आत्मतत्त्वनिरूपणम्

आत्मतत्त्वनिरूपणम्

(देवीभागवततः देवीगीतायां प्रथमोऽध्यायः) श्रीदेव्युवाच - श‍ृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम । यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥ १॥ अहमेवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप । तदात्मरूपं चित्संवित्परब्रह्मैकनामकम् ॥ २॥ अप्रतर्क्यमनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता ॥ ३॥ न सती सा नासती सा नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा ॥ ४॥ पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ ५॥ तस्यां कर्माणि जीवानां जीवाः कालाश्च सञ्चरे । अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ ६॥ स्वशक्तेश्च समायोगादहं बीजात्मतां गता । स्वाधारावरणात्तस्या दोषत्वं च समागतम् ॥ ७॥ चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते । प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ॥ ८॥ केचित्तां तप इत्याहुस्तमः केचिज्जडं परे । ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ ९॥ विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ १०॥ एवं नानाविधानि स्युर्नामानि निगमादिषु । तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततोऽसती ॥ ११॥ चैतन्यस्य न दृश्यत्वं दृश्यत्वे जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ १२॥ अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् । कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ १३॥ प्रकाशमानमन्येषां भासकं विद्धि पर्वत । अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम ॥ १४॥ जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः । संविदो व्यभिचारश्च नानुभूतोऽस्ति कर्हिचित् ॥ १५॥ यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा । अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ १६॥ अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः । आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ १७॥ मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् । सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम ॥ १८॥ अपरिच्छिन्नताप्येवमत एव मता मम । तच्च ज्ञानं नात्मधर्मो धर्मत्वे जडताऽऽत्मनः ॥ १९॥ ज्ञानस्य जडशेषत्वं न दृष्टं न च सम्भवि । चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ २०॥ तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा । सत्यः पूर्णोऽप्यसङ्गश्च द्वैतजालविवर्जितः ॥ २१॥ स पुनः कामकर्मादियुक्तया स्वीयमायया । पूर्वानुभूतसंस्कारात् कालकर्मविपाकतः ॥ २२॥ अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते । अबुद्धिपूर्वः सर्गोऽयं कथितस्ते नगाधिप ॥ २३॥ एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् । अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ २४॥ प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् । तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ २५॥ सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् । ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ २६॥ तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः । भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः ॥ २७॥ जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा । शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ २८॥ शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः । शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ २९॥ शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा । तेभ्योऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥ ३०॥ सर्वात्मकं तत्सम्प्रोक्तं सूक्ष्मदेहोऽयमात्मनः । अव्यक्तं कारणो देहः स चोक्तः पूर्वमेव हि ॥ ३१॥ यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः । ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥ ३२॥ पञ्चसङ्ख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते । पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद्द्विधा ॥ ३३॥ एकैकं भागमेकस्य चतुर्धा विभजेद्गिरे । स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥ ३४॥ तत्कार्यं च विराड्देहः स्थूलदेहोऽयमात्मनः । पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः ॥ ३५॥ ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः । अन्तःकरणमेकं स्याद्वृत्तिभेदाच्चतुर्विधम् ॥ ३६॥ यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद्बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम् ॥ ३७॥ अनुसन्धानरूपं तच्चित्तं च परिकीर्तितम् । अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम् ॥ ३८॥ तेषां रजोंशैर्जातानि क्रमात्कर्मेन्द्रियाणि च । प्रत्येकं मिलितैस्तैस्तु प्राणो भवति पञ्चधा ॥ ३९॥ हृदि प्राणो गुदेऽपानो नाभिस्थस्तु समानकः । कण्ठदेशेऽप्युदानः स्याद्व्यानः सर्वशरीरगः ॥ ४०॥ ज्ञानेन्द्रियाणि पञ्चैव पञ्चकर्मेन्द्रियाणि च । प्राणादिपञ्चकं चैव धिया च सहितं मनः ॥ ४१॥ एतत्सूक्ष्मशरीरं स्यान्मम लिङ्गं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विविधा स्मृता ॥ ४२॥ सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ ४३॥ तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः ॥ ४४॥ सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप ॥ ४५॥ तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः । द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ ४६॥ देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः ॥ ४७॥ स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशोऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ ४८॥ प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ ४९॥ करोति विविधं विश्वं नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ ५०॥ इति देवीभागवते सप्तमस्कन्धेद्वात्रिंशाध्यायान्तर्गतं देव्याः आत्मतत्त्वनिरूपणं समाप्तम् । इति श्रीदेवीभागवते देवीगीतायां प्रथमोऽध्यायः । Encoded by Vishwas Bhide Proofread by Vishwas Bhide, PSA Easwaran
% Text title            : AtmatattvanirUpaNam
% File name             : AtmatattvanirUpaNam.itx
% itxtitle              : AtmatattvanirUpaNam (devIbhAgavatAntargatam)
% engtitle              : AtmatattvanirUpaNam
% Category              : devii, advice, misc
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vishwas Bhide
% Proofread by          : Vishwas Bhide, PSA Easwaran
% Description/comments  : Devigita Adhyaya 1
% Indexextra            : (Devi Bhagavatam
% Acknowledge-Permission: http://satsangdhara.net
% Latest update         : April 30, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org