नवनाथस्तोत्रम्
ॐ नमो नवनाथेभ्यः ।
अथ नवनाथस्तोत्रम् ।
आदेशवस्तुविषयः सुरसिद्धलक्ष्यो यश्चैकनाथ इह सन्नवमूर्ति-पूर्तिः ।
सर्वोपरि प्रतिपलं वरिवर्ति कुर्वे कायेन तस्य मनसा वचसा प्रणामम् ॥ १॥
मोहान्धकारविचलन्मनसो मनुष्यां, स्वत्त्वोज्झितानपि परम्परयोपदेष्टुम् ।
तत्त्वं विमुक्तय उताकृत योगशास्त्रमादेश एतु मम तत्र य आदिनाथः ॥ २॥
यो ह्यादिनाथ उत राघवमत्स्यजन्मा मत्स्येन्द्रनाथ इति योगकभोगवृत्तिः ।
विस्मापयन्नखिलसिद्धसुरांश्च जात आदेश एतु मम तत्र पवित्र मूर्तो ॥ ३॥
यो ह्यादिनाथ उत भोगभरं विहाय योगं सतत्त्वमुदय क्रमतो निनाय ।
नाम्ना श्रुतोऽस्त्युदयनाथ इति श्रितश्रीरादेश एतु मम तत्र पवित्रमूर्तो ॥ ४॥
यश्चाप्यनेकभवभूतगणान् कृपातः पात्वातिपीडितहृदः किल कालदण्डात् ।
तद्दुर्लभामरपदः स सुखं निनाय यद्दण्डनाथ इति सिद्धगणप्रसिद्धः ई ॥ ५॥
आत्मानमेव सकलेभ्य उपादिदेशा, त्मन्येव नित्यरमणं किल यस्य यस्मात् ।
सत्यप्रवाहक इतो नहि सत्यमन्यत् सत्य स्वरूप इह यत् किल सत्यनाथः ॥ ६॥
सत्यस्वरूपकतया सततं ह्यसङ्ग एकान्तिकोऽपि सततं स्वमुखे पराख्ये ।
सन्तोषमादधदयं प्रससाद यस्मात् सन्तोषनाथ इति गीयत इडयनामा ॥ ७॥
कूर्माभिधानमुपलक्षणमादघानो भूमीमधोभुवनमप्यबतीह यस्मात् ।
यः कूर्मनाथ इति शर्मकरो जनाना-मादेश एतु मम तत्र पवित्रमूर्तो ॥ ८॥
पुण्यात्मनां विजयतां (त्रिजगतां) किल भुक्ति-मुक्ति-दाने पुनः परमतत्त्वनिदेशनाय ।
प्रावर्ततानुगुणयोगमयानुभूति-येनोत्तमा स च जलन्धरनाथनामा ॥ ९॥
सर्वे क्षयेण रहिता विहिताश्च येन ये चेतना हि गुणरूपविलक्षणत्वात् ।
गोरक्षनाथ इति यः कथितो हि यस्मा-द्वादेश एतु मम तत्र पवित्रमूर्तो ॥ १०॥
नवनाथनुतिं सततं रुचिरां, पठतीह जनः परमादरतः ।
परितोषमुपेत्य स नाथ इतः प्रददाति मनोरथमात्मसुखम् ॥ ११॥
॥ इति श्रीनवनाथस्तोत्रं सम्पूर्णम् ॥
Encoded and proofread by Aaditya Kalyanaraman aadityakalyaan at gmail.com