श्रीशङ्करार्यपदावलम्बस्तवः
(कालटिक्षेत्रे )॥
नाकादिलोकविरतिः प्रभवेद्दृढा य-
द्वाक्यामृतश्रवणतोऽप्यतिकामुकस्य ।
स त्वं विरक्तिद जवात्पदनम्रपङ्क्त्यै
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥
अन्नासुचित्तमुखकोशविवेचनेन
तत्त्वं परं द्रुततरं प्रतिबोधयंस्त्वम् ।
मोक्षप्रदायक पदाम्बुजसन्नतेभ्यः
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २॥
क्लेशान्निवार्य कृपया तरसास्मितादीन्
पञ्चापि साधनचतुष्टयमाशु दत्त्वा ।
बुद्धिं विचारपरमां प्रविधाय सम्यक्
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥
बद्ध्वा त्वदङ्घ्रिसरसीरुहभक्तिरज्ज्वा
चेतःकपिं विषयकण्टकपादपेषु ।
छायाफलादिरहितेषु वृथा चरन्तं
श्रीशङ्करार्य मम देहि पदावत्ठम्बम् ॥ ४॥
प्राणैर्विहीनतनयं तरसा समीप-
मानीय रोदनकरौ पितरौ समीक्ष्य ।
यः प्रातनोदसुयुतं तनयं हि स त्वं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ५॥
भट्टादिभास्करसितेतरकण्ठमुख्यान्
वादे विजित्य कुतुकाद्विदुषां वरेण्यान् ।
अद्वैतमार्गपरिरक्षणजागरूक
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ६॥
श्रीमत्प्रणीतशुकतातमुनीन्द्रसूत्र-
भाष्यादिपाठनविधावधिकं पटुत्वम् ।
दत्वापि शून्यपरिमाणजडत्ववार्धेः
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ७॥
भाष्याख्यपुष्परसपूर्णमुखारविन्द-
नम्रान्तरङ्गमधुकृत्परितुष्टिदक्ष ।
रुद्राक्षकण्ठ निजनीलगलत्वसिद्ध्यै
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ८॥
आस्तिक्यरत्नमिह पुण्यचयेन लभ्यं
कल्यम्बुधौ निपतितं तरसाऽऽर्यपाद ।
उद्धृत्य तेन परिपालय लोकमेनं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ९॥
योगप्रदायक जवान्नतमस्करिभ्यो
भोगप्रदाथ गृहिणामविरक्तिभाजाम् ।
कालस्मयापह विपापजनेड्यपाद
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १०॥
छिन्नेऽपि शस्त्रनिचयैर्बहुधा शरीरे
खेदं न कञ्चिदपि याति यथा मनो मे ।
तद्वत्स्थिरां कुरु मतिं सुखचित्स्वरूपे
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ११॥
अन्यैर्भिषग्भिरनिवार्यमहाऽऽमयं मे
यस्मात्त्वमाद्यभिषगस्यचिरान्निवार्य ।
अज्ञानसंज्ञमतिनिश्चलबोधदाना-
च्छ्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १२॥
वातावधूतवरुणालयभङ्गगर्व-
भङ्गप्रचण्डवचसः प्रभवन्ति यत्ते ।
मूका अपि प्रणमनात्पदयोः सकृत्त-
च्छ्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १३॥
लीनं तथा कुरु मनः परमार्थवस्तु-
न्यैक्यावबोधनवशान्मम निःसरेन्न ।
यद्वत्पुनः परमकारुणिकाग्रगण्य
श्रीशङ्करार्य मम देहि पदावद्ध्यबम् ॥ १४॥
संन्यासिनां हि विषवद्विषयेषु बुद्धिं
तन्वस्तथा च गृहिणां शुभकर्मवाञ्छाम् ।
सर्वान्क्रमेण च परं पदमापयंस्त्वं
श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ १५॥
यत्पादपङ्कजनतेरपि जातु मूक-
लोकोऽपि दिव्यकवितामयते हि तूर्णम् ।
स त्वं तव स्तुतिकृते कवितां वितीर्य
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १६॥
आकर्ण्य दीनगृहिणीवचनं कृपार्द्रः
स्वर्णात्मकामलकसन्ततिमासमन्तात् ।
गेहस्य योऽतितरसा हि ववर्ष स त्वं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १७॥
आनेष्ट दूरगनदीं जननीहिताय
यो बाल्य एव जगतां हितकृत्स्वभावः
स त्वं समस्तजनरक्षणबद्धदीक्ष
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १८॥
मोहाद्वृथा विरसगन्धविहीनशब्द-
स्पर्शाख्यपुष्पचलनादतिखेदभाजम् ।
हृद्भृङ्गमात्मपदपद्मगतं विधाय
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १९॥
