श्रीव्यासराजगुरुसार्वभौमचरित्रम्
लक्ष्मीं वक्षसि बिभ्रतं नरहरिं देवं प्रणम्यामित
प्रज्ञादीन् गुरुपुङ्गवानपि तथा श्रीव्यासयोगीशितुः ।
आसम्भूतिकृतानि संस्कृतवतोभीष्टप्रदानीशितुः
विष्णोः प्रीतिकृते वदामि सुजनाः तुष्कन्तु बालोक्तभिः ॥ १॥
रामाचार्य सुधीमणेर्दयितया गर्भे धृतः श्रीमतो
ब्रह्मण्यस्य यतीशितुः करुणया संवत्सरेष्टादिमे ।
वैशाखादिमपक्षके दिनमणेर्वारे दिने सप्तमे
प्रह्लादोवततार भूमिवलये नागाधिपस्यांशभृत् ॥ २॥
अब्दे पञ्चमतायुते वटुरभूत् तुर्याश्रमं श्रीमुखे
जग्राहाथ यतीशितुर्वचनतो ब्रह्मण्यनाम्नो गुरोः ।
विद्याप्राप्तिकृते यतीशमगमत् श्रीपादराजाभिदं
अब्दान् द्वादश तत्र वासमकरोत्ग् शृण्वन्महेक्षागमम् ॥ ३॥
अब्दे सर्वजिदाह्वये यतिवरात् वैखाखमासासित-
द्वादश्यामगमद्यदूद्वहपदाब्जार्चाधिकारं मुनेः ।
ब्रह्मण्याभिदया युतादथ ततानायं परैर्दुष्करान्
ग्रन्थन्सामृत तर्कताण्डवमुखान् अष्टौ हरेः प्रीतये ॥ ४॥
मूर्तीस्सप्तशतं, प्लवङ्गमपतेः द्वात्रिंशदष्यञ्ज
सूनोर्निर्मम ईषशतोषणकृते रौद्राह्वमाब्दे शके ।
शालीवाहननाम्नि, युग्मयुगळं चत्वारि चैकं लिखन्
यां सङ्ख्यां मनसा दधाति तदियं सङ्ख्यायतः पूर्यते ॥ ५॥
अब्दे तादृशि यावनाधिपतितो लेभे महावैभवं
भेर्युष्टाद्यमनन्यलभ्यमुरुणा तुष्टान्महिम्नात्मनः ।
अब्दे विक्रमनामकेतिमदिने माघस्य कृष्णाभिधं
श्रीमन्तं गजगह्वरावनिभृतं सोव्यात् कुहूत्थापदः ॥ ६॥
तत्सिंहासनमारुहन् प्रचुर भूदानादि संसाधयन्ग्
तद्राज्यं पुनरार्पयत् क्षितिभृते कृष्णाभिधानाय सः ।
तत्संवत्सरगां तत्यमासिधवळे पक्षे हरेर्वासरे
ष्वन्ते व्याससमुद्रनामकमदात् ग्रामं स चास्मैनृपः ॥ ७॥
निर्मायात्र तटाकमेष यतिराट् प्रत्यूहमम्भः सृतौ
भूद्रं कञ्चनकाल वाहन बृहच्छृङ्गाग्रतोभीभिदत् ।
एवं स्वं महिमानमद्भुतमिळादेवेषु सन्दर्शयन्
अध्यास्तावनिमाविळम्बिशरदं त्वष्टादशाब्दं सुधीः ॥ ८॥
श्रीमद्व्यासयतीशचित्रचरितं विद्यादिरत्नाकर
प्रोक्तं तत्पदपद्मसद्महृदयो यस्सम्पठेत् शुद्ध धीः ।
तस्मिन्नामगिरीश्वरो नरहरिः प्रीयेत तद्भक्ततां
आप्नोत्येष यतीश्वरोऽपि सुधियं दद्याद्दयावारिधिः ॥ ९॥
इति श्रीविद्यारत्नाकरतीर्थविरचितं
श्रीव्यासराजगुरुसार्वभौमचरित्रं सम्पूर्णम् ।
Encoded and proofread by Krishnananda Achar