शिवप्रोक्तानि अष्टकवचानि
श्रीभगवानुवाच
अस्य मन्त्रस्य कवचं शृणु वेतालभैरव ।
वैष्णवीतन्त्रसंज्ञस्य वैष्णव्याश्च विशेषतः ॥ १॥
तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपधृक् ।
वर्णो द्वितीयो ब्रह्मैव तृतीयश्चन्द्रशेखरः ॥ २॥
चतुर्थो गजवक्त्रश्च पञ्चमस्तु दिवाकरः ।
शक्तिः स्वयं पकारश्च महामाया जगन्मयी ॥ ३॥
यकारस्तु महालक्ष्मीः शेषवर्णः सरस्वती ।
योगिनीपूर्ववर्णस्य शैलपुत्री प्रकीर्तिता ॥ ४॥
द्वितीयस्य तु वर्णस्य चण्डिका योगिनी मता ।
चन्द्रघण्टा तृतीयस्य कुष्माण्डी तत् परस्य च ॥ ५॥
स्कन्दमाता तकारस्य यस्य कात्यायनी स्वयम् ।
कालरात्रिः सप्तमस्य महादेवीति संस्थिता ॥ ६॥
प्रथमं वर्णकवचं योगिनीकवचं तथा ।
देवौघकवचं पश्चाद्देवीदिक्कवचं तथा ॥ ७॥
ततस्तु पार्श्वकवचं द्वितीयान्ताव्ययस्य च ।
कवचं तु ततः पश्चात् षड्वर्णं कवचं तथा ॥ ८॥
अभेद्यकवचं चेति सर्वत्राणपरायणम् ।
इमानि कवचान्यष्टौ यो जानाति नरोत्तमः ॥ ९॥
सोऽहमेव महादेवी देवीरूपश्च शक्तिमान् ।
वर्णकवचं अथवा वैष्णवीतन्त्रकवचं
अस्य श्रीवैष्णवीतन्त्रकवचस्य नारद-ऋषिः अनुष्टुप्छन्दः ॥ १०॥
कात्यायनी देवता । सर्वकामार्थसाधने विनियोगः ।
अः पातु पूर्वकाष्ठायामाग्नेय्यां पातु कः सदा ॥ ११॥
पातु चो यमकाष्ठायां टो नैरृत्यां च सर्वदा ।
मां पातु तोऽसौ पाश्चात्ये शक्तिर्वायव्यदिग्गता ॥ १२॥
यः पातु मां चोत्तरस्यामैशान्यां सस्तथावतु ।
मूर्ध्नि रक्षतु मां सोऽसौ बाहौ मां दक्षिणे तु कः ॥ १३॥
मां वामबाहौ चः पातु हृदि टो मां सदावतु ।
तः पातु कण्ठदेशे मां कट्योः शक्तिस्तथावतु ॥ १४॥
यः पातु दक्षिणे पादे षो मां वामपादे तथा ।
योगिनीकवचं
शैलपुत्री तु पूर्वस्यामाग्नेय्यां पातु चण्डिका ॥ १५॥
चन्द्रघण्टा पातु याम्यां यमभीतिविवर्धिनी ।
नैरृत्ये त्वथ कूष्माण्डी पातु मां जगतां प्रसूः ॥ १६॥
स्कन्दमाता पश्चिमायां मां रक्षतु सदैव हि ।
कात्यायनी मां वायव्ये पातु लोकेश्वरी सदा ॥ १७॥
कालरात्री तु कौबेर्यां सदा रक्षतु मां स्वयम् ।
महागौरी तथैशान्यां सततं पातु पावनी ॥ १८॥
देवौघ कवचं
नेत्रयोर्वासुदेवो मां पातु नित्यं सनातनः ।
ब्रह्मा मां पातु वदने पद्मयोनिरयोनिजः ॥ १९॥
नासाभागे रक्षतु मां सर्वदा चन्द्रशेखरः ।
गजवक्त्रः स्तनयुग्मे पातु नित्यं हरात्मजः ॥ २०॥
वामदक्षिणपाण्योर्मां नित्यं पातु दिवाकरः ।
महामाया स्वयं नाभौ मां पातु परमेश्वरी ॥ २१॥
महालक्ष्मीः पातु गुह्ये जानुनोश्च सरस्वती ।
देवीदिक्कवचं
महामाया पूर्वभागे नित्यं रक्षतु मां शुभा ॥ २२॥
