रामानुजाष्टोत्तरशतनामस्तोत्रम्

रामानुजाष्टोत्तरशतनामस्तोत्रम्

ॐ श्रीमते रामानुजाय नमः ॥ ॐ रामानुजः पुष्कराक्षो यतीन्द्रः करुणाकरः । कान्तिमत्यात्मजः श्रीमाँल्लीलामानुषविग्रहः ॥ १॥ सर्वशास्त्रार्थतत्त्वज्ञः सर्वज्ञः सज्जनप्रियः । हारीतगोत्रतिलकः श्रीभूतपुरपालकः ॥ २॥ अनघो भक्तमन्दारः केशवानन्दवर्धनः । काञ्चीपूर्णप्रियसखः प्रणतार्तिविनाशकः ॥ ३॥ पुण्यसङ्कीर्तनः पुण्योब्रह्मराक्षसमोचकः । यादवापादितापार्थवृक्षच्छेदकुठारकः ॥ ४॥ अमोघो लक्ष्मणमुनिः शारदाशोकनाशकः । निरन्तरजनाज्ञानविमोचनविचक्षणः ॥ ५॥ वेदान्तद्वयसारज्ञो वरदाम्बुप्रदायकः । पराभिप्रायतत्त्वज्ञो यामुनाङ्गुलिमोचकः ॥ ६॥ देवराजकृपालब्धषड्वाक्यार्थमहोदधिः । पूर्णार्यलब्धसन्मन्त्रः शौरिपादाब्जषट्पदः ॥ ७॥ त्रिदण्डधारी ब्रह्मज्ञो ब्रह्मध्यानपरायणः । रङ्गेशकैङ्कर्यरतो विभूतिद्वयनायकः ॥ ८॥ गोष्ठीपूर्णकृपालब्धमन्त्रराजप्रकाशकः । वररङ्गानुकम्पात्तद्राविडाम्नायपारगः ॥ ९॥ मालाधगयसुज्ञात द्राविडाम्नायतत्त्वधीः । चतुस्सप्ततिशिष्याढ्यः पञ्चाचार्यपदाश्रयः ॥ १०॥ प्रपीतविषतीर्थाम्भः प्रकटीकृतवैभवः । प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनः ॥ ११॥ पवित्रीकृतकूरेश भागिनेयत्रिदण्डकः । कूरेशदासरथ्यादिचरमार्थप्रदायकः ॥ १२॥ रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवः । देवराजार्चनरतो मूकमुक्तिप्रदायकः ॥ १३॥ यज्ञमूर्तिप्रतिष्ठाता मन्नाथो धरणीधरः । वरदाचार्येसद्भक्तो यज्ञेशार्तिविनाशकः ॥ १४॥ अनन्ताभीष्टफलदो विठ्ठलेशप्रपूजितः । श्रीशैलपूर्णकरुणालब्धरामायणार्थकः ॥ १५॥ प्रपत्तिधर्मैकरतो गोविन्दार्यप्रियानुजः । व्याससूत्रार्थतत्त्वज्ञो बोधायनमतानुगः ॥ १६॥ श्रीभाष्यादिमहाग्रन्थकारकः कलिनाशनः । अद्वैतमतविच्छेत्ता विशिष्टाद्वैतपारगः ॥ १७॥ कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशकः । विनाशिताखिलमतश्शेषीकृतरमापतिः ॥ १८॥ पुत्रीकृतशठारातिश्शठजिदृणमोचकः । भाषादत्तहयग्रीवो भाष्यकारो महायशाः ॥ १९॥ पवित्रीकृतभूभागः कूर्मनाथप्रकाशकः । श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकः ॥ २०॥ श्रीवेङ्कटेशश्वशुरः श्रीरमासखदेशिकः । कृपामात्रप्रसन्नार्यो गोपिकामोक्षदायकः ॥ २१॥ समीचीनार्यसच्छिष्यसत्कृतो वैष्णवप्रियः । कृमिकण्ठनृपध्वंसी सर्वमन्त्रमहोदधिः ॥ २२॥ अङ्गीकृतान्ध्रपूर्णार्यस्सालग्रामप्रतिष्ठितः । श्रीभक्तग्रामपूर्णाढ्य विष्णुवर्धनरक्षकः ॥ २३॥ (श्रीभक्तग्रामपूर्णेश) बौद्धध्वान्तसहस्रांशुःशेषरूपप्रदर्शकः । नगरीकृतवेदाद्रिर्ढिल्लीश्वरसमर्थितः ॥ २४॥ (दिल्लीश्वर) नारायणप्रतिष्ठाता सम्पत्पुत्रविमोचकः । सम्पत्कुमारजनकः साधुलोकशिखामणिः ॥ २६॥ सुप्रतिष्ठितगोविन्दराजः पूर्णमनोरथः । गोदाग्रजो दिग्विजेता गोदाभीष्टप्रपूरकः ॥ २६॥ सर्वसंशयविच्छेत्ता विष्णुलोकप्रदायकः । अव्याहतमहद्वर्मा यतिराजो जगद्गुरुः ॥ २७॥ एवं रामानुजार्यस्य नाम्नामष्टोत्तरं शतम् । यः पठेच्छृणुयाद्वापि सर्वान्कामान्समश्नुते ॥ २८॥ यदान्ध्रपूर्णेन महात्मनेदं स्तोत्रं कृतं सर्वजनावनाय । तज्जीवभूतं भुवि वैष्णवानां बभूव रामानुजमात्तसानाम् ॥ २९॥ इति श्रीमद्रामानुजाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Encoded and proofread by Mohan Chettoor
% Text title            : Ramanuja Ashtottarashatanama Stotram
% File name             : rAmAnujAShTottarashatanAmastotram.itx
% itxtitle              : rAmAnujAShTottarashatanAmastotram
% engtitle              : rAmAnujAShTottarashatanAmastotram
% Category              : deities_misc, stotra, gurudev, aShTottarashatanAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : stotra
% Author                : Rangarya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor
% Description-comments  : Ramanuja Sampradaya.  See corresponding nAmAvalI
% Indexextra            : (Scan, nAmAvalI)
% Latest update         : June 7, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org