रामानुजाष्टोत्तरशतनामावलिः

रामानुजाष्टोत्तरशतनामावलिः

ॐ श्रीमते रामानुजाय नमः ॥ ॐ रामानुजाय नमः । पुष्कराक्षाय । यतीन्द्राय । करुणाकराय । कान्तिमत्यात्मजाय । श्रीमते । लीलामानुषविग्रहाय । सर्वशास्त्रार्थतत्त्वज्ञाय । सर्वज्ञाय । सज्जनप्रियाय । नारायणकृपापात्राय । श्रीभूतपुरनायकाय । अनघाय । भक्तमन्दाराय । केशवानन्दवर्धनाय । काञ्चिपूर्णप्रियसखाय । प्रणतार्तिविनाशकाय । पुण्यसङ्कीर्तनाय । पुण्याय । ब्रह्मराक्षसमोचकाय नमः ॥ २०॥ ॐ यादवपादितापार्थवृक्षछेदकुठारकाय नमः । अमोघाय । लक्ष्मणमुनये । शारदाषोकनाशनाय । निरन्तरजनाज्ञानविमोचनविचक्षणाय । वेदान्तद्वयसारज्ञाय । वरदाम्बुप्रदायकाय । पराभिप्रायतत्त्वज्ञाय । यामुनाङ्गुलिमोचकाय । देवराजकृपालब्धषड्वाक्यार्थमहोदधये । पूर्णार्यलब्धसन्मन्त्राय । शौरिपादाब्जषट्पदाय । त्रिदण्डधारिणे । ब्रह्मज्ञाय । ब्रह्मज्ञानपरायणाय । रङ्गेशकैङ्कर्यरथाय । विभूतिद्वयनायकाय । गोष्ठिपूर्णकृपालब्धमन्त्रराजप्रकाशकाय । वररङ्गानुकम्पात्तद्राविडाम्नायपारगाय । मालाधरार्यसुज्ञातद्राविडाम्नायतत्त्वधिये नमः ॥ ४०॥ ॐ चतुस्सप्तशिष्याढ्याय नमः । पञ्चाचार्यपदाश्रयाय । प्रपीतविषतीर्थाम्बुप्रकटीकृतवैभवाय । प्रणतार्तिहराचार्यदत्तभिक्षैकभोजनाय । पवित्रीकृतकूरेशाय । भागिनेयत्रिदण्डकाय । कूरेशदाशरथ्यादिचरमार्थप्रकाशकाय । रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवाय । देवराजार्चनरताय । मूकमुक्तिप्रदायकाय । यज्ञमूर्तिप्रतिष्ठात्रे । मन्नाथाय । धरणीधराय । वरदाचार्यसद्भक्ताय । यज्ञेशार्तिविनाशकाय । अनन्ताभिष्टफलदाय । विठ्ठलेशप्रपूजिताय । श्रीशैलपूर्णकरुणालब्धरामायणार्थकाय । प्रपत्तिधर्मैकरताय । गोविन्दार्यप्रियानुजाय नमः ॥ ६०॥ ॐ व्याससूत्रार्थतत्त्वज्ञाय नमः । बोधायनमतानुगाय । श्रीभाष्यादिमहाग्रन्थकारकाय । कलिनाशनाय । अद्वैतमतविच्छेत्रे । विशिष्टाद्वैतपारगाय । कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशिकाय । विनाशितेतरमताय । शेषीकृतरमापतये । पुत्रीकृत शठारातये । शठजिते । ऋणमोचकाय । भाषादत्तहयग्रीवाय । भाष्यकाराय । महायशसे । पवित्रीकृतभूभागाय । कूर्मनाथप्रकाशकाय । श्रीवेङ्कटाचलाधीश-शङ्खचक्रप्रदायकाय । श्रीवेङ्कटेशश्वशुराय । श्रीरामसकखदेशिकाय नमः ॥ ८०॥ ॐ कृपामात्रप्रसन्नार्याय नमः । गोपिकामोक्षदायकाय । समीचीनार्यसच्छिष्यसत्कृताय । वैष्णवप्रियाय । कृमिकाण्टनृपध्वंसीने । सर्वमन्त्रमहोदधये । अङ्गीकृतान्ध्रपूर्णार्याय । शालग्रामप्रतिष्ठिताय । श्रीभक्तग्रामपूर्णेशाय (श्रीभक्तग्रामपूर्णाढ्याय) । विष्णुवर्धनरक्षकाय । बौद्धध्वान्तसहस्रांशवे । शेषरूपप्रदर्शकाय । नगरीकृतवेदाद्रये । दिल्लीश्वरसमर्चिताय । नारायणप्रतिष्ठात्रे । सम्पत्पुत्रविमोचकाय । सम्पत्कुमारजनकाय । साधुलोकशिखामणये । सुप्रतिष्ठितगोविन्दराजाय । पूर्णमनोरथाय नमः ॥ १००॥ ॐ गोदाग्रजाय नमः । दिग्विजेत्रे । गोदाभीष्टप्रपूरकाय । सर्वसंशयविच्छेत्रे । विष्णुलोकप्रदायकाय । अव्याहतमहद्वर्त्मने । यतिराजाय । जगद्गुरवे नमः ॥ १०८॥ एवं रामानुजार्यस्य नाम्नामष्टोत्तरं शतम् । यः पठेच्छृणुयाद्वापि सर्वान्कामान्समश्नुते ॥ यदान्ध्रपूर्णेन महात्मनेदं स्तोत्रं कृतं सर्वजनावनाय । तज्जीवभूतं भुवि वैष्णवानां बभूव रामानुजमात्तसानाम् ॥ इति रामानुजाष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : Ramanuja Ashtottarashatanamavali 108 Names
% File name             : rAmAnujAShTottarashatanAmAvaliH.itx
% itxtitle              : rAmAnujAShTottarashatanAmAvaliH
% engtitle              : rAmAnujAShTottarashatanAmAvaliH
% Category              : deities_misc, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Ramanuja Sampradaya.  See corresponding stotram.
% Indexextra            : (Text, stotram)
% Acknowledge-Permission: Pandit Shri Rama Ramanuja Acharya, srimatham.com
% Latest update         : June 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org