सर्वान्स्वकीयमततत्त्वपरीक्षणेच्छूं-
स्तत्तन्मतार्थकथनेन विजित्य मोदम् ।
सर्वज्ञपीठमधिरुह्य य आप स त्वं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २०॥
शान्त्यादिसाधनवता पुरुषोत्तमेन
सम्प्राप्य सद्गुरुमतः श्रवणादि कृत्वा ।
यः प्राप्यते विमलबोधतनुर्हि स त्वं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २१॥
श्रीनाथशम्भुविधिशुद्धपरात्मरूप
काशान्तचञ्चलहृदां पदसन्नतानाम् ।
पाषाणनिश्चलमनस्त्वनिधानदक्ष
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २२॥
राजीवपादमुखलभ्यमनन्तपुण्यै
राजाधिराजनिचयार्थितमन्वहं च ।
निर्व्याजपूर्णकृपयास्य वराकराजः
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २३॥
वाचोऽपि चित्तसहिता न हि यत्र गन्तुं
शक्ष्यन्ति तद्विषयतां कथमेति वस्तु ।
त्यक्त्वा कृपां गुरुवरस्य हि चित्स्वरूप
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २४॥
जाड्याम्बुधौ निरवधौ दृढमग्नमग्न-
मत्यन्तविस्मृतचिदात्मसुखस्वरूपम् ।
उद्धृत्य धीरशनया तरसा कृपाब्धे
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २५॥
हस्ताम्बुजं शिरसि हेतुविहीनपूर्ण-
कारुण्यतोऽतितरसा विनिधाय मत्के ।
स्वाराज्यमाशुवितरात्मपदेऽभिषिच्य
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २६॥
माता पिता च भगिनी तनुजश्च जाया
नैवाश्रयाय पुरुषस्य भवन्ति काले ।
एकं विना गुरुवराङ्घ्रिपयःप्रभूतं
श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ २७॥
सम्प्राप्तयोगसरणिं सदसद्विवेक-
दक्षं दमादिगुणसम्भृतमानसं च ।
कृत्वा सरोजभवचित्तपयोजभानो
श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ २८॥
श्रीशङ्करेति सततं परिकीर्तयन्ति
पादाम्बुजं परगुरोर्हृदि चिन्तयन्ति ।
ये वै त एव सुखिनः पुरुषा हि लोके
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २९॥
मात्सर्यमुख्यभयहेतुमृगावर्कार्णे
सङ्कल्पनामकमहाजवपक्षियुक्ते ।
स्वान्ताख्यघोरविपिने चरतः कृपाब्धे
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३०॥
वर्णाश्रमादिपरिपालनसक्तिमाशु
दत्त्वा दृढां नृपततेरपि भूयसीं च ।
श्रद्धां श्रुतिस्मृतिततिष्वचलां च लक्ष्मीं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३१॥
आदौ तु साधनचतुष्टयहेतुभूतं
पश्चाच्छ्रुतार्थपरिचिन्तनसाधनं च ।
अन्ते च दृश्यरहितात्मसुखप्रदं ते
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३२॥
विद्यानिधे विशदितानतचित्तपद्म
विद्याप्रदाननिरताङ्घ्रिसरोजपूज ।
विष्ण्वीशभेदमतिवारणपञ्चवक्त्र
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३३॥
दक्षेण पाणिकमलेन विबोधमुद्रा-
मन्येन नम्रवरदानसमर्थचिह्नम् ।
बिभ्राणपद्मनिभनेत्र कृपाम्बुराशे
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३४॥
श्रीकालटीधरणिभूषणभूतजन्मन्
जन्मादिदुःखविनिवारणबद्धदीक्ष ।
कारुण्यपूर्णनयनावनिदेवभाग्य
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३५॥
वेदाविरुद्धमतसाधनबद्धदीक्ष
वादे विजित्य तरसा क्षितिमण्डलं यः ।
अद्वैतरक्षणमहो कृतवांश्च स त्वं
श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३६॥
त्तत्त्वार्थबोधनविहीनहृदम्बुजस्य
रागादिदोषपरिपूरितचेतसो मे ।
तत्त्वं विबोध्य विनिवार्य च रागरोगं
श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ ३७॥
इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीशङ्करार्यपदावलम्बस्तवः सम्पूर्णः ।
Proofread by PSA Easwaran psaeaswaran at gmail.com