अग्निज्वाला तथाग्नेय्यां पायान्नित्यं वरासिनी ।
रुद्राणी पातु मां याम्यां नैरृत्यां चण्डनायिका ॥ २३॥
उग्रचण्डा पश्चिमायां पातु नित्यं महेश्वरी ।
प्रचण्डा पातु वायव्ये कौबेर्यां घोररूपिणी ॥ २४॥
ईश्वरी च तथैशान्यां पातु नित्यं सनातनी ।
ऊर्ध्वं पातु महामाया पात्वधः परमेश्वरी ॥ २५॥
पार्श्वकवचं
अग्रतः पातु मामुग्रा पृष्ठतो वैष्णवी तथा ।
ब्रह्माणी दक्षिणे पार्श्वे नित्यं रक्षतु शोभना ॥ २६॥
माहेश्वरी वामपार्श्वे नित्यं पायाद्वृषध्वजा ।
अव्ययकवचं
कौमारी पर्वते पातु वाराही सलिले च माम् ॥ २७॥
नारसिंही दंष्ट्रिभये पातु मां विपिनेषु च ।
ऐन्द्री मां पातु चाकाशे तथा सर्वजले स्थले ॥ २८॥
सेतुः सर्वाङ्गुलीः पातु देवादिः पातु कर्णयोः ।
देवान्तश्चिबुके पातु पार्श्वयोः शक्तिपञ्चमः ॥ २९॥
षड्वर्णकवचं
हा पातु मां तथैवोर्वोर्माया रक्षतु जङ्घयोः ।
सर्वेन्द्रियाणि यः पातु रोमकूपेषु सर्वदा ॥ ३०॥
त्वचि मां वै सदा पातु मां शम्भुः पातु सर्वदा ।
नखदन्तकरोष्ठादौ रां मां पातु सदैव हि ॥ ३१॥
देवादिः पातु मां वस्तौ देवान्तः स्तनकक्षयोः ।
एतदादौ तु यः सेतुर्बाह्ये मां पातु देहतः ॥ ३२॥
अभेद्यकवचं
आज्ञाचक्रे सुषुम्नायां षट्चक्रे हृदि सन्धिषु ।
आदिषोडशचक्रे च ललाटाकाश एव च ॥ ३३॥
वैष्णवीतन्त्रमन्त्रो मां नित्यं रक्षंश्च तिष्ठतु ।
अर्णनाडीषु सर्वासु पार्श्वकक्षशिखासु च ॥ ३४॥ ३४ ॥
रुधिरस्नायुमज्जासु मस्तिष्केषु च पर्वसु ।
द्वितीयाष्टाक्षरो मन्त्रः कवचं पातु सर्वतः ॥ ३५॥
रेतो वायौ नाभिरन्ध्रे पृष्ठसन्धिषु सर्वतः ।
षडक्षरस्तृतीयोऽयं मन्त्रो मां पातु सर्वदा ॥ ३६॥
नासारन्ध्रे महामाया कण्ठरन्ध्रे तु वैष्णवी ।
सर्वसन्धिषु मां पातु दुर्गा दुर्गार्तिहारिणी ॥ ३७॥
श्रोत्रयोर्हुं फडित्येवं नित्यं रक्षतु कालिका ।
नेत्रबीजत्रयं नेत्रे सदा तिष्ठतु रक्षितुम् ॥ ३८॥
ॐ ऐं ह्रीं ह्रौं नासिकायां रक्षन्ती चास्तु चण्डिका ।
ॐ ह्रीं ह्रूं मां सदा तारा जिह्वामूले तु तिष्ठतु ॥ ३९॥
हृदि तिष्ठतु मे सेतुर्ज्ञानं रक्षितुमुत्तमम् ।
ॐ क्षौं फट् च महामाया पातु मां सर्वतः सदा ॥ ४०॥
ॐ युं सः प्राणान् कौशिकी मां प्राणान् रक्षतु रक्षिका ।
ॐ ह्रीं ह्रूं सौं भर्गदयिता देहशून्येषु पातु माम् ॥ ४१॥
ॐ नमः सदा शैलपुत्री सर्वान् रोगान् प्रमृज्यताम् ।
ॐ ह्रीं सः स्फें क्षः फडस्त्राय सिंहव्याघ्रभयाद्रणात् ॥ ४२॥
शिवदूती पातु नित्यं ह्रीं सर्वास्त्रेषु तिष्ठतु ।
ॐ ह्रां ह्रीं सश्चण्डघण्टा कर्णच्छिद्रेषु पातु माम् ॥ ४३॥
