श्रीराघवेन्द्रसहस्रनामस्तोत्रम् अकारादि क्षकारान्त

श्रीराघवेन्द्रसहस्रनामस्तोत्रम् अकारादि क्षकारान्त

सोन्दूर श्रीकृष्ण अवधूतविरचितं श्रीराघवेन्द्रसहस्रनामस्तोत्रम् ॥ श्रीराघवेन्द्र गुरुभ्यो नमः । अथ श्रीराघवेन्द्रार्य नामानां साहस्रमुत्तमम् । प्रवक्ष्याम्यवधूतोऽहं सद्यः प्रीतिकरं गुरो ॥ १॥ अकारादि क्षकारान्त वर्णानुक्रमयोगतः । क्वचिद्रूढ्या च योगेन क्वचिल्लक्षणया क्वचित् ॥ २॥ अन्तर्यामी हरिप्राणाधिष्ठानातिशयत्वतः । प्रह्लादावतारत्वाच्च घटतेऽत्र न संशयः ॥ ३॥ छन्दस्सु - द्विरावृत्तैर्मन्त्रपदैरङ्गं छन्दोऽप्यनुष्टुभः । श्री मनो राघवेन्द्राय बीजं शक्तिश्च कीलकम् ॥ ४॥ ध्यानम्- भव्याकारो भावितेष्ठार्थदाता वामे चासौ वामहस्तं दधानः ॥ ५॥ ज्ञानाभीती ज्ञानवान् दक्षहस्तेरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥ ६॥ ॐ अथातो ब्रह्मजिज्ञासेत्यादि सूत्रार्थयोजनाम् । यस्तन्त्रदीपिकां चक्रे तं नौम्यज्ञानभञ्जनम् ॥ ७॥ अणिमाद्यष्टसिद्धिदमनणुज्ञानसम्पदम् । अमोघशक्तिमनघमपरोक्षीकृताच्युतम् ॥ ८॥ अखिलाभीष्टदं चात्मविदमायुःप्रवर्धनम् । आनन्दतीर्थसच्छास्त्रटीकाभावप्रकाशकम् ॥ ९॥ आनन्दसान्द्रमारब्धकार्यान्तगमनक्षमम् । आकुलीकृतदुर्वादिवृन्दमाकारबन्धुरम् ॥ १०॥ आशुप्रसन्नमासन्नभक्तकामसुरद्रुमम् । आध्यात्मरतमाचार्यमासमुद्रैकसद्गुरुम् ॥ ११॥ आत्मारामार्चनासक्तमार्यमाप्ततमं मम । इन्द्रियोत्पन्नदोषघ्नमिन्द्रवत्त्यागभोगिनम् ॥ १२॥ प्रमाणमिष्टदातारमीषणात्रयवर्जितम् । उग्ररक्षःपिशाचघ्नमुन्मादहरमुत्तमम् ॥ १३॥ उदारचित्तमुद्धारकमुत्पातहारकम् । उपेक्षितकुवादीन्द्रमुपकारपरायणम् ॥ १४॥ ऊरुदघ्नीकृतापारभवसागरमूर्जितम् । ऊष्महर्तारमृक्षाधिपतिशीतलदर्शनम् ॥ १५॥ ऋजुस्वभावमृद्धोरुमाहात्म्यमृजुमासम् । एडमूकसुवाग्दात्रे नमस्ते चैकभाषिणे ॥ १६॥ एकान्तभक्तायैश्वर्यदात्रे चैक्यमतच्छिदे । ओतत्वेत्याद्यनुव्याख्यासुधाभावार्थदर्शिने ॥ १७॥ ओङ्कारजपशीलाय सदोमात्मेत्युपासिने । औषधोक्त्यापि भक्तानामामयाधिकहारिणे ॥ १८॥ अंसात्ततुलसीमालमंहोनाशकदर्शनम् । अस्तङ्गतारिषड्वर्गमर्थिमन्दारकं भजे ॥ १९॥ कलिदोषविनाशाय कलौ सद्यः फलप्रदः । कमलापतिभक्ताय कुण्ठकुण्ठत्वभञ्जिने ॥ २०॥ करालनरसिंहोग्रक्रोधशामकमूर्तये । कपोलशङ्खचक्राङ्कशालिन् कपटवर्जित ॥ २१॥ कल्पभूरुहरूपाय कलभौधाभकीर्तये । नमः कमण्डलुं धर्त्रे करे दण्डधराय ते । कामेषूणामलक्ष्यश्च कामिनीकामनोज्झितः ॥ २२॥ कामारिश्लाघ्यसद्वृत्तः कामदः कामरूपधृत् । कानीनभाववेत्ता च कालज्ञः कालसाधकः ॥ २३॥ कापालिकमतध्वंसी काशिकाकाशमानवाक् । कान्तारभीतिहा कान्तिकान्तः कापथवर्जितः ॥ २४॥ काषायाम्बरधारी च काश्मीरद्रवचर्चितः । किरातभीतिसंहर्ता किलासित्वविनाशकः ॥ २५॥ कीनाशभयहा कीटभयहा कीर्तिमण्डितः । कुकूलाभः पिशाचानां कुष्ठरोगनिवारणः ॥ २६॥ कुशासनस्थितः कुक्षिपूरकश्च कुतूहली । कुत्सिताचाररहितः कुमारसुखवर्धनः ॥ २७॥ कुशलश्च कुलीनश्च कुशासनविवर्जितः । कुम्भघोणकृतावासः कुतोऽपि भयभञ्जनः ॥ २८॥ कूपपातकपापघ्नः कूर्मासनपरिग्रहः । कूष्माण्डादि प्रतिभयः कीर्तिदः कीर्तनप्रियः ॥ २९॥ केशवाराधकः केतुदोषघ्नः केवलेष्टदः । केतकीकुसुमासक्तः केसरद्रवलोलुपः ॥ ३०॥ कैवल्यदाता कैङ्कर्यतुष्टश्रीशश्च कोशदः । कालानुसारदाता च कोशी कोशातकीप्रियः ॥ ३१॥ कोलाहलविरोधी च कौपीनपटलाञ्छनः । कम्बुध्वनिप्रियः कम्बुग्रीवः कम्पविवर्जितः ॥ ३२॥ कृपीटयोनिवर्चस्थः कृतभक्तार्तिनाशनः । कृत्यासनः कृतज्ञश्च कृत्याचेष्टकभञ्जनः ॥ ३३॥ कृपामहोदधिः कृष्णध्यानासक्तः कृशप्रियः । कस्तूरीतिलकासक्तः कृत्तसंसारसाध्वसः ॥ ३४॥ (त्वमेव शरणं भूया नान्यः कश्चनविद्यते)॥ ३५॥ खगेशवाहभक्ताय खरपातकहारिणे । खदोषहर्त्रा खपुरप्रियाय खलमारिणे ॥ ३६॥ खाद्यप्रियाय मे भूयात् खलप्वा भवता गतिः । खिलहीनः खेदहन्ता खिन्नचित्तप्रमोददः । खेदहा खुरणोघ्नश्च खञ्जदुःखनिवारणः ॥ ३७॥ खोडत्वनाशको भूयादस्मदिष्टार्थसिद्धये ॥ ३८॥ गरघ्नाद्गणनम्याङ्घ्रेर्गरुत्मद्वाहसेवकात् । गुरोरन्यत्र मे चित्तं न गच्छतु गुणार्णवात् ॥ ३९॥ गलात्ततुलसीमालो गर्भदो गर्भदुःखहा । गर्तहारी गजगतिर्गतदोषो गतिप्रदः ॥ ४०॥ गदाधरो गदहरो गर्वहा गरिमालयः । गभस्तिमान् गह्वरस्थो गतभीर्गलिताहितः ॥ ४१॥ गताघो गर्जितारातिर्गदयित्नुर्गवां प्रियः । ग्रस्तारिर्ग्रहदोषघ्नो ग्रहोच्चाटनतत्परः ॥ ४२॥ गीष्पत्याभश्च गायत्रीजापको गायनप्रियः । ग्रामणीः ग्राहको ग्राही ग्रावग्रीवमतच्छिदः ॥ ४३॥ ग्रामक्षेमकरो ग्राम्यभयहा ग्राहभीतिहा । गात्रक्षेमकरो गामी गिरिसारनिभाङ्गकः ॥ ४४॥ गतभाविजनिर्गम्यो गीर्वाणावासमूलभूः । गुणी गुणप्रियो गुण्यो गुहावासो गुरुप्रियः ॥ ४५॥ गुडप्रियो गुच्छकण्ठो गुल्मच्छेत्ता गुणादरः । गुप्तगुह्यो गूढकर्मा गुरुराजश्च गूहितः ॥ ४६॥ गेहदाता गेयकीर्तिर्गैरिकारञ्जिताम्बरः । गृह्यक्षेमकरो गृह्यो गृहगो गृहवर्धनः ॥ ४७॥ गोदावरीस्नानरतो गोपबालकपूजकः । गोष्पदीकृतसंसारवार्धिर्गोपुररक्षकः ॥ ४८॥ गोप्यमन्त्रजपो गोमान् गोकर्णी गोचराखिलः । गोग्रासदो गोत्ररत्नं गोस्तनीनिभभाषणः ॥ ४९॥ गोप्ता गौतमशास्त्रज्ञो गौरवी गौरवप्रदः । गन्ता गञ्जितशत्रुश्च गन्धर्वो गन्धवर्धनः ॥ ५०॥ गन्धी गन्धवतीसूनुग्रन्थविद्गन्धवाहवित् । गन्धर्वाभो ग्रन्थिभेदी ग्रन्थकृद्ग्रन्थपाठकः ॥ ५१॥ गण्डशैलप्रियो गण्डमालभिद्गण्डकीरतिः । गङ्गास्नायी च गाङ्गेयप्रदो गाण्डीविमित्रवित् ॥ ५२॥ घटनाननुरूपस्याप्यर्थस्य घटको घनः । घर्महर्ता घनप्रीतिर्घनाघननिभाङ्गभाः ॥ ५३॥ घनसारद्रवासिक्तकायो घर्घरिकाङ्कनः । घ्राणतर्पणचार्वङ्गो घृणावान् घुसृणप्रियः ॥ ५४॥ घृतप्रियो घातितारिर्घोषयित्नुश्च घोषदः । घोण्टाफलास्थिद्वयजपमालाकराम्बुजः ॥ ५५॥ घोरामयपरीहर्ता घण्टापथगतिप्रियः । घण्टानादप्रियश्चाथ गणद्वाद्यविनोदनः ॥ ५६॥ चक्रशङ्खाङ्कितभुजश्चमूमदविभञ्जनः । चराचरक्षेमकर्ता चतुरश्चरणारुणः ॥ ५७॥ चतुष्पदीस्तुत्यमानश्चतुर्मुखपितृप्रियः । चतुस्सागरविख्यातः चर्मासनसमाधिमान् ॥ ५८॥ चत्वरस्थः चकोराक्षः चञ्चलत्वनिवारकः । चतुर्वेदविशेषज्ञः चलाचलकृतप्रियः ॥ ५९॥ चतुरङ्गबलध्वंसी चतुरोपायशिक्षितः । चारुरूपः चारसेव्यः चामरद्वयशोभितः ॥ ६०॥ चित्तप्रसादजननः चित्रभानुप्रभोज्ज्वलः । चिरजीवी चित्तहरः चित्रभाषी चितिप्रदः ॥ ६१॥ चित्रगुप्तभयत्राता चिरञ्जीजनसेवितः । चिन्तामणिः स्वभक्तानां चिन्तितार्थप्रदायकः ॥ ६२॥ चिन्ताहर्ता चित्तवासी चीरकौपीनधृक् तथा । (चीरकौपीनधारिणः) चिपिटत्यागकृत् चुल्लकक्षिदः चुल्लवर्धनः ॥ ६३॥ चूडामणिः वैष्णवानां चूर्णीकृतमहाभयः । चूडाला यशसा चूडप्राग्वादविनोदनः ॥ ६४॥ चूडाकर्मादि कर्तॄणां सन्निधौ सर्वदोषहा । चेष्टकः चेष्टकध्वंसी चैत्रोत्सवमुदम्भरः ॥ ६५॥ चोद्यहर्ता चौरनाशी चितिमांश्चित्तरञ्जनः । चिन्त्यः चेतनदाता मे चिन्तां हरतु सन्ततम् ॥ ६६॥ चन्द्रहासः चन्द्रकान्तः चन्द्रः चण्डीशपूजकः । चक्षुःप्रीतिकरः चन्द्रचन्दनद्रवसेवनः ॥ ६७॥ छद्महीनः छत्रभोगी छलहा छदलोचनः । छन्नज्ञानः छन्नकर्मा छविमान् छात्रसेवितः ॥ ६८॥ छात्रप्रियश्छात्ररक्षी छागयागातिशास्त्रवित् । छत्रचामरधाता छत्रचामरशोभितः ॥ ६९॥ छिद्रहारी छिन्नरोगश्छन्दश्शास्त्रविशारदः । छेदको भवदुःखानां भवतात् छिन्नसाध्वसः ॥ ७०॥ जराहर्ता जगत्पूज्यो जयन्तीव्रततत्परः । जयदो जयकर्ता च जगत्क्षेमकरो जयी ॥ ७१॥ जराहीनो जनैः सेव्यो जनानन्दकरो जवी । जनप्रियो जघन्यघ्नो जपासक्तो जगद्गुरुः ॥ ७२॥ जरायुबन्धसंहर्ता जलगुल्मनिवारणः । जाड्यहा जानकीशार्ची जाह्नवीजलपावनः ॥ ७३॥ जातमात्रशिशुक्षेमी ज्यायान् जाल्मत्ववर्जितः । जिष्णुर्जिनमतध्वंसी जिगीषुर्जिह्मवर्जितः ॥ ७४॥ जगदुद्धृतये जातो जितक्रोधो जितेन्द्रियः । जितारिवर्गो जितदुर्वादी जितमनोभवः ॥ ७५॥ जीवातुर्जीविका जीवदाता जीमूतवत् स्थिरः । जीवितेशभयत्राता जीर्णज्वरविनाशनः ॥ ७६॥ जुष्टश्रीनाथपादाब्जो जूर्तिबाधाविनाशनः । जेता ज्येष्ठो ज्येष्ठवृत्तिः जैवात्रकसमः सताम् ॥ ७७॥ ज्योत्स्नानिभयशा जम्भहन्ता जम्बूफलप्रियः । झल्लरीवादनप्रीतः झषकेतोरुपेक्षकः ॥ ७८॥ झलाप्रियो झूणिहन्ता झञ्झावातभयापहा । ज्ञानवान् ज्ञानदाता च ज्ञानानन्दप्रकाशवान् । टट्टरीरहितः टीकातात्पर्यार्थप्रबोधकः ॥ ७९॥ टङ्कारकरचारित्रः टङ्काभो दुरितशमनः । टक्प्रत्ययविकारज्ञः टीकृतान्यबुधोक्तिकः ॥ ८०॥ डमरुध्वनिकृन्मित्रं डाकिनीभयभञ्जनः । डिम्भसौख्यप्रदो डोलाविहारोत्सवलोलुपः ॥ ८१॥ ढक्कावाद्यप्रियो ढौकमानो णत्वार्थकोविदः । तपस्वी तप्तमुद्राङ्कः तप्तमुद्राङ्कनप्रदः ॥ ८२॥ तपोधनाश्रयः तप्ततापहर्ता तपोधनः । तमोहर्ता त्वरितदः तरुणर्स्तकपण्डितः ॥ ८३॥ त्रासहर्ता तामसहा तातस्तापससेवितः । तारकस्त्राणदस्त्राता तप्तकाञ्चनसन्निभः ॥ ८४॥ त्रिवर्गफलदः तीव्रफलदाता त्रिदोषहा । तिरस्कृतपरस्त्यागी त्रिलोकीमान्यसत्तमः ॥ ८५॥ तीक्ष्णरूपः पिशाचानां तीर्णसंसारसागरः । तुरुष्कसेवितस्तुल्यहीनस्तुरगवाहनः ॥ ८६॥ (तुरुष्कपूजित..) (तृप्तस्तृप्तिप्रदस्तृष्णाहर्ता तुङ्गातटाश्रयः) तूलायितीकृताघौघस्तुष्टिदः तुङ्गविग्रहः । तेजस्वी तैलविद्वेषी तोकानां सुखवर्धनः ॥ ८७॥ तन्द्रीहरस्तण्डुलदस्तञ्जापुरकृतादरः । स्थलदः स्थापकः स्थाता स्थिरः स्थूलकलेवरः ॥ ८८॥ स्थेयान् स्थैर्यप्रदः स्थेमा स्थौरी च स्थण्डिलेशयः । दशावान् दक्षिणो दत्तदृष्टिर्दाक्षिण्यपूरितः ॥ ८९॥ दक्षो दयालुर्दमवान् द्रवच्चित्तो दधिप्रियः । द्रव्यदो दर्शनादेव प्रीतो दलितपातकः ॥ ९०॥ दत्ताभीष्टो दस्युहन्ता दान्तो दारुणदुःखहा । द्वासप्ततिसहस्राणां नाडीनां रूपभेदवित् ॥ ९१॥ दारिद्र्यनाशको दाता दासो दासप्रमोदकृत् । दिवौकःसदृशो दिष्टवर्धनो दिव्यविग्रहः ॥ ९२॥ दीर्घायुः दीर्णदुरितो दीनानाथगतिप्रदः । दीर्घायुष्यप्रदो दीर्घवर्जितो दीप्तमूर्तिमान् ॥ ९३॥ दुर्धरो दुर्लभो दुष्टहन्ता दुष्कीर्तिभञ्जनः । दुःस्वप्नदोषहा दुःखध्वंसी द्रुमसमाश्रयः ॥ ९४॥ दूष्यत्यागी दूरदर्शी दूतानां सुखवर्धनः । दृष्टान्तहीनो दृष्टार्थो दृढाङ्गो दृप्तदर्पहृत् ॥ ९५॥ दृढप्रज्ञो दृढभक्तिर्दुर्विधानां धनप्रदः । देवस्वभावो देहीति याचनाशब्दमूलभित् ॥ ९६॥ (याचनाशब्दगूढहा) दूनप्रसादकृत् दुःखविनाशी दुर्नयोज्झितः । दैत्यारिपूजको दैवशाली दैन्यविवर्जितः ॥ ९७॥ दोषाद्रिकुलिशो दोष्मान् दोग्धा दौर्भिक्ष्यदोषहा । दण्डधारी दम्भहीनो दन्तशूकशयप्रियः ॥ ९८॥ धनदो धनिकाराध्यो धन्यो धर्मविवर्धनः । धारको धान्यदो धाता धिषणावान् धिनोतु माम् ॥ ९९॥ धीरो धीमान् धीप्रदाता धूतारिष्टो ध्रुवाश्रयः । धृतभक्ताभयो धृष्टो धृतिमान् धूतदूषणः ॥ १००॥ धूर्तभङ्गकरो धेनुरूपो धैर्यप्रवर्धनः । धूपप्रियो धोरणीभृत् धूमकेतुभयापहः ॥ १०१॥ धौतवस्त्रपरीधानो धावायत्वहितं मम । नमस्ते नलिनाक्षाय नवग्रहभयच्छिदे ॥ १०२॥ नवधाभक्तिभेदज्ञो नरेन्द्रो नरसेवितः । नामस्मरणसन्तुष्टो नारायणपदाश्रयः ॥ १०३॥ नाडीस्थैर्यप्रदो नानाजातिजन्तुजनार्चितः । नारीदूरो नायकश्च नागाद्यैश्वर्यदायकः ॥ १०४॥ निर्वाणदो निर्मलात्मा निष्कासितपिशाचकः । निःश्रेयसकरो निन्दावर्जितो निगमार्थवित् ॥ १०५॥ निराकृतकुवादीन्द्रो निर्जराप्तो निरामयः । नियामको नियतिदो निग्रहानुग्रहक्षमः ॥ १०६॥ निष्कृष्टवाक्यो निर्मुक्तबन्धनो नित्यसौख्यभुक् । निदानं सम्पदां निष्ठानिष्णातो निर्वृतिप्रदः ॥ १०७॥ निर्मोहो निरहङ्कारो नित्यनीराजनप्रियः । (निर्ममो) निजप्रदक्षिणेनैव सर्वयात्राफलप्रदः ॥ १०८॥ नीतिमान् नुतपादाब्जो न्यूनपूर्णत्ववर्जितः । निद्रात्यागी निस्पृहश्च निद्रादोषनिवारणः ॥ १०९॥ नूतनांशुकधारी च नृपपूजितपादुकः । नृणां सुखप्रदो नेता नेत्रानन्दकराकृतिः ॥ ११०॥ नियमी नैगमाद्यैश्च भक्तिभावेन सेवितः । नेदिष्ठो भजतां भक्त्या नौका भक्तभवाम्बुधेः ॥ १११॥ नन्दात्मजप्रियो नाथो नन्दनो नन्दनद्रुमः । प्रसन्नः परितापघ्नः प्रसिद्धः परतापहृत् ॥ ११२॥ प्रथमः प्रतिपन्नार्थः प्रसाधितमहातपाः । पराक्रमजितारातिः प्रतिमानविवर्जितः ॥ ११३॥ प्रवरः प्रक्रमज्ञश्च परवादिजयप्रदः प्रमुखः प्रबलः प्रज्ञाशाली प्रत्यूहनाशकः ॥ ११४॥ प्रपञ्जसुखदाता च प्रकृतिस्थः प्रवृत्तिकृत् । प्रभूतसम्पत् पत्रोर्णधारी प्रणवतत्परः ॥ ११५॥ प्रचण्डः प्रदरध्वंसी प्रतिग्रहविवर्जितः । प्रत्यक्षफलदाता च प्रसादाभिमुखः परः ॥ ११६॥ पाठकः पावनः पाता प्राणदाता प्रसादकृत् । प्राप्तसिद्धिः पारिजातदर्पहा पाकसाधनः ॥ ११७॥ पाटीरपादुकः पार्श्ववर्ती परायणप्रियः । पिण्याकीकृतदुर्वादी पिता पीडाविनाशकः ॥ ११८॥ प्रीतिमान् पीतवसनः पीयूषं पीवराङ्गकः । प्रियंवदः पीडिताघः पुलकी पुष्टिवर्धनः ॥ ११९॥ पुत्रवत्पाल्यभक्तौघः पुण्यकीर्तिः पुरस्कृतः । पुष्टप्रियः पुण्ड्रधारी पुरस्थः पुण्यवर्धनः ॥ १२०॥ पूर्णकामः पूर्वभाषी पृथुः पृथुकवर्धनः । पृष्टप्रश्नपरीहर्ता पृथिवीक्षेमकारकः ॥ १२१॥ पेशलः प्रेतभीतिघ्नः पेयपादोदकप्रभुः । प्रेङ्खद्वाणीविलासश्च प्रेरकः प्रेमवर्धनः ॥ १२२॥ पैशुन्यरहितः प्रोतसुखदः पोषकाग्रणीः । प्रोतधर्मा पौरुषदः पूरकः पङ्क्तिपावनः ॥ १२३॥ पण्डितः पङ्कहा पम्पावासी पङ्गुत्ववारकः । फलोदयकरः भालदुरक्षरमदापहृत् ॥ १२४॥ फुल्लनेत्रोऽथ फलिततपस्यः फर्फरीकवाक् । फूत्कारोच्चाटितानेकतापत्रयपिशाचकः ॥ १२५॥ फाण्टानेकेतरासाध्यकार्यो रक्षतु मां सदा । बलवान् बहुदाता च बदरीफललोलुपः ॥ १२६॥ बालप्रियो ब्राह्मणाग्र्यो बाधाहन्ता च बाहुदः । बुद्धिदाता बुधो बुद्धमतघाती बुधप्रियः ॥ १२७॥ वृन्दावनस्थतोयोन सर्वतीर्थफलप्रदः । वैराग्योल्लासकर्ता च वृन्दावनसमाश्रयः ॥ १२८॥ बिल्वपत्रार्चनप्रीतो बन्धुरोक्तिश्च बन्धहा । बन्धुर्बधिरताहर्ता बन्धुविद्वेषवारणः ॥ १२९॥ वन्ध्यापुत्रप्रदत्वाद्यैः यथायोगेन सृष्टिकृत् । बहुप्रजापालकश्च वेतालादिलयप्रदः ॥ १३०॥ भक्तानां जयसिद्ध्यर्थं वाद्यज्ञानप्रदः स्वयम् । भगवद्भक्तविद्वेष्टुः सद्यः प्रत्यक्षबन्धकृत् ॥ १३१॥ भक्तिदो भव्यदाता च भगन्दरनिवारणः । भवसौख्यप्रदः भर्मपीठो भस्मीकृताशुभः ॥ १३२॥ भवभीतिहरो भग्नदारिद्र्यो भजनप्रियः । भावज्ञो भास्करप्रख्यो भामत्यागी च भाग्यदः ॥ १३३॥ भाव्यर्थसूचको भार्यासक्तानामपि सौख्यदः । भक्तभारधरो भक्ताधारो भोगप्रियः सदा ॥ १३४॥ भिक्षुर्भीमपदासक्तो भुक्तिमुक्तिफलप्रदः । भूतप्रेतपिशाचादि भयपीडानिवारणः ॥ १३५॥ भूमा भूतिप्रदो भूरिदाता भूपतिवन्दितः । भ्रूणकर्ता भृत्यभर्ता भक्तवश्यश्च भेषजम् ॥ १३६॥ भैरवो भवरोगस्य भोक्ता भोजनदायकः । भौरिको भौतिकारिष्टहर्ता भौमजदोषहा ॥ १३७॥ भङ्गप्रदोऽरिमोदस्य भ्रान्तिहीनोऽवतात् स माम् । मल्लिकाकुसुमासक्तो मथितान्यमतो महान् ॥ १३८॥ मसृणत्वङ् मरुत्प्रख्यो महान्धनयनप्रदः । महोदयो मन्युहीनो महावीरपदार्चकः ॥ १३९॥ मलीमसमलध्वंसी मुकुरः शास्त्रसंविदाम् । महिषीक्षेत्रगो मध्वमतदुग्धाब्धिचन्द्रमा ॥ १४०॥ (मैहीक्षेत्रगो) मनःप्रमोदजननो मत्तानां मदभञ्जनः । महायशा महात्यागी महाभोगी महामनाः ॥ १४१॥ मारिकाभयहर्ता च मात्सर्यरहितान्तरः । मायाहर्ता मानदाता माता मार्गप्रदर्शकः ॥ १४२॥ मार्गणेष्टप्रदाता च मालतीकुसुमप्रियः । मुख्यो मुख्यगुरुर्मुख्यपालको मितभाषणः ॥ १४३॥ मीलतारिर्मुमूर्षुश्च मूकानां दिव्यवाक्प्रदः । मूर्धाभिषिक्तो मूढत्वहारी मूर्छनरोगहा ॥ १४४॥ मृषावचनहीनश्च मृत्युहर्ता मृदुक्रमः । मृदङ्गवादनरुचिर्मृग्यो मृष्टान्नदायकः ॥ १४५॥ मृत्तिकासेवनेनैव सर्वरोगनिवारणः । मेधावी मेहरोगघ्नो मेध्यरूपश्च मेदुरः ॥ १४६॥ मेघगम्भीरनिनदो मैथिलीवल्लभार्चकः । मोदकृन्मोदकासक्तो मोहहा मोक्षदायकः ॥ १४७॥ मौनव्रतप्रियो मौनी मन्त्रालयकृतालयः । माङ्गल्यबीजमहिमामण्डितो मङ्गलप्रदः ॥ १४८॥ यष्टिधारी यमासक्तो याचकामरभूरुहः । यातयामपरित्यागी याप्यत्यागी यतीश्वरः ॥ १४९॥ युक्तिमान् यक्षभीतिघ्नो योगी यन्ता च यन्त्रवित् । यौक्तिको योग्यफलदो योषित्सङ्गविवर्जितः ॥ १५०॥ योगीन्द्रतीर्थवन्द्याङ्घ्रिर्यानाद्यैश्वर्यभोगवान् । रसिकाग्रेसरो रम्यो राष्ट्रक्षेमविधायकः ॥ १५१॥ राजाधिराजो रक्षोघ्नो रागद्वेषविवर्जितः । राजराजायितो राघवेन्द्रतीर्थो जयत्यलम् ॥ १५२॥ रिक्तप्रियो रीतिमांश्च रुक्मदो रूक्षवर्जितः । रेवास्नायी रैक्वखण्डव्याख्याता रोमहर्षणः ॥ १५३॥ रोगहा रौरवाघघ्नो रन्ता रक्षणतत्परः । लक्ष्मणो लाभदो लिप्तगन्धो लीलायतित्वधृत् ॥ १५४॥ लुप्तारिगर्वो लूनाघमूलो लेखर्षभायितः । लोकप्रियो लौल्यहीनो लङ्कारातिपदार्चकः ॥ १५५॥ व्यतीपातादि दोषघ्नो व्यवहारजयप्रदः । वाचम्यमो वर्धमानो विवेकी वित्तदो विभुः ॥ १५६॥ व्यङ्गस्वङ्गप्रदो व्याघ्रभयहा वज्रभीतिहृत् । वक्ता वदान्यो विनयी वमिहा व्याधिहारकः ॥ १५७॥ विनीतो विदिताशेषो विपत्तिपरिहारकः । विशारदो व्यसनहा विप्रलापविवर्जितः ॥ १५८॥ विषघ्नो विस्मयकरो विनुताङ्घ्रिर्विकल्पहृत् । विनेता विक्रमश्लाघ्यो विलासी विमलाशयः ॥ १५९॥ वितण्डावर्जितो व्याप्तो व्रीहिदो वीतकल्मषः । व्यष्टिदो वृष्टिदो वृत्तिदाता वेदान्तपारगः ॥ १६०॥ वैद्यो वैभवदाता च वैतालिकवरस्तुतः । वैकुण्ठभजनासक्तो वोढा वंशाभिवृद्धिकृत् ॥ १६१॥ वञ्चनारहितो वन्ध्यावत्सदो वरदाग्रणी । शरणं शमसम्पन्नः शर्करामधुभाषणः ॥ १६२॥ शरीरक्षेमकारी च शक्तिमान् शशिसुन्दरः । शापानुग्रहशक्तश्च शास्ता शास्त्रविशारदः ॥ १६३॥ शान्तः शिरःशूलहर्ता शिवः शिखरिणीप्रियः । शिवदः शिशिरः श्लाघ्यः श्रद्धालुः श्रीप्रदायकः ॥ १६४॥ शीघ्रप्रसादः शीतघ्नः शुद्धिकृत् शुभवर्धनः । श्रुतवान् शून्यहा शूरः श्रेष्ठः शुश्रूषिसौख्यदः ॥ १६५॥ श्वेतवस्त्रप्रियः शैलवासी शैवप्रभञ्जनः । शोकहर्ता शोभनाङ्गः शौर्यौदार्यगुणान्वितः ॥ १६६॥ श्लेष्महर्ता शङ्करश्च श‍ृङ्खलाबन्धमोचकः । श‍ृङ्गारप्रीतिजनकः शङ्काहारी च शंसितः ॥ १६७॥ षण्ढपुंस्त्वप्रदः षोढा षड्वैरिरहितः सदा । भूयात् षोडशमाङ्गल्यप्रदाता षट्प्रयोगवित् ॥ १६८॥ सत्यसन्धः समाधिस्थः सरलः सत्तमः सुखी । समर्थः सज्जनः साधुः साधीयान् सम्प्रदायदः ॥ १६९॥ सात्त्विकः साहसी स्वामी सार्वभौमत्वसारवित् । (सार्वभौमश्च सारवित्) सर्वावगुणहीनश्च सदाचारानुमोदकः ॥ १७०॥ सर्वभूतदयाशाली सत्यधर्मरतः समः । स्वनामकीर्तनाद्वेदशास्त्रार्थज्ञानसिद्धिदः ॥ १७१॥ (स्वनमस्कारमात्रेण सर्वकाम्यार्थसिद्धिदः) स्वभक्तानां दुराचारसहनः सुस्मिताननः । सर्वतन्त्रस्वतन्त्रश्च सुधीन्द्रकरकञ्जजः ॥ १७२॥ सिद्धिदः सिद्धसङ्कल्पः सिद्धार्थः सिद्धिसाधनः । स्वप्नवक्ता स्वादुवृत्तिः स्वस्तिदाता सभाजयी ॥ १७३॥ सीमावान् सुरभिः सूनुदाता सूनृतभाषणः । सुग्रीवः सुमनाः स्निग्धः सूचकः सेवकेष्टदः ॥ १७४॥ सेतुः स्थैर्यचरः सौम्यसौम्यः सौभाग्यदायकः । (सेतुः स्वैरचरः) सोमभाः सम्मतः सन्धिकर्ता संसारसौख्यदः ॥ १७५॥ सङ्ख्यावान् सङ्गरहितः सङ्ग्रही सन्ततिप्रदः । स्मृतिमात्रेण सन्तुष्टः सर्वविद्याविशारदः ॥ १७६॥ सुकुलः सुकुमाराङ्गः सिंहसंहननस्तथा । हरिसेवापरो हारमण्डितो हठवर्जितः ॥ १७७॥ हितो हुताग्निर्हेतुश्च हेमदो हैमपीठगः । हृदयालुर्हर्षमाणो होता हंसश्च हेयहा ॥ १७८॥ ललितो लब्धनिर्वाणो लक्ष्मीर्लावण्यलक्षितः । क्षमाशीलः क्षामहरः क्षितिस्थः क्षीणपातकः ॥ १७९॥ क्षुद्रबाधापहर्ता च क्षेत्रज्ञः क्षेमदः क्षमः । क्षोदहन्ता क्षौद्रदृष्टिः क्षन्ता भक्तकृतागसाम् ॥ १८०॥ इति श्रीराघवेन्द्रार्यगुरुराजस्य योगिनः । चतुर्विंशति संयुक्तं नाम्नां साहस्रमीरितम् ॥ १८१॥ इति सोन्दूर श्रीकृष्ण अवधूतविरचितं श्रीराघवेन्द्रसहस्रनामस्तोत्रं सम्पूर्णम् । श्रीकृष्णार्पणमस्तु । Proofread by Aruna Narayanan, Gopalakrishnan, PSA Easwaran
% Text title            : Guru Raghavendra Sahasranamastotram
% File name             : rAghavendrasahasranAmastotram.itx
% itxtitle              : rAghavendrasahasranAmastotram (sondura shrIkRiShNa avadhUta virachitam)
% engtitle              : rAghavendrasahasranAmastotram
% Category              : deities_misc, stotra, gurudev, sahasranAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : sondura Shrikrishna Avadhoota
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Gopalakrishnan, Aruna Narayanan
% Proofread by          : Aruna Narayanan, Gopalakrishnan, PSA Easwaran
% Description/comments  : See corresponding nAmAvaliH. From Raghavendra Tantram
% Indexextra            : (Author, Video, nAmAvaliH, Kannada 1, 2)
% Latest update         : September 22, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org