श्रीराघवेन्द्राष्टोत्तरशतनामस्तोत्रम्
सङ्कल्पद क्रमः -
ॐ अस्य श्रीराघवेन्द्रगुरुमन्त्रराजात्मक अष्टोत्तरशतनामामृतस्तोत्रस्य
श्रीकृष्णावधूतो ऋषिः, अनुष्टुप्छन्दः,
श्रीराघवेन्द्रगुर्वन्तर्गतमनुनामक-
भारतीरमणमुख्यप्राणान्तर्गत सीतापतिश्रीरामचन्द्रो देवता ।
श्रीं बीजं, नमः शक्तिः, राघवेन्द्राय इति कीलकम् ।
अथ करन्यासः
१) ॐ श्रीं अङ्गुष्ठाभ्यां नमः,
२) ॐ राघवेन्द्राय तर्जनीभ्यान्नमः
३) ॐ नमः मध्यमाभ्यां नमः,
४) ॐ श्रीं अनामिकाभ्यान्नमः,
५) ॐ राघवेन्द्राय कनिष्ठिकाभ्यां नमः,
६) ॐ नमः करतलकरपृष्ठाभ्यां नमः ।
अथ अङ्गन्यासः
१) ॐ श्रीं हृदयायनमः,
२) ॐ राघवेन्द्राय शिरसे स्वाहा,
३) ॐ नमः शिखाय्क् वषट्,
४) ॐ श्रीं कवचाय हुं,
५) ॐ राघवेन्द्राय नेत्राभ्यां वौषट्,
६) ॐ नमः अस्त्राय फट् ।
अथ ध्यानम् ।
भव्याकारो भावितेष्टार्थदाता वामे जानौ वामहस्तं दधानः!
ज्ञानाभीतीज्ञानवान् दक्षहस्तीरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥
श्रीराघवेन्द्रगुर्वन्तर्गत मनुनामक भारतीरमण मुख्यप्राणान्तर्गत
सीतापति श्रीरामचन्द्रप्रेरणया श्रीरामचन्द्रप्रीत्यर्थं
गुरुमन्त्रराजात्मक अष्टोत्तरशतनामस्तोत्रपारायणं करिष्ये ।
ओमित्येकाक्षरं ब्रह्म यद्ग्रन्थे सम्प्रकाशितम् ।
तस्मै श्रीराघवेन्द्रार्य गुरवेऽस्तु नमो मम ॥ १॥
नमस्ते श्रीरामचन्द्राङ्घ्रिपूजासम्पादिते शतम् ।
घनाभाङ्गाय वेदार्थप्रकाशोद्योगशालिने ॥ २॥
द्रागभीष्टप्रदात्रे च यतिवर्याय ते नमः ।
नाना दुःखविनाशाय नमो मानधनप्रिय ॥ ३॥
श्रीप्रदात्रे नमस्तुभ्यं राजवर्यादिसेवित ।
घनसंसारसौख्याय वेपितप्रतिवादिने ॥ ४॥
द्राक्षामधुरभाषाय नमस्तुभ्यं यशःप्रद ।
नमतां सौख्यदात्रे च मानदाय नमो नमः ॥ ५॥
श्रीपतिप्रेष्ठभक्ताय नमस्ते राजपूजित ।
घनरोगविनाशाय वेङ्कटेशार्चिने नमः ॥ ६॥
द्रावितानेकभूताय यशोदातनयार्चक ।
नादरूपपरब्रह्मोपासिने मानिने नमः ॥ ७॥
श्रीनाथचरणाम्भोजबम्भारायितमानस ।
राष्ट्रागतजनस्तोम समीहितफलप्रद ॥ ८॥
घनरोगतृणध्वंसदवानलपदामृत ।
वेदशास्त्रसुधाम्भोधि मन्थनज्ञानमन्दर ॥ ९॥
द्राघिमाभावितीभूतभक्तसेवेष्टदायिने ।
नमस्ते याचकव्रातचातकामृततेजसे ॥ १०॥
नरनारीकदम्बोग्रविपत्तिविनिवारिणे ।
महादयारसासारसागराय नमो नमः ॥ ११॥
श्रीमद्भिः सेव्यमानाय राष्ट्रक्षेमकराय च ।
घनाघनाङ्गलोलाय वेदव्याख्याविनेदिने ॥ १२॥
द्राविताऽनेकपापाय यानाद्यैश्वर्यशालिने ।
नागारिवाहभक्ताय मानदात्रे नमो नमः ॥ १३॥
श्रीरामार्च्यापूजकाय रामानासक्तचेतसे ।
घनापत्परिहाराय वेपितारातये नमः ॥ १४॥
द्राक्षामधुकटाक्षाय यदुनाथपदार्चिने ।
नमज्जनाघनाशाय मान्यमान्याय ते नमः ॥ १५॥
श्रीव्यासराजरूपेण कृष्णार्चार्चक ते नमः ।
