श्रीधरस्तोत्रम्

श्रीधरस्तोत्रम्

स्वात्मध्यानपरायणं श्रुतिधनं वेदान्तगम्यं गुरुं निःश्रेयस्वरदं सदाशुभकरं सद्यस्तपोभास्वरम् । शान्तिश्रीसहितं सुखालयलयं सानन्दवक्त्रप्रभं सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ १॥ धर्मग्लानिहरं धियाविकसितं सच्चित्सुखालम्बनं आत्मानन्दपरं सुधाविलसितं दिव्यप्रभावेष्टितम् । विद्यावेदरतं सदा विहसितं चित्तप्रशान्तिप्रदं सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ २॥ ब्रह्मज्ञानविकाशकं प्रमुदितं विज्ञानयोगस्थितं शाब्दे ज्ञानपरे प्रवीणमकलं सर्वार्थसिद्धिप्रदम् । श्रद्धासाधनतः सुलभ्यममलं सद्धर्मसंस्थापकं सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ३॥ द्वन्द्वातीतपद समाहितमतिं फुल्लारविन्दाननं ब्रह्माविष्णुमहेशशक्रदिविजैर्यत्पादपङ्केरुहम् । सम्यग्पूजितमग्रतः सहजतो यः सर्वदा निश्चलः सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ४॥ सत्यज्ञानमनन्तमद्वयमिदं वाक्यार्थतो लक्ष्यितं अध्यात्मस्मृतिसारकल्पितमिदं श्रीविग्रहं तत्त्वतः । चित्तं यस्य कृपार्द्रसान्द्रसरलं कैवल्यनिष्ठान्वितं सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ५॥ प्रज्ञानोत्कटमेधसाविलसितं संन्यासयोगाद्वर पीडार्तोद्धरणं वराभयकरं लीलावतारं प्रभुम् । दीनत्राणकरं स्पृहाविरहितं ज्योतिःस्वरूपं परं सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ६॥ भक्तान्तःकरणाब्धिसौम्यशशिनं कारुण्यरत्नाकरं सत्यस्वर्गतले सुखामृतघटं चिद्रत्नचिन्तामणिम् । यः सङ्कल्पतरुः सदासुफलितो ब्रह्मैक्यताकामधुक् सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ७॥ संसाराम्बुधितारकं सुरनुतं तत्त्वार्थसंवेदितं तत्त्वज्ञानगतं प्रबोधगदितं सन्मार्गमोक्षप्रदम् । शिष्याभीष्टकरं प्रसन्नवदनं स्नेहाङ्कितं सुन्दरं सेवे सद्गुरुश्रीधरं यतिवरं भक्तान्तरस्थं विभुम् ॥ ८॥ यः श्रीसद्गुरुसंस्तुतिं यदिपठेन्निष्कामतो भक्तिमान् सः शान्तिं प्रलभेत्परामविचलां सत्यं च नो संशयः । चित्तं निर्विषयं स्थिरं ह्यविकलं कृत्वा पठेद्यः शुचिः सन्तोषामृतवारिधौ ह्यविरतम्मग्नो भवेत्सः पुमान् ॥ ९॥ (श्रीधरसन्देशः श्रावण १८८७) इति श्री पृथ्वीराज भालेराव अथवा सुव्रतविरचितं श्रीधरस्तोत्रं सम्पूर्णम् । Proofread by Paresh Panditrao
% Text title            : Shridhara Stotram 1
% File name             : shrIdharastotram1.itx
% itxtitle              : shrIdharastotram 1 (svAtmadhyAnaparAyaNaM shrutidhanaM)
% engtitle              : shrIdharastotram 1
% Category              : deities_misc, gurudev, shrIdharasvAmI, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org