शक्रस्तवः
सिद्धसेनदिवाकरसूरिविरचितः शक्रस्तवः ।
ध्यानम् ।
सर्वे जीवा उपादेया शक्तिरूपाः शिवात्मकाः ।
व्यक्तिरूपोल्लसन् मोक्षाः पञ्चभिः परमेष्ठिनः ॥
अथ शक्रस्तवः ।
ॐ नमोऽर्हते भगवते परमात्मने परमज्योतिषे परमपरमेष्ठिने
परमवेधसे परमयोगिने परमेश्वराय तमसःपरस्तात् सदोदितादित्यवर्णाय
समूलोन्मूलिता-नादि-सकल-क्लेशाय ॥ १॥
ॐ नमोऽर्हते भूभुर्वःस्वस्त्रयीनाथ-मौलि-मन्दारमालार्चित-क्रमाय
सकल-पुरुषार्थ-योनि निरवद्य-विद्याप्रवर्तनैक-वीरायनमः
स्वस्ति-स्वधास्वाहा-वषऽर्थै-कान्त-शान्त-मूर्त्तये भवद् भावि-
भूत-भावावभासिने कालपाश-नाशिने सत्त्व-रजस्तमो-गुणातीताय
अनन्तगुणाय वाङमनोऽगोचर-चरित्राय पवित्राय
करण-कारणाय तरणतारणाय सात्त्विक-दैवताय तात्त्विक-जीविताय
निर्ग्रन्थ-परम-ब्रह्म-हृदयाय योगीन्द्र प्राणनाथाय त्रिभुवन-
भव्य-कुलनित्योत्सवाय विज्ञाना-नन्द-परब्रह्मै-कात्म्यसात्म्य-समाधये
हरि-हर-हिरण्यगर्भादि-देवतापरिकलित-स्वरूपाय सम्यक्-श्रद्धेयाय
सम्यक्-श्रद्धेयाय सम्यक् शरण्याय सुसमाहित-सम्यक् स्पृहणीयाय ॥ २॥
ॐ नमोऽर्हते भगवते आदिकराय तीर्थङ्कराय स्वयंसम्बुद्धाय
पुरुषोत्तमाय पुरुषसिंहाय पुरुषवरपुण्डरीकाय पुरुषवर-गन्धहस्तिने
लोकोत्तमाय लोकनाथाय लोकहिताय लोक प्रदीपाय लोकप्रद्योतकारिणे
अभयदाय दृष्टिदाय मुक्तिदाय मार्गदाय बोधिदाय जीवदाय
शरणदाय धर्मदाय धर्मदेशकाय धर्मनायकाय धर्मसारथये
धर्म-वर-चातुरन्तचक्रवर्तिने व्यावृत्त-च्छद्मने
अप्रतिहत-सम्यग्ज्ञान-दर्शन-सद्मने ॥ ३॥
ॐ नमोऽर्हते जिनाय जापकाय तीर्णाय तारकाय बुद्धाय बोधकाय मुक्ताय
मोचकाय त्रिकालविदे पारङ्गताय कर्माष्टक-निषूदनाय अधीश्वराय
शम्भवे जगत्प्रभवे स्वयम्भुवे जिनेश्वराय स्याद्वादवादिने सार्वाय
सर्वज्ञाय सर्वदर्शिने सर्वतीर्थो-पनिषदे सर्वपाषण्डमोचिने
सर्वयज्ञफलात्मने सर्वज्ञकलात्मने सर्वयोगरहस्याय केवलिने
देवादिदेवाय वीतरागाय ॥ ४॥
ॐ नमोऽर्हते परमात्मने परमाप्ताय परमकारुणिकाय सुगताय तथागताय
महाहंसाय हंसराजाय महासत्त्वाय महाशिवाय महाबोधाय महामैत्राय
सुनिश्चिताय विगत-द्वन्द्वाय गुणाब्धये लोकनाथाय जित-मार-बलाय ॥ ५॥
ॐ नमोऽर्हते सनातनाय उत्तम-श्लोकाय मुकुन्दाय गोविन्दाय विष्णवे
जिष्णवे अनन्ताय अच्युताय श्रीपतये विश्वरूपाय हृषीकेशाय
जगन्नाथाय भूर्भुवः -स्वः समुत्ताराय मानञ्जराय कालञ्जराय ध्रुवाय
अजाय अजेयाय अजराय अचलाय अव्ययाय विभवे अचिन्त्याय असङ्ख्येयाय
आदि-सङ्ख्याय आदि-केशवाय आदि-शिवाय महाब्रह्मणे परमशिवाय
एका-नेकानन्त-स्वरूपिणे भावा-भाव-विवर्जिताय अस्ति-नास्ति-द्वयातीताय
पुण्य-पाप-विरहिताय सुख-दुःख-विविक्ताय व्यक्ता-व्यक्त-स्वरूपाय
अनादि-मध्य-निधनाय नमोऽस्तु मुक्तीश्वराय मुक्ति-स्वरूपाय ॥ ६॥
ॐ नमोऽर्हते निरातङ्काय निःसङ्गाय निःशङ्काय निर्मलाय निर्द्वन्द्वाय
निस्तरङ्गाय निरुर्मये निरामयाय निष्कलङ्काय परमदैवताय सदाशिवाय
महादेवाय शङ्कराय महेश्वराय महाव्रतिने महायोगिने महात्मने
पञ्चमुखाय मृत्युञ्जयाय अष्टमूर्तये भूतनाथाय जगदानन्दाय
जगत्पितामहाय जगत्देवाधिदेवाय जगदीश्वराय जगदादिकन्दाय जगद्भास्वते
जगत्-कर्मसाक्षिणे जगच्चक्षुषे त्रयीतनवे अमृतकराय शीतकराय
