श्रीराघवेन्द्रपूजाविधानम्

श्रीराघवेन्द्रपूजाविधानम्

अथ पूजाविधिं वक्ष्ये राघवेन्द्रार्यसद्गुरोः । यतस्तुष्टेन गुरुणा हरौ रुष्टोऽपि रक्ष्यते ॥ १॥ कृतनित्याह्निकः शुद्धः स्वस्थचित्तः सुखासनः । आदौ पूजाङ्गभूतं च जपं कुर्यात् गुरोन्मनोः ॥ २॥ प्राणानायम्य मन्त्रेण संस्मरेन्मूर्ध्नि तं गुरुम् । ऋषिछन्दो देवबीजशक्तिकीलान्यथोच्चरेत् ॥ ३॥ न्यासं ध्यानं जपं कृत्वा गुरुपादे समर्पयेत् ॥ ४॥ राघवेन्द्रगुरं ध्यायेत् काषायाम्बरधारिणम् । नीलाम्बुदसमाभासं भव्याङ्गं दीर्घबाहुकम् ॥ ५॥ रक्तराजीवपत्राक्षं ऊर्ध्वद्वादशपुण्ड्रकम् । बद्धपद्मासनं देवस्वभावं दण्डधारिणम् ॥ ६॥ आनाभिलम्बितस्वच्छतुलसीदलमालिकम् । ज्ञानमुद्राऽभयकरं प्रणतेष्टसुरद्रुमम् ॥ ७॥ (इति मन्त्रजपे ध्यानम्) ध्यायामि गुरुमब्जाक्षं महासाम्राज्यशोभिनम् । प्रसन्नमप्पणाचार्ययोगीन्द्राद्यैः परीवृतम् ॥ ७॥ (इति ध्यानम्) आवाहयामि त्वामत्र सर्वदेवैरधिष्ठितम् । शिष्यसङ्घैः परिवृतमिष्टदानोद्यतं प्रभुम् ॥ ८॥ (इत्यावाहनम्) गुरुराज महाराज द्विजराजादि सेवितः । स्वर्णपीठासनं तुभ्यं ददामि स्वीकुरु प्रभो ॥ ९॥ (इत्यासनम्) आगच्छ श्रीमहाराज सार्वभौम गुरूत्तम । यावत्पूजां करोम्यत्र तावत्सन्निहितो भव ॥ १०॥ (इति सन्निधापनम्) श्रीगुरो राघवेन्द्रार्य भक्तवत्सल भूसुर । त्वदीयैस्सकलैः साकमत्रस्थः सुस्थिरो भव ॥ ११॥ (इति स्थिरीकरणम्) जय श्रीगुरुराजेन्द्र राघवेन्द्र यतीश्वर । पूजां गृहीतुं भक्तस्य त्वं ममाभिमुखो भव ॥ १२॥ (इत्यभिमुखीकरणम्) स्मृतिमात्रेण सन्तुष्ट प्रसिद्ध करुणानिधे । प्रसन्नो भव ते पूजां यथाशक्ति करोम्यहम् ॥ १३॥ (इति प्रसन्नीकरणम्) अभिव्यक्तस्वस्वरूपज्ञानानन्द गरूत्तम । मया दत्तं गृहाणार्घ्यं नमः सात्विक सात्विक ॥ १४॥ (इत्यर्घ्यम्) भूलोकपावनार्थाय कृतावतरण प्रभो । पाद्यं गृहाण राजर्षे पवित्रं कुरु मां प्रभो ॥ १५॥ (इति पाद्यम्) सदा साक्षात्कृतश्रीश केशवादिकरूपिणे । नमस्तुभ्यं मया दत्तं गृहाणाचमनं गुरो ॥ १६॥ (इत्याचमनम्) प्रह्लादस्यावताराय कल्याणोन्मुखरूपिणे । मधुपर्कं गृहाणेदं राजराजाय ते नमः ॥ १७॥ (इति मधुपर्कम्) गुरुराज महोदार स्नाने पाने च सर्वदा । क्षीरप्रियस्य ते गव्यपयसा स्नापयाम्यहम् ॥ १८॥ (इति क्षीरस्नानम्) गुरुराघवराजेन्द्र त्वां दध्ना स्नापयाम्यहम् । सदा मे त्वत्प्रसादेन शान्ताः स्युर्दुरुपद्रवाः ॥ १९॥ (इति दधिस्नानम्) महाबलिमहाप्राज्ञ गुरुराज घृतप्रिय । घृतेन स्नापयामि त्वां पुष्टिर्मे वर्धतां बलम् ॥ २०॥ (इति घृतस्नानम्) मधुरं मधुरावारं मधुवाचं मधुव्रतम् । मधुना स्नापयामि त्वां लोके मां मधुरं कुरु ॥ २१॥ (इति मधुस्नानम्) शर्वरीश मनोहारिन् विषदोषनिवारण । शर्कराभ स्नापये त्वां शर्कराभं कुरुष्व माम् ॥ २२॥ (इति शर्करास्नानम्) बदरी कदली चूतफलैस्त्वां स्नापयाम्यहम् । सफलं कुरु मे सर्वं तारकस्त्वं गुरुप्रभो ॥ २३॥ (इति फलस्नानम्) शुद्धैः शुद्धिप्रदैः शान्तशीतलैः सुखदर्शन । शुद्धस्नानं कारयिष्ये शुद्धं मां कुरु ते गुरो ॥ २४॥ (इति शुद्धोदकस्नानम्) विधिबद्धसुतैलेन चम्पकाद्यैः सुगन्धिना । कारये मङ्गलं स्नानं कुरु त्वं मम मङ्गलम् ॥ २५॥ (इति मङ्गलस्नानम्) भूलोकमध्यसंसिद्धतीर्थपावनरूपिणम् । स्नापयामि सुतीर्थोत्थैः जलैर्मां पावय प्रभो ॥ २६॥ (इति तीर्थस्नानम्) स्वर्णप्रख्यं शशिप्रख्यं रविप्रख्यं सदम्बरम् । कौपीनं यतिराजेन्द्र सव्यानं च गृहाण भोः ॥ २७॥ (इति वस्त्रम्) ऊर्मिका मौक्तिकादि स्रक्कुण्डलादि सुभूषणम् । गृहाण गुरुराजेन्द्र कुरु मां लोकभूषणम् ॥ २८॥ (इति आभरणम्) द्वादशाप्यूर्ध्वपुण्ड्राणि गोपीचन्दनगन्धतः । विष्णुपादोदकं दास्ये साकं श्रीतुलसीदलैः । गृहाण विष्णुभक्तानां सम्प्रदायप्रवर्तक ॥ २९॥ (इति ऊर्ध्वपुण्ड्रादिकम्) गन्धकक्कोलकस्तूरी कर्पूरागरुकुङ्कुमैः । मिश्रितं चन्दनं तुभ्यं दास्यामि स्वीकुरु प्रभो ॥ ३०॥ (इति गन्धम्) कस्तूरितिलकं चूर्णहरिद्रातण्डुलैर्युतान् । गृहाण गुरुवर्य त्वमलङ्कारार्थमक्षतान् ॥ ३१॥ (इति अक्षतान्) मल्लिकामालतीमालां तुलसीदलमालिकाम् । केतकादीनि पुष्पाणि गृह्णीष्व गुरुसत्तम ॥ ३२॥ (इति पुष्पाणि) वनस्पतिरसोत्पन्नं सुरभिं सुरभिप्रिय । महाभोगिन्निमं धूपं गृहाण प्रीतिमान् भव ॥ ३३॥ (इति धूपम्) वर्तिद्वययुतं साज्यं दीपद्वन्द्वं तमोऽपहम् । निरन्तरप्रकाशोऽपि गृहाण कृपया मयि ॥ ३४॥ (इति दीपम्) मयाऽऽनीतं यथाशक्ति यथाकालं यथाधनम् । भक्ष्योपदंशदध्याज्यक्षीराद्यन्वितमोदनम् ॥ ३५॥ शुण्ठीरामठ जम्बीरलवणादिसमन्वितम् । तक्रं च चन्दनोशीर कर्पूर घुसृणान्वितम् ॥ ३६॥ पानीयं च हरौ वायौ निवेद्य त्वं गुरूत्तम । भुक्त्वा परिजनैः साकं तुष्टो भव पितर्मम ॥ ३७॥ (इति नैवेद्यं -३५,३६,३७) श्रीतेत्यादिदशस्तोत्रपठनं ते करोम्यहम् । साङ्गभोजनसाफल्यसिद्ध्यै स्वीकुरु सद्गुरो ॥ ३८॥ (इति दशस्तोत्रपाठम्) वरदौ भक्तलोकस्य गरदौ सकलापदाम् । उदकेन करौ पादौ प्रक्षालय यतीश्वर ॥ ३९॥ (इति हस्तप्रक्षालनम्) कुरुष्वाचमनं स्वामिन् मङ्गलार्थं मयाकृतम् । त्वन्त्रस्तवराजेन सहितं स्वीकुरु प्रभो ॥ कुरुष्वाचमनं स्वामिन् विष्णुपादोदकं पिब । गृहाण तुलसीपत्रं गुरुराज प्रसीद मे ॥ ४०॥ (इति पुनराचमनम्) अपरोक्षीकृतश्रीश विधिबन्धविवर्जित । कामचार मयाऽऽनीतं ताम्बूलं प्रतिगृह्यताम् ॥ ४१॥ (इति ताम्बूलम्) नीराजनाष्टकं स्वामिन् मङ्गलार्थं मयाकृतम् । त्वन्मन्त्रस्तवराजेन सहितं स्वीकुरु प्रभो ॥ ४२॥ राघवेन्द्रगुरुं राजसार्वभौमपदस्थितम् । रामचन्द्रप्रियं वन्दे रां बीजप्रतिपादितम् ॥ ४३॥ (इति प्रथमनीराजनम्) रामचन्द्रमहाभक्तं पापाटव्यग्निरूपिणम् । राघवेन्द्रगुरुं वन्दे द्वितीयाक्षरवेदितम् ॥ ४४॥ (इति द्वितीयनीराजनम्) घनाघनाभनीलाङ्गं घनरोगनिवारणम् । घोरतापत्रयहरं तृतीयावेदितं भजे ॥ ४५॥ (इति तृतीय नीराजनं) वेदान्त सारसर्वज्ञं वेदव्यासपदार्चकम् । प्रह्लादस्यांशसम्भूतं तुरीयार्णवगतं भजे ॥ ४६॥ (इति चतुर्थनीराजनं) द्रावयन्तं पिशाचादीन् द्राघिमामयहारकम् । द्राग्भक्तेष्टप्रदं वन्दे पञ्चमाक्षर वेदितम् ॥ ४७॥ (इति पञ्चमनीराजनम्) यथाशक्ति यथाभक्ति सेवकानां फलप्रदम् । यवनाद्यैश्च संसेव्यं वन्दे षष्ठप्रपञ्चितम् ॥ ४८॥ (इति षष्ठनीराजनम्) नन्दतीर्थकृतानेकग्रन्थभावप्रकाशकम् । अघविद्रावकं वन्दे सप्तमाक्षरवेदितम् ॥ ४९॥ (इति सप्तमनीराजनम्) मानदं मध्वभक्तानां शठानां मानहानिदम् । मान्यं विरोधिनां चापि वन्दे वसुनिरूपितम् ॥ ५०॥ (इत्यष्टमनीराजनं) इति श्रीराघवेन्द्राष्टाक्षरमन्त्रात्मकस्तवम् । नीराजनेषु पठतां राघवेन्द्रः प्रसीदति ॥ ५१॥ सुवर्णरत्नखचितं पुष्पं पुष्पाञ्जलिं तव । श्रीराघवेन्द्रगुरुराट् ददामि स्वीकुरु प्रभो ॥ ५२॥ (इति पुष्पाञ्जलिः) जयशब्दैः पाहिशब्दैः गद्यैः पद्यैः प्रदक्षिणाम् । करोमि राघवेन्द्रार्य सन्तुष्टो भव सर्वदा ॥ ५३॥ (इति प्रदक्षिणा) गुरुराड्राघवेन्द्रस्य एकैकस्मिन् प्रदक्षिणे । सप्तद्वीपमहीयात्राफलं विन्दति मानवः ॥ ५४॥ बाहुभ्यामथ जानुभ्यां शिरसा मनसा हृदा । पञ्चाङ्गकं प्रणामं ते कुर्वेऽभीष्टार्थदायिने ॥ ५५॥ (इति नमस्कारान्) तव सेवारतान् कांश्चिद्भक्तान् प्रेषय मां प्रति । तेषां मरोरथं तात मया पुत्रेण पूरय ॥ ५६॥ अथवा करुणासिन्धो मयि सन्निहितः सदा । पुत्रस्य मम वाक्येन सर्वसर्वेष्टदो भव ॥ ५७॥ येन केनाप्युपायेन दूने दुर्यशसा भुवि । माहात्म्यं मयि विन्यस्य कुरुं मां लोकपूजितम् ॥ ५८॥ युक्ताऽयुक्तमजानानो याचे त्वां बालवद्गुरो । दाता त्राता दयालुस्त्वं यथेच्छसि तथा कुरु ॥ ५९॥ सर्वज्ञाय स्वतन्त्राय भक्तक्लेशविनाशिने । उदारचेतसे किं ते वदे मद्भारवाहिने ॥ ६०॥ ब्राह्मे मुहूर्ते चोत्थाय शयनावधि यत्कृतम् । मनोवाक्कायजनितं कर्म यद्वा शुभाशुभम् । तत्सर्वं प्रीतये भूयात् पादयोस्ते समर्पये ॥ ६१॥ (इति समर्पणम्) क्षणे क्षणेऽपराधांस्तान् मत्कृतान् वै सहस्रशः । क्षमस्व गुरुराजेन्द्र प्रसीद तनये मयि ॥ ६२॥ (इति क्षमापणम्) एवं यः कुरुते पूजां सकृद्वाऽपि बहिर्हृदि । गुरुराजप्रसादेन भुक्तिं मुक्तिं च विन्दति ॥ ६३॥ दिने दिने प्रकुर्वीत गुरुवारे विशेषतः । पूजाकालेऽथवा भक्त्या गुरुराजस्य सन्निधौ ॥ ६४॥ इदं च पूजापटलं पठतां सकलापदः । नश्यन्ति साङ्गपूजायाः फलं प्राप्नोत्यसंशयः ॥ ६५॥ इति श्रीमत्कृष्णावधूतपण्डितकृत श्रीमद्राघवेन्द्रतन्त्रे प्रत्यक्षसिद्धिप्रदे गुरुपूजाविधानं नाम चतुर्थः पटलः ॥ Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Shri Raghavendra Pujavidhanam
% File name             : rAghavendrapUjAvidhAnam.itx
% itxtitle              : rAghavendrapUjAvidhAnam (kRiShNa avadhUtapaNDitavirachitam)
% engtitle              : rAghavendrapUjAvidhAnam
% Category              : deities_misc, gurudev, pUjA
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Description/comments  : from Raghavendra Tantram
% Indexextra            : (Kannada 1, 2, Author, Video)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org