ॐ क्रीं सः कामेश्वरी कामानभितिष्ठतु रक्षतु ।
ॐ आं ह्रूं फडुग्रचण्डा रिपून् विघ्नान् विमर्दताम् ॥ ४४॥
ॐ पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः ।
ॐ श्रीं ह्रीं ह्रां ह्रं कालरात्रिः खड्गाद्रक्षतु मां सदा ॥ ४५॥
ॐ अं शूलात् पातु नित्यं वैष्णवी जगदीश्वरी ।
ॐ कं ब्रह्माणी पातु चक्रात् ॐ चं रुद्राणी तु शक्तितः ॥ ४५ ४६॥
ॐ टं कौमारी पातु वज्रात् ॐ तं वाराही तु काण्डतः ।
ॐ पं पातु नारसिंही मां क्रव्यादेभ्यस्तथास्त्रतः ॥ ४७॥
शस्त्रास्त्रेभ्यः समस्तेभ्यो यन्त्रेभ्योऽनिष्टमन्त्रतः ।
चण्डिका मां सदा पातु यं सं देव्यै नमो नमः ।
विश्वासघातकेभ्यो मामैन्द्री रक्षतु मन्मनः ॥ ४८॥
ॐ नमो महामायायै ॐ वैष्णव्यै नमो नमः ।
रक्ष मां सर्वभूतेभ्यः सर्वत्र परमेश्वरि ॥ ४९॥
आधारे वायुमार्गे हृदि कमलदले चन्द्रवत् स्मेरसूर्ये
वस्तौ वह्नौ समिद्धे विशतु वरदया मन्त्रमष्टाक्षरन्तत् ।
यद्ब्रह्मा मूर्ध्नि धत्ते हरिरवति गले चन्द्रचूडो हृदिस्थं
तं मां पातु प्रधानं निखिलमतिशयं पद्मगर्भाभबीजम् ॥ ५०॥
आद्याः शेषाः स्वरौघैर्नमयवलवरैरस्वरेणापि युक्तैः
सानुस्वाराविसर्गैर्हरिहरविदितं यत्सहस्रं च साष्टम् ।
अन्त्राणां सेतुबन्धं निवसति सततं वैष्णवीतन्त्रमन्त्रे
तन्मां पायात्पवित्रं परमपरमजं भूतलव्योमभागे ॥ ५१॥
अङ्गान्यष्टौ तथाष्टौ वसव इह तथैवाष्टमूर्तिर्दलानि
प्रोक्तान्यष्टौ तथाष्टौ मधुमतिरचिताः सिद्धयोऽष्टौ तथैव ।
अष्टावष्टाष्टसङ्ख्या जगति रतिकलाः क्षिप्रकाष्टाङ्गयोगा
मय्यष्टावक्षराणि क्षरतु न हि गणो यद्धृदो यस्त्वमूषाम् ॥ ५२॥
फलश्रुतिः
इति तत्कवचं प्रोक्तं धर्मकामार्थसाधनम् ।
इदं रहस्यं परममिदं सर्वार्थसाधकम् ॥ ५३॥
यः सकृच्छृणुयादेतत् कवचं मयकोदितम् ।
स सर्वांल्लभते कामान् परत्र शिवरूपताम् ॥ ५४॥
सकृद्यस्तु पठेदेतत् कवचं मयकोदितम् ।
स सर्वयज्ञस्य फलं लभते नात्र संशयः ॥ ५५॥
सङ्ग्रामेषु जयेच्छत्रुं मातङ्गानिव केशरी ।
दहेत्तृणं यथावह्निस्तथा शत्रुं दहेत्सदा ॥ ५६॥
नास्त्राणि तस्य शस्त्राणि शरीरे प्रविशन्ति वै ।
न तस्य जायते व्याधिर्न च दुःखं कदाचन ॥ ५७॥
गुटिकाञ्जनपातालपादलेपरसाञ्जनम् ।
उच्चाटनाद्यास्ताः सर्वाः प्रसीदन्ति च सिद्धयः ॥ ५८॥
वायोरिव गतिस्तस्य भवेदन्यैरवारिता ।
दीर्घायुः कामभोगी च धनवानभिजायते ॥ ५९॥
अष्टम्यां संयतो भूत्वा नवम्यां विधिवच्छिवाम् ।
पूजयित्वा विधानेन विचिन्त्य मनमा शिवाम् ॥ ६०॥
यो न्यसेत् कवचं देहे तस्य पुण्यफलं शृणु ।
जितव्याधिः शतायुश्च रूपवान् गुणवान् सदा ॥ ६१॥