ज्योतिश्चक्र-चक्रिणे महाज्योति-र्द्योतिताय महातमः पारेसुप्रतिष्ठिताय
स्वयङ्कर्त्रे स्वयंहर्त्रे स्वयम्पालकाय आत्मेश्वराय नमो विश्वात्मने ॥ ७॥
ॐ नमोऽर्हते सर्वदेवमयाय सर्व ध्यानमयाय सर्वज्ञानमयाय
सर्वतेजोमयाय सर्वमन्त्रमयाय सर्वरहस्यमयाय
सर्व-भावाभाव-जीवाजीवेश्वराय अरहस्य-रहस्याय
अस्पृह-स्पृहणीयाय अचिन्त्य-चिन्तनीयाय अकामकामधेनवे
असङ्कल्पित-कल्पद्रुमाय अचिन्त्य-चिन्तामणये चतुर्दश-रज्ज्वात्मक
जीवलोक-चूडामणये चतुरशीति-लक्ष-जीवयोनि-प्राणिनाथाय
पुरुषार्थ नाथाय परमार्थनाथाय। अनाथनाथाय जीवनाथाय
देव-दानव-मानव-सिद्धसेनाधि-नाथाय ॥ ८॥
ॐ नमोऽर्हते निरञ्जनाय अनन्त-कल्याण निकेतन-कीर्तनाय
सुगृहीत-नामधेयाय महिमामयाय धीरोदात्त-धीरोद्धत-धीरशान्त-
धीरललित-पुरुषोत्तम-पुण्यश्लोक-शत-सहस्र-लक्ष-कोटि-
वन्दितपादार-विन्दाय सर्वगताय ॥ ९॥
ॐ नमोऽर्हते सर्वसमर्थाय सर्वप्रदाय सर्वहिताय
सर्वाधिनाथाय कस्मैचन क्षेत्राय पात्राय तीर्थाय पावनाय
पवित्राय अनुत्तराय उत्तराय योगाचार्याय संप्रक्षालनाय
प्रवराय आग्नेयाय वाचस्पतये माङ्गल्याय सर्वात्मनीनाय सर्वार्थाय
अमृताय सदोदिताय ब्रह्मचारिणे तायिने दक्षिणीयाय निर्विकाराय
वजर्षभ-नाराच-मूर्त्तये तत्त्वदर्शिने पारदर्शिने परमदर्शिने
निरुपमज्ञान-बल-वीर्यतेजः-शक्त्यैश्वर्य मयाय आदिपुरुषाय
आदि-परमेष्ठिने आदिमहेशाय महाज्योतिःसत्त्वाय महार्चिर्धनेश्वराय
महा-मोह-संहारिणे महासत्त्वाय महाज्ञामहेन्द्राय महालयाय महाशान्ताय
महायोगीन्द्राय अयोगिने महामहीयसे महाहंसाय हंसराजाय महासिद्धाय
शिव-मचल-मरुज-मनन्त-मक्षय-मव्याबाध-मपुनरावृत्ति-
महानन्दं महोदयं सर्वदुःखक्षयं कैवल्यममृतं
निर्वाणमक्षरं परब्रह्म निः श्रेयसमपुनर्भवं
सिद्धिगति-नामधेयं-स्थानसंप्रान्तवते चराचर-मवते नमोऽस्तु
श्रीमहावीराय त्रिजगत्स्वामिने श्रीवर्धमानाय ॥ १०॥
ॐ नमोऽर्हते केवलिने परमयोगिने (भक्तिमार्गयोगिने) विशाल-शासनाय
सर्वलब्धि सम्पन्नाय निर्विकल्पाय कल्पनातीताय कला कलाप-कलिताय
विस्फुर-दुरु-शज्ज-ध्यानाग्नि-निर्दग्धकर्मबीजाय
प्राजानन्त-चतुलयाय सौम्याय शान्ताय मङ्गल-वरदाय
अष्टादशदोष-रहिताय संसृत-विश्व-समीहिताय स्वाहा ॥ ११॥
॥ ॐ ह्रीँ श्रीँ अर्हँ नमः ॥
लोकोत्तमो वन्दना -
लोकोत्तमो निष्पतिमस्त्वमेव, त्वं शाश्वतं मङ्गलमप्यधीश
त्वामेकमर्हन् ! शरणप्रपद्ये, सिद्धर्षिसद्धर्ममयस्त्वमेव ॥ १॥
त्वं मे माता पिता नेता देवो धर्मो गुरुः परः
प्राणाः स्वर्गोऽपवर्गश्च सत्त्वं तत्त्वं गतिर्मतिः ॥ २॥
जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् ।
जिनोजयतिसर्वत्र, योजिनःसोऽहमेव च ॥ ३॥
यत्किश्चित्कुर्महे देवः सदासुकृतदुकृतम् ।
तन्मे निजपदस्थस्य, हुं क्षः क्षपय त्वं जिन ! ॥ ४॥
गुह्यातिगुह्य गोप्ता त्वं, गहाणास्मत्कुतं जपम् ।
सिद्धिः श्रयति मां येन, त्वत्प्रसादात्त्वयि स्थितम् ॥ ५॥
फलश्रुति
इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ,
अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं,
सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्
दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं
भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां,
शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, चराचरेऽपि जीवलोके
सद्वस्तु तन्नास्ति यत्करतलप्रणयि न च भवतीति । किं च ॥ १॥
इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ,
अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं,
सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्
दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं
भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां,
गुणयतां, शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां,
भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकवासिनो देवाः सदा प्रसीदन्ति
व्याधयो विलीयन्ते ॥ २॥
इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भं,
अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं,
सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं,
अनेक-सम्यगदृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं,
भवान्तरकृता-ऽसङ्ख्य-पुण्य-प्राप्यं सम्यग् जपतां, पठतां,
गुणयतां, शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां,
पृथिव्यप्-तेजोवायु-गगनानि भवन्त्यनुकुलानि ॥ ३॥
इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भं,
अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं,
सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं,
अनेक-सम्यक्-दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं,
भवान्तरकृता-ऽसङ्ख्य पुण्यप्यसम्यगजपतां, पठतां, गुणयतां,
शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, सर्वसम्पदा मूलं जायते
जिनानुरागः ॥ ४॥
इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषद्गर्भं,
अष्टमहासिद्धिप्रद, सर्वपापनिवारणं, सर्वपुण्यकारणं,
सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं,
अनेक-सम्यगदृष्टि-भद्रक-देवताशत-सहस्र-शुश्रूषितं,
भवान्तरकृताऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां,
गुणयतां, शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, साधवः
सौमनस्येनानुग्रहपरां जायन्ते ॥ ५॥
इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषद्गर्भं,
अष्ट्यहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं,
सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं,
अनेकन्मम्यगदृतिभद्रक-देवतान्यात-सस्म-शुमूवितं,
भवान्तरकृतह्णऽसङ्ख्यपुण्यप्राप्यसम्यत्जपतां, पठतां, गुणयतां,
शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, खलाः क्षीयन्ते ॥ ६॥
इतीमं पूर्वोक्तमिन्द्रस्तयैकादश मन्त्रराजोपनिषद्गर्भं,
अष्टमहासिद्धिप्रदं, सर्वपापनिवारणंः सर्वपुण्यकारणं,
सर्वक्षेषह्म, सर्वगुणाकरं, महाप्रभावं,
अनेकन्मम्ययष्टिःभद्रक-देवतक्ष्यशत-सहस्रन्दामूषितं,
भवान्तरकृता-ऽसङ्ख्यपुण्यप्राप्यसम्यगजपतां, पठतां, गुणयतां,
शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, जल-स्थल-गगनचराः
क्रूरजन्तवोऽपि मैत्रीमया जायन्ते ॥ ७॥
इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषदार्भ,
अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं,
सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं,
नेकन्मम्यणतिभद्रकब्देवतक्ष्यशत-सहस्र-शुभूवितं)
भवान्तरकृता-ऽसङ्ख्यपुण्यप्राप्यसम्यगजपतां, पठतां, गुणयतां,
शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, अधमवस्तून्यपि
उत्तमवस्तुभाव प्रपद्यन्ते ॥ ८॥
इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ,
अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं,
सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्
दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं
भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां,
शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, धर्मार्थकामा गुणाभिरामा
जायन्ते ॥ ९॥
इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ,
अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं,
सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्
दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं
भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां,
पठतां, गुणयतां, शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां,
ऐहिक्यःसर्वाअपिशुद्धगोत्र-कलत्रत्यव्र-मित्र-थन-थान्य-
जीवित-यौवन-रूपाऽऽरोग्य-यशः-पुरस्मराः
सर्वजनानां सम्पदः परभाव-जीवित-शालिन्यः सदुदर्काः सुसम्मुखी
भवन्ति । किं बहुना? ॥ १०॥
इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ,
अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं,
सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्
दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं
भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां,
गुणयतां, शृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, आमुष्मिक्यः
सर्वमहिमास्वर्गापवर्गश्रियोऽपि क्रमेण यथेष्ठं (च्छ) स्वयं
स्वयंवरणोत्सव समुत्सुका भवन्तीति । सिद्धिः ( दः) श्रेयः समुदयः ॥ ११॥
यथेन्द्रेण प्रसन्नेन, समादिष्टोऽर्हतां स्तवः ।
तथाज्यं सिद्धसेनेन, प्रपेदे सम्पदां पदम् ॥ १॥
॥ इति श्रीसिद्धसेनदिवाकरसूरि विरचितः वर्धमान शक्रस्तवः सम्पूर्णः ॥
॥ नमुत्थुणं सूत्र ॥
नमुत्थुणं, अरिहन्ताणं, भगवन्ताणं १
आइगराणं, तित्थयराणं, सयंसम्बुद्धाणं २
पुरिसुत्तमाणं, पुरिस सीहाणं, पुरिसवर पुण्डरीआणं,
पुरिसवर गन्धहत्थीणं ३
लोगुत्तमाणं, लोग नाहाणं, लोग हिआणं,
लोग पईवाणं, लोग पज्जो अगराणं ४
अभयदयाणं, चक्खुदयाणं,
मग्गदयाणं, सरणदयाणं, बोहिदयाणं ५
धम्मदयाणं, धम्मदेसयाणं, धम्मनायगाणं,
धम्मसारहीणं, धम्म-वर-चाउरन्त-चक्कवट्टीणं ६
अप्पडिहय वरनाण दंसणधराणं, वियट्ट छौमाणं ७
जिणाणं, जावयाणं, तिन्नाणं, तारयाणं, बुद्धाणं,
बोहयाणं, मुत्ताणं, मोअगाणं ८
सव्वन्नूणं, सव्व-दरिसीणं, सिव-मयल-मरुअ-मणन्त-
मक्खय-मव्वाबाह-मपुणरावित्ति सिद्धिगै-नामधेयं ठाणं सम्पत्ताणं,
नमो जिणाणं, जिअ-भयाणं ९
जे अ अईया सिद्धा, जे अ भविस्सन्ति-णागए काले सम्पै अ वट्टमाणा,
सव्वे ति-विहेण वन्दामि १०
॥ इति नमुत्थुणं सूत्र सम्पूर्ण ॥
Encoded and proofread by DPD