राशीकृताऽघतूलाग्निनिभदर्शन ते नमः ॥ १६॥
घातुकानां घातुकाय वेदविद्याविशारद ।
द्राघीयः करुणापाङ्गैर्नमस्ते भक्ततोषिणे ॥ १७॥
यथाशक्त्यप्पणार्योक्तस्तोत्रपाठप्रमोदिने ।
नरनारीनृपेड्याय महादारिद्र्यनाशिने ॥ १८॥
श्रीसुधीन्द्रकरम्भोजसञ्जातवरसूनवे ।
रावितानेकदुर्वादिद्वीपिने घनचेतसे ॥ १९॥
वेश्मत्रय निवासाय द्राक् प्रसन्नाय ते नमः ।
यमिने नरसिंहाङ्घ्रिनिरताय ममताजुषे ॥ २० ॥
श्रीप्रह्लादावताराय राजद्वाणीविलासिने ।
घटनाननुरूपस्याप्यर्थस्य घटकाय ते ॥ २१॥
वेदवेदाङ्गवित्ताय द्रावयन्मायिवादिने ।
यानारोहणसन्तप्तमुद्रास्थापनकारिणे ॥ २२॥
नमो नम्यपदाब्जाय मायाविमदहारिणे ।
श्रीतुङ्गातीरवासाय तुभ्यं राजनताय च ॥ २३॥
घनसाररजोरक्तभद्रश्रीरससेविने ।
वेतालभयनाशाय द्रागनुग्रहकारिणे ॥ २४॥
यक्ष्मकुष्ठादिहरणपादतीर्थाय ते नमः ।
नामसङ्कीर्तनादेव पुरःसन्निहिताय च ॥ २५॥
महाजनशिरःस्थानसमालालितपादुक ।
श्रीसर्वतन्त्रस्वातन्त्र्यशालिने राजलक्ष्मणे ॥ २६॥
घनविघ्नविनाशाय बद्धकङ्कण ते नमः ।
वेगेन भक्तकार्याणां साधकाय नमोऽस्तु ते ॥ २७॥
द्रावयद्वादिजिह्वाय यशोव्याप्तदिशे नमः ।
नानाजातिजनस्तोमस्तूयमानपदाम्बुज ॥ २८॥
नमो मार महावीर मार्गणामृग्यचेतसे ।
श्रीमध्वशास्त्रसट्टीकाव्याख्याकौशल्यशालिने ॥ २९॥
राजच्छ्रीकाय धर्माभितप्ततापापहारिणे ।
वेलां वेलामुपागम्य भक्तानां कार्यसाधक ॥ ३०॥
द्राक्षापाकेन सकलग्रन्थव्याकृतिकारिणे ।
यथेष्टधनधान्यादिदात्रे नयविशारद ॥ ३१॥
मन्त्रालयमहाक्षेत्रवृन्दावननिवासिने ।
श्रीसत्यसन्धरूपेण श्रीसीताप्रतिमार्चक ॥ ३२॥
राजत्तुङ्गातटभ्राजन्महिषीक्षेत्रवासिने ।
धर्मद्युतिनवज्योतिद्योतिताम्बरधारिणे ॥ ३३॥
वेतण्डमत्तमायीन्द्र मृगेन्द्रद्रापितापहन् ।
यक्षरक्षोभयध्वंसिन् नमो नारायणप्रिय ॥ ३४॥
मायामोहितचित्तानां भक्तानां ज्ञानदायिने ।
नमः श्रीहनुमद्भीम मध्वात्मकहरिप्रिय ॥ ३५॥
राजपूजितपाटीरपादुकाय घनाकृते ।
वेशन्तीकृतसद्भक्तसंसाराम्बुधये नमः ॥ ३६॥
द्राविताखिलभक्तौघनानादुःखाय ते नमः ।
यमदूतभयत्रात्रे नानाभयविनाशिने ॥ ३७॥
मातृतः पितृतोप्युच्चैः भक्तकामदुघे नमः ।
इति श्रीराघवेन्द्रार्यगुरुराजमहात्मनः ॥ ३८॥
नाम्नामषाटोत्तरशतं सचतुष्टयमुत्तमम् ।
अष्टाक्षरमहामन्त्रवर्णानुक्रमवर्णितम् ॥ ३९॥
गुरुराजात्मभूकृष्णावधूत कविनोदितम् ।
गुरुराजेन कृपया सप्रसादं पुरस्कृतम् ॥ ४० ॥
पठतां जपतां सर्वकामदं गुर्वनुग्रहात् ।
नश्यन्ति ज्वरमोहाद्याः चतुर्दशदिनावधि ॥ ४१॥
इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे सप्तमपटले
अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
Proofread by Gopalakrishnan, PSA Easwaran