर्यो निष्कलात्मा हरि- र्दद्यान्निष्कलविष्णुरूपविभवां मुक्तिं स रामोऽद्य मे ॥ २५॥ यस्यानन्दलवैकदेशविभवा व्याविद्धपापालयाः निष्कामाञ्चितबुद्धयः श्रुतिशिरोऽभिज्ञा महाश्रोत्रियाः । सम्राजो यतयो भवन्ति मुनयो ब्रह्मादयो नन्दिनो दद्याद्भूरिसुखस्वरूपविभवां मुक्तिं स रामोऽद्य मे ॥ २६॥ ओतप्रोततया चरस्थिरजगद्-वृन्देऽनिशं व्याप्य तत् सत्तासूक्तिसुखैकरूपतनुता मिथ्याभिधां वारयन् । ज्ञानां ब्रह्मतया विभाति य इहाज्ञानां जगद्भावतो दद्याद्विश्वविमोहभङ्गविभवां मुक्तिं स रामोऽद्य मे ॥ २७॥ यः साक्षादपरोक्षतः श्रुतिगिरोवाक्यार्थसंलग्नधी- (श्रुतिगिशिरो) र्विद्वद्वृन्दहृदब्जसुन्दरगृहालङ्कारदीपायते । यश्चैत्यालिगचित्तवृत्तितमसो मध्याह्नसूर्यायते दद्यात् केवलबोधदीपविभवां मुक्तिं स रामोऽद्य मे ॥ २८॥ सिद्धाध्यासनयुङ्निरुद्धपवनात् प्राणद्वयाग्न्यैक्यत- स्तप्त्वा कुण्डलिनीं तया विधिधिराग्रन्थित्रयं भेदयन् । षट्चक्राणि च चन्द्रसूर्यमिथुनाद्यं ब्रह्मरन्ध्रे विशे- द्दद्याद्योगजमुख्यसिद्धिविभवां मुक्तिं स रामोऽद्य मे ॥ २९॥ भ्रूमध्यादिषु दृष्टियुग्मविलयात् प्राणानिले निश्चले सङ्कल्पाद्यतिवृत्तिजुष्टमनसि स्थेयं गतेऽस्यासतः । संशान्तानिलचित्तदृष्टिविभवं पश्यन्ति यं तारका दद्यात्तारकपूर्णसिद्धिविभवां मुक्तिं स रामोऽद्य मे ॥ ३०॥ मेर्वभ्रादिवदप्रकम्प्यधिषणः सन्ताडितो दुर्जनै- स्त्रासं नैति नमस्कृतोऽपि विबुधैर्हर्षं परालोकनात् । यस्मिन् भूम्नि निरस्तमोहपटले विद्वान् समाप्तो भवे- द्दद्याद्ब्रह्मविमग्नचित्तपदवीं मुक्तिं स रामोऽद्य मे ॥ ३१॥ देहादावभिमालतूलपटले बोधाग्निभस्मीकृते (मानतुलपटले) चित्ते चैत्यगतिं विहाय चपलां चित्तत्त्वभावं गते । वक्तुं ध्यानमशक्यनिष्कलपदं यं योगिनः प्राप्नुयु- र्दद्याद्वक्तुमशक्यसौख्यपदवीं मुक्तिं स रामोऽद्य मे ॥ ३२॥ संन्यस्य स्वगुरुं प्रणम्य विधिवत्तारं महावाक्यकं लब्ध्वा शान्तिमुपेत्य दिक्षु सुलभां भिक्षामटन्तोऽमलाः । अन्तर्बाह्यविभागशून्यमतयः संन्यासिनो यं विदु- । र्दद्यान्मस्करिवर्यलब्धपदवीं मुक्तिं स रामोऽद्य मे ॥ ३३॥ जाग्रत्स्वप्नसुषुप्तिभेदकलनां त्यक्त्वा बुधैः सेवितां तद्भावादि विभासयन्ननुदिनं प्रत्यक्स्वरूपेण यः । आस्ते तद्गतदोषसङ्गरहितस्तुर्योऽविकारास्पदो दद्यात्तुर्यमहाप्रकाशविभवां मुक्तिं स रामोऽद्य मे ॥ ३४॥ श्रुत्याचार्यकटाक्षतः स्वहृदये बोधं तरां प्रापिते प्रत्यग्वस्तुनि निश्चिते स्फुटमहं ब्रह्मास्मि सर्वातिगम् । ब्रह्मैवाहमिति स्थिरानुभवतो यद्रूपतां प्राप्नुयु- र्दद्याच्छुद्धपरानुभूतिविभवां मुक्तिं स रामोऽद्य मे ॥ ३५॥ नानावासनया जडीकृतमतेः सत्त्वेन दुर्वासनां दग्ध्वा सत्त्वसुवासनामपि पुनर्ब्रह्मप्रबोधाग्निना । संशान्ताखिलवासने स्वहृदये निर्वासनं यं विदु- र्दद्याद्बोधमहाग्निदीप्तिविभवां मुक्तिं स रामोऽद्य मे ॥ ३६॥ मौनेनैव विजित्य वाग्भवरिपुं स्वल्पाशनात् कायजं चित्तोत्थामितवृत्तिदुर्जयरिपुं ब्रह्मानुसन्धानतः । वैराग्येण विजित्य बोधदुरितं बोधेन यं प्राप्नुयु- र्दद्याद्दुर्जयभङ्गरूपविभवां मुक्तिं स रामोऽद्य मे ॥ ३७॥ देहादौ दृढभावनामहमिति त्यक्त्वा पराग्गामिनीं प्रत्यग्भावनया प्रशान्तदुरितब्रह्मात्मगां भावनाम् । आलम्ब्याचलवीचिसौख्यजलधौ यस्मिन्निमग्ना बुधा दद्यात् सौख्यपयोधिमुग्धविभवां मुक्तिं स रामोऽद्य मे ॥ ३८॥ सम्यक्ताडितकांस्यनादतुलिते तारे समुच्चारिते वीणावेणुमृदङ्गमद्दलमहामेरीध्वनिः श्रूयते । तन्मध्ये प्रणवध्वनौ स्वमनसो नाशाद्यमीशं विदु- र्दद्यान्नादमनोविनाशविभवां मुक्तिं स रामोऽद्य मे ॥ ३९॥ पूर्वं रूपमपास्य रूपमपरं चित्ते गते स्वेच्छया तद्रपद्वयमध्यमेऽस्य मनसो वृत्तेरभावात्तदा । सूक्ष्मात् सूक्ष्मधियो विदुर्यमजडानन्दं न तन्निष्कलं दद्यान्मानसवृत्तिशून्यविभवां मुक्तिं स रामोऽद्य मे ॥ ४०॥ रागद्वेषजपापपुण्यपटले निर्मूलभावं गते स्वाज्ञाने प्रलयं गते दृढतरब्रह्मात्मबोधात्तराम् । सत्यज्ञानसुखस्वरूपविभवो यः शिष्यते श्रीहरि- र्दद्याच्छ्रीहरिबोधसौख्यविभवां मुक्तिं स रामोऽद्य मे ॥ ४१॥ ज्ञानं प्राप्य गुरोर्मुखादनुदिनं सङ्कल्पमुन्मीलयन् लाभालाभविषादहर्षरहितप्रारब्धवेगात्तनुः । तिष्ठेद्गच्छतु वेति दिक्षु विचरन् यस्मिन् समाप्तौ भवे- द्दद्याच्छाश्वतबोधलब्धविभवां मुक्तिं स रामोऽद्य मे ॥ ४२॥ धीसङ्कल्पितवस्त्वसन्मतियुतैरक्षैर्गृहीतं तु सत् सत्त्वासत्त्वविभेदवेदनदृशं ज्ञात्वा बहिश्चान्तरे । तां दृष्टिं प्रविलाप्य भूम्नि मुनयो यं प्राप्नुयुः सद्धनं दद्यात् सद्धनदृष्टियोगविभवां मुक्तिं स रामोऽद्य मे ॥ ४३॥ स्वाद्यस्वादकमध्यदर्शनवशात् स्वाद्यादिभावातिगं बुद्ध्वैव स्वदनं विकाररहितं वाग्बुद्ध्यगम्यं शिवम् । स्वाद्यस्वादकभेददृष्टिविकला यं प्राप्नुयुश्चिद्घनं दद्याश्चिद्घनशुद्धसत्त्वविभवां मुक्तिं स रामोऽद्य मे ॥ ४४॥ तालोरूर्ध्वबिले निवेश्य रसनां धीवायुनोर्ध्वं नयन् भ्रूमध्ये च सहस्रपत्रकमले सूर्येन्दुसंयोगतः । पीत्वैवामृतमेत्य तृप्तिमवशाद्यस्मिन्नचित्तो भवे- द्दद्याल्लम्बिकयात्तबोधविभवां मुक्तिं स रामोऽद्य मे ॥ ४५॥ वेदान्तश्रवणादिपक्वधिषणाः स्वान्तर्बहिर्भावनां निश्शेषं प्रविहाय जन्ममृतिदां निस्नेहदीपार्चिवत् । चित्तारूपलयं प्रपद्य यतयो यस्मिन् समाप्तिं गता दद्यात् केवलचित्तभङ्गविभवां मुक्तिं स रामोऽद्य मे ॥ ४६॥ विज्ञानात्मतया हृदब्जकुहरे तिष्ठन् सदा देहिनां भूयस्त्वन्नचयादिसत्करणतो दुष्कृत्यतो नीचताम् । सर्वेशत्वमवाप्य मायिकपदे यो वर्ततेऽद्याप्यजो दद्यादीश्वरसाम्यबोधविभवां मुक्तिं स रामोऽद्य मे ॥ ४७॥ स्थूलेशस्तमसान्वितः पृथुतनुः सूत्रे रजस्संयुतो बीजेशस्तु विशुद्धसत्त्वगुणयुक् सर्वोपसंहारतः । पूर्वोक्तत्रिगुणान्वितोऽप्यरिपुमान् यो निर्गुणः स्याद्धरि- र्दद्यान्निर्गुणतुर्यविष्णुविभवां मुक्तिं स रामोऽद्य मे ॥ ४८॥ निर्मायोऽपि विशुद्धसात्त्विकतनुं स्वीकृत्य लीलामयीं सच्छिष्यान् प्रतिबोधयन् श्रुतिशिरोविज्ञानमव्याजतः । श्रीमद्देशिकरूपमेत्य विचरेद्यो निष्कलात्मा हरि- र्दद्यादेशिकलब्धबोधविभवां मुक्तिं स रामोऽद्य मे ॥ ४९॥ यद्वद्व्योमघटादिवस्तुपटले तत्तत्परिच्छेदतां प्राप्तं भात्यविवेकिनां स्थिरचरे तद्वत् पुमानेकलः । जीवोऽयं जगदीश्वरो जगदिदं ब्रह्मेति यो ज्ञानिनां दद्यात् सर्वविकल्पमङ्गविभवां मुक्तिं स रामोऽद्य मे ॥ ५०॥ साङ्गोपाङ्गतया विभातनिगमा न्यायादिशास्त्राणि षढ् वेदार्थानुचराः पुराणनिचया येनार्थवन्तोऽभवन् । ते किं ब्रह्म निदर्शयेयुरिति सद्बोधाद्यमीशं विदु- र्दद्याद्वाक्यपदार्थदूरविभवां मुक्तिं स रामोऽद्य मे ॥ ५१॥ जायासूनुधनेषणाविरहिता वेदान्तपारङ्गता स्वान्तर्बाह्यजचित्तचैत्यकलनाशून्या महाश्रोत्रियाः । यद्विष्णोः परमं पदं प्रविततं पश्यन्त्यमी सूरयो दद्याद्विष्णुपदाभिधानविभवां मुक्तिं स रामोऽद्य मे ॥ ५२॥ सर्वज्ञं परमेश्वरं प्रणवगं प्रत्यक्परात्माभिधं भेदाभेदविभागशून्यविभवं ज्ञात्वा गुरोर्वेदतः । भेदाभेदगतिं विहाय यतयो यं प्राप्नुयुः श्रीहरिं- दद्यात् सर्वभिदाभिदादिरहितां मुक्तिं स रामोऽद्य मे ॥ ५३॥ आकाशादिकपञ्चभूतकलनासञ्जातनानाविधा- नेकपाणिहृदब्जमध्यविलसत्सर्वेन्द्रियोद्दीपकः । चित्सामान्यकलेवरोऽखिलगुरुर्नारायणो यो भवे- द्दद्यात् सर्वहृदब्जसूर्यविभवां मुक्तिं स रामोऽद्य मे ॥ ५४॥ चित्तास्वादिविरूपनाशसमये सम्यक्प्रबुद्धात्मनो देशे व्योम्नि च कालकूटपटले दग्धे प्रबोधाग्निना । देशाभ्रादिगमानशून्यविभवो यः शिष्यते श्रीहरि- र्दद्यात् प्राणविरूपनाशविभवां मुक्तिं स रामोऽद्य मे ॥ ५५॥ बीजं ब्रह्मणि कल्पितं भुजगवद्रजौ तदज्ञानतो बीजाद्विश्वमनन्यबोधत इदं विश्वं भजेद्बीजताम् । बीजं प्रत्यगभिन्नतां यममलं निर्बीजसौख्य विदु- र्दद्यादावृतिबीजभर्जनभवां मुक्तिं स रामोऽद्य मे ॥ ५६॥ पूर्णब्रह्मविकल्पितत्वनिगमान्मायापदस्याधुना मिथ्यात्वं स्फुटमेव रज्जुफणिवत् सत्यं तदाधारकम् । नष्टेऽबोधचये प्रबोधरविणा यत्पूर्णता शिष्यते दद्यात् पूर्णचिदम्बुराशिविभवां मुक्तिं स रामोऽद्य मे ॥ ५७॥ नानारूपविशेषमोहरहितं निर्मायतत्त्वं ततं सत्यं ज्ञानमपारसौख्यविभवं संशान्तनानाभिधम् । ब्रह्मास्मीति यदानुभूय समतां यं साम्यभावं विदु- र्दद्यात् साम्यसुखानुभूतिविभवां मुक्तिं स रामोऽद्य मे ॥ ५८॥ सौराः श्रेष्ठमुदाहरन्ति तरणिं शाक्ता भवानीं भृशं विष्णुं केचन वैष्णवा गणपतिं शैवाः शिवं भैरवम् । इत्थम्भूतधियो यमद्वयतनुं जानन्ति नैवैकधा दद्यात् सर्वमदान्धकारतरणिं मुक्तिं से रामोऽद्य मे ॥ ५९॥ पाणिं पाणितलेन पीड्य तरसा दन्तैः स्वदन्तान् रुषा चूर्णीकृत्य निहत्य मानसरिपुं भ्रूमध्यलक्ष्यासिना । स्वाराज्यं प्रतिपद्य निर्भयतया यद्रूपमात्रो भवे- द्दद्यात्तीव्रविरागबोधविभवां मुक्तिं स रामोऽद्य मे ॥ ६०॥ हृन्मध्ये रविपत्रमस्ति कमलं तन्मध्यखेऽस्त्येकलो धूमज्योतिसमानकान्तिकलितः पूर्जो बहिश्चान्तरा । (पूर्णो) चित्ते चैत्यततौ निरञ्जनतया यो भासयन् वर्तते दद्यादेकलभूरिसौख्यविभवां मुक्तिं स रामोऽद्य मे ॥ ६१॥ आधारेऽस्त्यपुनर्भवाभिधसिरा तस्या मनोधारणात् सा वक्त्रं विकसीकरोत्यथ सिरावक्त्रान्तरे मानसम् । दृक्प्राणाग्निभिरेत्य गच्छति लयं यस्मिन् हरौ योगिनो दद्यान्मानसदृष्टिचित्तलयजां मुक्तिं स रामोऽद्य मे ॥ ६२॥ भित्त्वा कल्पसमाधिभाक् स्वमनसा भूमिं जलं चानलं वायुं व्योम सुसूक्ष्मभूतपटलं चेतो महच्चाक्षरम् । अव्यक्तं च विभिद्य मृत्युमधुना यस्मिन् समाप्तो भवे- द्दद्यात् सर्वलयामृताद्वयपदां मुक्तिं स रामोऽद्य मे ॥ ६३॥ श्रोत्रादौ प्रविलाप्य चैत्यपटलं श्रोत्रादि दिक्पूर्वके दिग्वातादि सिरासु ताश्च तं ? ज्ञानमध्ये च तत् ? । (unclear in the manuscript मोदे तं च तुरीयके तदमृतं निर्बीजकं यं विदु- र्दद्यादक्षविरूपनाशविभवां मुक्तिं स रामोऽद्य मे ॥ ६४॥ ब्रह्मादिस्थिरजङ्गमान्तकलनातृष्णां मनोजृम्भितां आत्मानात्मविवेकजातसहजज्ञानाग्निना निर्दहन् । यस्मिन् प्रत्यगभिन्नपूर्वविभवे योगी भजेदेकतां दद्याज्ज्ञानकृशानुदग्धकलनां मुक्तिं स रामोऽद्य मे ॥ ६५॥ शब्दादौ विलयं गते दृढतरज्ञानादहोरात्रयुक्- काले कालपदं गते स्वमनसि ध्यानात् स्थिरत्वं गते । उन्मन्या विलसत्परावरगुरुं नारायणं यं विदु- र्दद्यादुन्मनिभातचिद्घनपदां मुक्तिं स रामोऽद्य मे ॥ ६६॥ ध्यानादित्रिपुटिप्रहाणत इदं निर्वातदीपार्चिवत् संशान्ताखिलवीचिवार्धिजलवत् सङ्कल्पशून्यं मनः । भूयात्तत्र विराजते परशिवानन्दात्मको यो हरि- र्दद्याच्छैवपरात्मरूपविभवां मुक्तिं स रामोऽद्य मे ॥ ६७॥ दृग्युग्माखिलचित्तवृत्यचलगा सन्तृप्तिरल्पाशनं देहस्याचलनं परानुभवतोऽवस्थात्रयातीतता । यस्मिन्नस्तमनो मुनेरनुभवस्त्वेवं भवेत् सर्वदा दद्यात् सिद्धिविभातकीर्तिविभवां मुक्तिं स रामोऽद्य मे ॥ ६८॥ विस्मृत्याखिलबाह्यमान्तरमपि स्वोद्भूतविज्ञानतो ब्रह्माब्धौ जलबिन्दुवत् प्रविलयं नीत्वा मनोवैभवम् । वेदव्यासतनूद्भवः शुकमनिर्यस्मिन् समाप्तो भवे- द्दद्याच्छीशुकलब्धसौख्यविभवां मुक्तिं स रामोऽद्य मे ॥ ६९॥ आत्मानात्मविवेचने श्रुतिगुरोर्वाक्यात्कृते सादरं सत्यं ब्रहाभिदा मृषेति विदिते ग्राह्याद्यभावान्मुनेः । यस्मिन्नग्रहरूपभूम्न्यविलयं गत्वा समाप्तं मनो दद्यादग्रहभूरिलब्धविभवां मुक्तिं स रामोऽद्य मे ॥ ७०॥ जाग्रत्वप्नसुषुप्तिमोहतमसि स्वान्तं मुनेर्लीयते तुर्याकल्पसमाधिनिष्ठमनसः सत्त्वाल्लयं नैति तत् । तुर्योतीतपदे विरूपविलयाद्यस्मिन् समाप्तं भवे- द्दद्यात्तुर्यविलक्षणाद्वयपदां मुक्तिं स रामोऽद्य मे ॥ ७१॥ चेतश्चैत्यविकारपूगरहिता चिद्ब्रह्मलीना यदा किश्चिनैत्यनुभूतिसिद्धविभवो मुक्तावगम्यस्तदा । सत्तासाम्यमुपेत्य यो विजयते नारायणः केवलो दद्यात् केवलभूमतत्त्वविभवां मुक्तिं स रामोऽद्य मे ॥ ७२॥ सङ्कल्पादिविमुक्तयोगिमनसि प्राणाग्निदृक्चेतसा मग्नेऽत्यन्तमजातिगोत्रकलने स्वे धाम्नि बोधार्णवे । सत्यानन्दविशुद्धबोधविभवो यः शिष्यते श्रीहरि- र्दद्याज्जातिकुलाभिमानविभवां मुक्तिं स रामोऽद्य मे ॥ ७३॥ कर्तव्यार्थनिबन्धनं स्वमनसः कर्माख्ययोगामृत- श्रेयःसाधनसाध्यबन्धनमिह ज्ञानाख्ययोगो वरः । संशान्ताखिलयोगसाध्यविभवं यं ज्ञानिनः प्राप्नुयु- र्दद्यात् साधनसाध्यभावरहितां मुक्तिं स रामोऽद्य मे ॥ ७४॥ देहास्वोः क्षणभङ्गुरत्वनिगमाद्दारादिबाह्येऽन्तरे चित्ते चैत्यततावसङ्गमनसा सन्त्यज्य दुर्वासनाम् । ब्रह्मास्मीति सुवासनापरवशो यं प्रैति नारायणं दद्यादैक्यसुवासनाफलभवां मुक्तिं स रामोऽद्य मे ॥ ७५॥ भावाभावगतिं विहाय सदसद्भावं च धीकल्पितं सर्वाभासविवर्जितं स्थिरचराधारं परस्ताद्धि यः । आलम्ब्याचलनिर्विकल्पमनसा यस्मिन् समाप्तो भवे- द्दद्याद् बुद्धिविकल्पशून्यविभवां मुक्तिं स रामोऽद्य मे ॥ ७६॥ संशान्ताखिलहेयरन्धविषयध्वान्तं सकृद्भानतः सङ्कल्पोज्झितचित्तभावितपदं सूर्यादिसूर्यात्मकम् । ब्रह्माहं प्रकृतेः परोऽहमिति यं स्वात्मानमेवं विदु- र्दद्यात् प्राकृतवैकृतप्रलयजां मुक्तिं स रामोऽद्य मे ॥ ७७॥ कर्मज्ञानदशेन्द्रियाल्यविदितः प्राणादिपञ्चानिल- ध्वान्तस्फारसहस्रचण्डकिरणोऽहङ्कारशत्रुञ्जयः । नानावृत्तिमनोधियः परतरानन्दात्मको यो हरि- र्दद्यालिङ्गशरीरभङ्गविभवां मुक्तिं स रामोऽद्य मे ॥ ७८॥ सूक्ष्मात् सूक्ष्मतरोऽस्मि योगिविदितो ज्यायानहं ज्यायसां संशान्ताखिलवेदनोऽस्मि जगतः सत्तास्वरूपोऽस्म्यहम् । एवं भावनया प्रशान्तदुरिता यं प्राप्नुयुः शाश्वतं दद्याच्छाश्वतसौख्यसिद्धिविभवां मुक्तिं स रामोऽद्य मे ॥ ७९॥ मत्पुत्रो मम वित्तदारसुहृदो मत्क्षेत्रमित्यादिकं द्वैतं देहदशेन्द्रियासुधिषणातादात्म्यमेवाद्वयम । द्वैताद्वैतमनोगतेः प्रविलयाद्यः शिष्यते निर्भयो दद्यान्निर्भयनिर्विकारपदवीं मुक्तिं स रामोऽद्य मे ॥ ८०॥ त्यक्ताहङ्कृतिचित्तचैत्यकलनासंवित्स्वरूपोऽस्म्यहं जीवेशादिभिदा विहीनपरमानन्दावबोधोऽस्म्यहम् । मत्तो नान्यदिहास्ति किञ्चिदिति यं नारायणं प्राप्नुयु- र्दद्यादद्वयभावनात्तपदवीं मुक्तिं स रामोऽद्य मे ॥ ८१॥ सर्वासर्वमहाभ्रमप्रविलयात् सर्वादिशून्योऽस्म्यहं साक्षित्वं न हि मेऽस्ति साक्ष्यविलयादद्वैतबोधोऽस्म्यहम् । स्वीये धामनि संस्थितोऽहमजरोऽस्म्येवं विदुर्यं हरिं दद्यात् साक्ष्यविरूपनाशविभवां मुक्तिं स रामोऽद्य मे ॥ ८२॥ नाहं देहमुखेन्द्रियालयमनो नाहं विकल्पान्वितो नाहं मायिकविश्वभेदनिचयो नाहं तदाधारकः । ब्रह्मैवाहमितीह यं मुनिगणा ज्ञात्वा चिरात्प्राप्नुयु- र्दद्यान्मायिकभावनालयभवां मुक्तिं स रामोऽद्य मे ॥ ८३॥ द्वैताद्वैतविभागभेदरहितो वाग्बुद्ध्यगम्योऽस्म्यहं सत्यासत्यशुभाशुभालिरहितश्चिन्मात्ररूपोऽस्म्यहम् । सत्यापारसुखात्मकोऽस्म्यहमिति प्राप्ता यमीशं हरिं दद्यान्मानसवागगम्यपदवीं मुक्तिं स रामोऽद्य मे ॥ ८४॥ मायाकल्पितभौतिकालिहृदयारूढामहम्भावनां पूर्णाहङ्कृतिरेकदा कबलयन् सर्वेश्वरः सर्वगः । आस्ते तद्गतभेदपूगरहितो यो नित्यशुद्धोऽद्वयो दद्यादीश्वरपूर्णबोधविभवां मुक्तिं स रामोऽद्य मे ॥ ८५॥ अन्तर्बाह्यज चित्रचैत्यकलनासङ्गानुसन्धानतो जीवन्मुक्तिमवाप्य वीतकलनान्नष्टेऽथ कर्मत्रये । देहाक्षासुविरूपनाशविभवो यः शिष्यतेऽस्मद्गुरु- र्दद्यात् स्थूलकलेवरादिरहितां मुक्तिं स रामोऽद्य मे ॥ ८६॥ मायाकल्पितदेशकालकलनासञ्जातनानाविधा- नेकोपाधिदृढानुभूतिममताहन्तातमोभास्करः । यो निष्काममुनीन्द्रहृन्मणिगृहालङ्कारपादाम्बुजो दद्यात् कामगणक्षयात्तविभवां मुक्तिं स रामोऽद्य मे ॥ ८७॥ सर्वोपाधिविहीनपुष्करतनुः संशान्तरूपाभिधो नानाकामनया विमुक्तमुनिहृत्पद्मावलीषट्पदः । यो वाङ्मानसवृत्त्यगोचरमहानन्दावबोधाम्बुधि- र्दद्यात सर्वहृदभ्रचिन्मणिभवां मुक्तिं स रामोऽद्य मे ॥ ८८॥ दासोऽहं तव मृत्युपाशकलितं मां रक्ष भक्तार्तिहन् एवं प्रार्थ्य विशुद्धिमेत्य मनसोऽहं त्वं त्वमेवास्म्यहम् । भेदो नौ न हि मायिकोऽयमिति यं नारायणं प्राप्नुयु- र्दद्याद्भागवतालिगम्यपदवीं मुक्तिं स रामोऽद्य मे ॥ ८९॥ मायाधीभवभेदकूलपटले निर्मायबोधाग्निना (बोधपटले) दग्धे काममकामखड्गदलिते कामे स्वभृत्यैः समम् । संशान्ताखिलभेदकामकलनं ये स्वात्मरूपं विदुः दद्यात् कामभिदाविनाशविभवां मुक्तिं स रामोऽद्य मे ॥ ९०॥ मायापादजपुष्करादिकमहाभूतालियोगोद्भवा- नेकब्रह्मकटाहकोटिपटलं त्रैगुण्यसङ्कल्पितः । निस्त्रैगुण्यमहात्रिपादविभवो यः कल्पितः केनचि- द्दद्यान्मायिकपादमोहविकलां मुक्तिं स रामोऽद्य मे ॥ ९१॥ यास्याम्यद्य विदेहमुक्तिपदवीं मुञ्चेह मां चित्त भो यद्वा चिद्गगने विरूपविलयं गच्छ त्वदीयैः समम् । एवं चित्तशिशुं प्रबोध्य यतिराड्यस्मिन् समाप्तो भवे- द्दद्यात् केवलवीतचित्तपदवीं मुक्तिं स रामोऽद्य मे ॥ ९२॥ राग त्वं भज वीतरागपदवीं द्वेष त्वमद्वेषतां भीते त्वं भज निर्भयत्वमधुना द्वैत त्वमद्वैतताम् । रागादिं विनियम्य निष्कलपदे यस्मिन् समाप्तो भवे- द्दद्यान्निष्कलनिर्भयाद्वयपदां मुक्तिं स रामोऽद्य मे ॥ ९३॥ काम त्वं भज वीतकामपदवीं तृष्णे वितृष्णासुखं भो भो मानस निर्विकल्पमधुनाहङ्कारशान्तिं तराम् । सान्त्वोक्त्यैव सुहृज्जनं परिहरन् यस्मिन् भजन्त्येकत्तां दद्यात्काममुखारिभङ्गविभवां मुक्तिं स रामोऽद्य मे ॥ ९४॥ विश्वाकारमतिं विहाय सहजानन्दावबोधां मतिं स्वीकृत्येव महानुभावचरणाः श्रीवीतहव्यादयः । सत्यज्ञानसुखार्णवेऽतिविपुले यस्मिन् भजन्त्येकदां दद्यान्मौनिगणात्तसौख्यविभवां मुक्तिं स रामोऽद्य मे ॥ ९५॥ ब्रह्मास्मीत्यनुभूतियोगदहने निर्वृत्तितैलैधिते हुत्वा मायिकचित्तचैत्यकलनां होमानलोत्थां सतीम् । मुक्त्याख्यां परिरभ्य मस्करिवरो यत्सौख्यतल्पं गतो दद्याद्दृश्यविरूपनाशविभवां मुक्तिं स रामोऽद्य मे ॥ ९६॥ संशान्ताखिलपञ्चभूतकलनासञ्जातनानाजनि- श्चातुर्विध्यनिरोधशून्यविभवो जन्माद्यभावश्रुतेः । दीर्घह्रस्वबृहत्कृशादिरहितो यः सर्वदा भासते दद्याज्जन्मनिरोधशून्यविभवां मुक्तिं स रामोऽद्य मे ॥ ९७॥ सत्यज्ञानसुखाज्ञतासमुदितासत्यादिमायात्रय- प्रत्याख्यानमहावचोऽर्थविभवः प्राप्तः पुनः प्राप्यते । मुक्तो मुच्यत एव नेतर इति ज्ञानाद्यदैक्यं व्रजे- द्दद्याज्ज्ञानसुनिश्चितार्थविभवां मुक्तिं स रामोऽद्य मे ॥ ९८॥ स्वाज्ञाने सकलङ्कचित्तविभवे स्वज्ञानवैश्वानरा- द्दग्धे सम्यगनावृतः परशिवः स्वाराज्यसिंहासने । एको यः परिशिष्यते परपुमान्नारायणोऽयं स्वयं दद्याद्द्वैतविरूपनाशविभवां मुक्तिं स रामोऽद्य मे ॥ ९९॥ भूमब्रह्मणि मूढबुद्ध्यनुभवारूढं समस्तं जग- न्नेतीति श्रुतिसिद्धयुक्तिपटलैर्नास्तीति निश्चित्य तत् । त्यक्त्वा विश्वविनोदनं मुनिगणा यस्मिन् समाप्तिं गता दद्याद्विश्वविनोदभङ्गविभवां मुक्तिं स रामोऽद्य मे ॥ १००॥ व्याविद्धाखिलवाक्यपादविभवो वाग्बुद्ध्यगम्योऽद्वयो निःसाध्योऽयमसाधनो न हि भवो नान्तं गतः कुत्रचित् । लक्ष्यालक्ष्यविभागमोहरहितो यः शिष्यते श्रीहरि- र्दद्याल्लक्ष्यविलक्षणाद्वयपदां मुक्तिं स रामोऽद्य मे ॥ १०१॥ आविद्यार्थपदे विरूपविलयं याते स्वकार्यैः समं संशान्ताखिलनामरूपविभवः प्रत्यक्परात्मैक्यकः । चातुर्विध्यपदाभिधानरहितो यस्त्रैपदः शिष्यते दद्यात् पादचतुष्ट्यैक्यविभवां मुक्तिं स रामोऽद्य ने ॥ १०२॥ श्रद्धाभक्तिपुरःसरं रहसि यो विष्ण्वालये वा पठे- नानालिङ्गविभङ्गमुक्तिशतकं तात्पर्यतः सादरम् । तस्य त्रैपदरामचन्द्रतरणिः स्वाज्ञानमुन्मूलयन् दास्यत्येव विदेहमुक्तिपदवीं शिष्टत्रिपाद्रूपिणीम् ॥ १०३॥ श्रीमत्पारमहंस्यधर्मनिरतश्रीवासुदेवेन्द्रचि- त्पादाम्भोजनिवासिषट्पदनिभश्रीरामचन्द्रेन्द्रतः । वक्तुं ध्यातुमशक्यमायिकपदालङ्कारसङ्घाततो लिङ्गाकारविभङ्गमुक्तिशतकं ज्ञातं कटाक्षाद्धरेः ॥ १०४॥ ॥ इति श्रीलिङ्गभङ्गमुक्तिशतकं सम्पूर्णम् ॥ उपनिषद्ब्रह्मेन्द्र विरचितं Q) What is Viraja Snana and Linga Bhanga? A) Those who have completed their Sadhana, in order to lose their physical attributes, take bath in the Viraja river (made out of the sweat of Sri Hari and is pure energy. It is not made of water.) outside the 7 forts of Vaikunta. Then, they lose their Linga Deha or physical nature. Their ``true nature'' emerges and is called Linga Bhanga. (Reference anandatirtha.wordpress.com) Proofread by Musiri Janakiraman
% Text title            : Lingabhangamukti Shatakam
% File name             : lingabhangamuktishatakam.itx
% itxtitle              : liNgabhaNgamuktishatakam (upaniShadbrahmendra virachitaM)
% engtitle              : lingabhangamuktishatakam
% Category              : deities_misc, gurudev, shataka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Upanishadbrahmendra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Musiri Janakiraman
% Description-comments  : From stotrArNavaH 06-44
% Indexextra            : (Scan, References 1, 2)
% Latest update         : August 7, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org