धनरत्नौघसम्पूर्णो विद्यावान् स च जायते ।
नाग्निर्दहति तत्कायं नापः सङ्क्लेदयन्ति च ॥ ६२॥
न शोषयति तं वायुरव्यात् तं न हिनस्ति च ।
शस्त्राणि नैनं छिन्दन्ति न तापयति भास्करः ॥ ६३॥
न तस्य जायते विघ्नो नास्ति तस्य च सञ्ज्वरः ।
वेतालाश्च पिशाचाश्च राक्षसा गणनायकाः ॥ ६४॥
सर्वे तस्य वशं यान्ति भूतग्रामाश्चतुर्विधाः ।
नित्यं पठति यो भक्त्या कवचं हरिनिर्मितम् ॥ ६५॥
सोऽहमेव महादेवो महामाया च मातृका ।
धर्मार्थकाममोक्षाश्च तस्य नित्यं करे स्थिताः ॥ ६६॥
अन्यस्य वरदः सोऽर्थैर्नित्यं भवति पण्डितः ।
कवित्वं सत्यवादित्वं सततं तस्य जायते ॥ ६७॥
वदेच्छ्लोकसहस्राणि भवेच्छ्रुतिधरस्तथा ।
लिखितं यस्य गेहे तु कवचं भैरव स्थितम् ॥ ६८॥
न तस्य दुर्गतिः क्वापि जायते तस्य दूषणम् ।
ग्रहाश्च सर्वे तुष्यन्ति वशं गच्छन्ति भूमिपाः ॥ ६९॥
यद्राज्ये कवचज्ञोऽस्ति जायन्ते तत्र नेतयः ।
सेतुर्देवः शक्तिबीजं पञ्चमोहाय ते नमः ॥ ७०॥
वायुर्बलेन चैतायै द्वितीयाष्टाक्षरं त्विदम् ।
सेतुर्देवोऽथ वैष्णव्यै षडक्षरमिदं स्मृतम् ॥ ७१॥
एतद्द्वयं तु जिह्वाग्रे सततं यस्य वर्तते ।
तस्य देवी महामाया काये तिष्ठति वै सदा ॥ ७२॥
मन्त्राणां प्रणवः सेतुस्तत्सेतुः प्रणवः स्मृतः ।
क्षरत्यनोङ्कृतः पूर्वं परस्ताच्च विशीर्यते ॥ ७३॥
नमस्कारो महामन्त्रो देव इत्युच्यते सुरैः ।
द्विजातीनामयं मन्त्रः शूद्राणां सर्वकर्मणि ॥ ७४॥
अकार चात्युकारं च मकारं च प्रजापतिः ।
वेदत्रयात्समुद्धृत्य प्रणवं निर्ममे पुरा ॥ ७५॥
स उदात्तो द्विजातीनां राज्ञां स्यादनुदात्तकः ।
प्रचितश्चोरुजातानां मनसापि तथा स्मरेत् ॥ ७६॥
चतुर्दशस्वरो योऽसौ शेष औकारसंज्ञकः ।
स चानुस्वारचन्द्राभ्यां शूद्राणां सेतुरुच्यते ॥ ७७॥
निःसेतु च यथा तोयं क्षणान्निम्नं प्रसर्पति ।
मन्त्रस्तथैव निःसेतुः क्षणात् क्षरति यज्वनाम् ॥ ७८॥
तस्मात् सर्वत्र मन्त्रेषु चतुर्वर्णा द्विजातयः ।
पार्श्वयोः सेतुमादाय जतकर्मसमारभेत् ॥ ७९॥
शूद्राणामादिसेतुर्वा द्विःसेतुर्वा यथेच्छतः ।
द्विःसेतवः समाख्याताः सर्वदैव द्विजातयः ॥ ८०॥
और्व उवाच
एतत् ते सर्वमाख्यातं कवचं त्र्यम्बकोदितम् ।
अभेद्यं कवचं तत्तु कवचाष्टकमुत्तमम् ॥ ८१॥
महामायामन्त्रकल्पं कवचं यन्त्रसंयुतम् ।
षडक्षरसमायुक्तं त्रिषु लोकेषु दुर्लभम् ॥ ८२॥
एतत् त्वं नृपशार्दूल नित्यभक्तियुतः पठन् ।
जपन् मन्त्रं च वैष्णव्याः सर्वसिद्धिमवाप्स्यसि ॥ ८३॥
इति कालिकापुराणे षट्पञ्चाशोऽध्यायान्तर्गता
शिवप्रोक्ता अष्टकवचानि समाप्ता ।
Proofread by PSA Easwaran