अष्टमहिषीप्रार्थनाशतकम्

अष्टमहिषीप्रार्थनाशतकम्

श्रीवेङ्कटेशदारा धीरा क्षेमस्य मे सदाधारा । करुणावनसञ्चारा तारासङ्काशरत्नमयहारा ॥ १॥ नारायणवनजनिता नारी नारायणस्य मे माता । पारायणार्हचरिता त्राता पीताम्बरेण चायाता ॥ २॥ मातर्भूमेर्यातः प्रातः सायं नमामि तव पोतः । निहितं तव पदि चेतः कातः परमवितुमस्ति मां मातः ॥ ३॥ लसनप्रसूनवेषे प्रसु मे वसु मेऽद्य देहि हरियोषे । कुसुमैराभ्यां भाषे प्रासूयामां मनः स्वसन्तोषे ॥ ४॥ काञ्चीलाञ्छितदेवीं काञ्चनदेवीं च वरदवशनीवीम् । वन्दे महतीं देवीं चन्द्रां दन्तावलाद्रिसुखपृथिवीम् ॥ ५॥ माधवसाप्तपदीने मामव गतिनिर्जितेभवति यूने । नवनवभवनविधाने भव भव नित्यं मदीयहृत्स्थाने ॥ ६॥ सज्जनरक्षणधन्यां मान्यां मन्ये सरित्पतेः कन्याम् । मेदिन्यां कामिन्यां गुण्यां गणयेय भूरि सुधरिण्याम् ॥ ७॥ करुणामधुमयचरणामरुणामरुणान्ववायपरिचरणाम् । करुणाविवृताभरणां सुगुणाभरणां भजामि हरिशरणाम् ॥ ८॥ मज्जनयित्रीं धात्रीं सज्जनपात्रीं सुदीर्घझषनेत्रीम् । भेजे प्रसूनगात्रीं दात्रीं पात्रीं नतस्य हरिमैत्रीम् ॥ ९॥ लक्ष्मीमक्षयसदयां सार्द्रसुहृदयां समुद्रहिततनयाम् । आश्रितरक्षणविजयामाजानीयास्यहृदयशुभनिलयाम् ॥ १०॥ अम्बां कचलोलम्बां कम्बुग्रीवां प्रसन्नमुखबिम्बाम् । पदगतिजितकादम्बामम्बुजवल्लीं नमामि लोकाम्बाम् ॥ ११॥ सीतास्माकं माता साकेताधीश्वरीष्टिभूजाता । पीताम्बरपरिणीता त्राता पूताखिलेभ्य इति गीता ॥ १२॥ हरिपरिचर्याप्रीता भूतत्रातार्चितेति कविगीता । तातोपमिता माता त्राता शाताङ्गिनीह मां सीता ॥ १३॥ सेवितदनुजत्रिजटा पालितनिश्रीकगर्गरत्रिजटा । स्ववशीकृनपीतपटा प्रतिभटहरिणाय चास्तु हरिवेला ॥ १४॥ भाषाविनुतविशेषा भाषापतिशेषविनुतपरिभाषा । भूषाभिलषितभूषा भूषा भूषायमानवपुषास्तु ॥ १५॥ घटिकाद्रिकुशलपेटी सज्जनसन्त्राणसक्तपरिपाटी । विलसितकाञ्चनशाटी पातु रतिभीष्टिदीनजनकोटीः ॥ १६॥ वैदेहि देहि वित्तं श्रीदे पादे ह लग्नमथ चित्तम् । कुर्यामार्यावृत्तं धार्यं नित्यं करोमि तव वृत्तम् ॥ १७॥ करललितकमलयुगला करिकरचामरसुजातमृद्वनिला । त्वरमभयं मे कमला कुरुताज्जननी करेण हरिमहिला ॥ १८॥ नामाचललक्ष्मि रमे मायैवाचल ....स्वलोभमये । आश्रितरक्षाकामे स्वात्मजयुगलं च देहि हरिमामे ॥ १९॥ उपमानामुपमैषा भूषा भूषासु भासु मञ्जूषा । स्ववशीकृतादिपुरुषा सविशेषा पातुमस्तु हरियोषा ॥ २०॥ अबलानां प्रबलासौ स्त्रीषु श्रीरुत्तमा च वामानाम् । रामाभिरामरामा शान्ता कान्तासु कोपनास्वेषा ॥ २१॥ सर्वदसर्वद ....श्रीः श्रीदा श्रीदार्चिताब्जमयपादा । कृतजीवेश्वरभेदा निर्भेदानन्दबोधनानन्दा ॥ २२॥ आत्मोपमानरहिता सहिता श्रीवत्सकौस्तुभाभरणैः । हरिमध्या हरिवत्सा हरिपीठालङ्कृतास्तु हरिवाणी ॥ २३॥ अस्माकं या माता सा भवति पितामहस्य चित्रं तत् । गङ्गातनयोपास्या गङ्गाजननी हि गीतगाङ्गेया ॥ २४॥ हरिवत्सप्रासादा हरिवत्सप्रसादबहुलसम्मोदा ! करिवत्साञ्चितगमना करिवत्साञ्चितपदास्तु मे वरदा ॥ २५॥ शिरसादृतनारतता चरणादृतनारदादिमुनिजनता । वचसादृतशुककलिता पदपालित ....शुकास्तु मे माता ॥ २६॥ गन्धर्वपूर्वललिता गन्धर्वैः किन्नरैश्च बहुविनुता । गन्धर्ववक्त्रविनुता गन्धद्वारा च पातु मां माता ॥ २७॥ श्रीशुकनगरविशेषे नाशितदारिद्र्यदुःखबहुदोषे । श्रीश्रीनिवासभूषे स्वाशां मे पूरयस्व हरियोषे ॥ २८॥ दशशतकमलविकासे दिशि दिशि मातर्धनानि दातासे । मम हृदयगृहनिवासे शिथिला भूय .... मद्वासे ॥ २९॥ विज्ञानाख्यो मनुते पूर्वो हरिरेव चेति भूदेवी । श्रियमथ विद्वानार्यः सादरमार्यां प्रवति पूर्वे त्वाम् ॥ ३०॥ पूर्णिमया चामायाः भासश्चित्रं तिथिद्वयं त्वयि वै । शिरसः परतो दर्शः तत्परतस्ते सुपूर्णिमेन्द्वास्ये ॥ ३१॥ चन्द्रादमृतं पिप्सुः राहुस्तं चाक्रमच्च चाहस्ये । मुखदृग्भूषाचन्द्रः बद्ध्वा तं चापहन्ति गिरिमध्ये ॥ ३२॥ नयनं सुदर्शनं ते शाङ्खः कण्ठः फणी च तव वेणी । परमं पदयुगलं ते याने चरणे च पक्षिराजोऽस्ति ॥ ३३॥ नयनं सुभरद्वाजो धम्मिल्लो नारदश्च तव मातः । शुकवदमोदाशीते नानारत्ने मरीचिरपि देवी ॥ ३४॥ अवने शक्तिश्चास्ते वक्षोजो कुम्भसम्भवो मातः । वल्मीकिनिभो नाभिः व्यासोऽर्भक एव नित्यमा स्थाने ॥ ३५॥ तदिदं चित्रं मातः काञ्च्यान्तस्तेत्य हो बिलं चेति । नेदं पुत्रकचित्रं हरिरुभयत्रापि तत्र सर्वे स्यात् ॥ ३६॥ काञ्चीकुचकैलासो मातः शून्यं तवान्तरतिहासः । कैलासावपि काञ्चीं न विशति चेत्तं च तेऽन्तरधिकोऽयम् ॥ ३७॥ हरिकरकमलविलासे तव कुचसूर्यो हि देवि सुचकासे । हरिनयनपद्मभासे तव मुखचन्द्रं प्रकाशयत्यासे ॥ ३८॥ डोलीकृतवनमाला मालीकृतविधिवशाण्डमणियुगला । युगलीकृतहरिलीला बाला सिन्धोः प्रभातु करकमला ॥ ३९॥ पादग्रहणात् तातोऽमोदत चास्माकमम्व बहुधाप्तः । गृह्णाम्यङ्घ्री पूर्णं तूर्णं मां मोदयस्व हरिगृहिणि ॥ ४०॥ कृष्णः कचमारोऽधान्नयते मीनौ तवाद्य भासेते । हरिरम्ब मध्यमस्ते देवोऽङ्गी सम्बभूव चाङ्गानि ॥ ४१॥ तव चरणमीक्ष्य तारा अवदधुरनिशं सरोरुहाकारे । अवलोकय नयनमिन्दुः तरणिं पर्यभवच्च कुमुदाक्षि ॥ ४२॥ नीचैर्वासविनिदां मोक्तुं दिङ्नागनागङ्कावद्य । नाभेरुच्चैर्मातः भातः कुचयोश्च रोमराज्यां ते ॥ ४३॥ त्वामाश्रित्य विशेषः रोम्णा राज्यां विभाति सविशेषः । इति वासुकिरपि चान्यो वेणीं शिश्राय नान्यवर्धिष्णुः ॥ ४४॥ आकाशे काञ्च्यैका तस्यां हरिरम्ब योगिसन्दृश्यः । मातर्धत्ते स हरिः गिरिमहिमिभमिन्दुमर्कमभ्रादीन् ॥ ४५॥ कुचयुगमस्तकमञ्चे दृष्ट्वा रोषातुरोऽपि हर्यक्षः । निजगणनामतिहीनो सन्निधिमाहात्म्यतो हितेऽभूत् सः ॥ ४६॥ एकत्र च तरणीन्दू भूते नामा तथापि हरिगृहिणि । एकत्र राहुचन्द्रावुपरागो नैव चानुरागोऽभूत् ॥ ४७॥ कमले चन्द्रोत्पत्तिः चन्द्रादुच्चैश्च भाति चन्द्रोऽन्यः । चन्द्रद्वयभीतः सन् राहुर्नीचैः प्रयाति पश्चान्मे ॥ ४८॥ तव भुजगविहगराजौ शयने याने सदा प्रथाभाजौ । भवतां स तयोर्मातः शेषो वेषे विशेषभाषासीत् ॥ ४९॥ धन्यं कुरु मां मान्ये धन्येवासे समुद्रहितकन्ये । मान्ये लोकवरेण्ये धन्याय त्वां धिनायकां मन्ये ॥ ५०॥ हरिनखभीतौ करिणावन्तर्ध्यायेव कञ्चुके त्रासि । जननीवैरिरिरक्षा पत्या घृणया बभूव किं पद्मे ॥ ५१॥ शिवपदयुगलाच्छ्रेष्ठं विधिपददशकं च मातरालेषु । बहुधनदपुराण्यन्ये विष्णोः पदमेकमेव पतिवत्ते ॥ ५२॥ उपनयनं तव भक्तिः उपदेष्टा तव पतिश्च मे मातः । उपदिष्टं नाम च ते भवति सुभिक्षां प्रदेहि वैदेहि ॥ ५३॥ तव भक्त्या मन्तूक्तिः भवतु च मातस्त्वयैव किल भुक्तिः । गेहे मुख्या गृहिणी विख्यातिश्चास्य एव गृहमुख्यः ॥ ५४॥ मातः सागरकन्ये तव ननु वक्त्रं सुधांशुरिति मन्ये । सत्यस्त्वेषस्तर्कः नो चेत् का स्यात् विधावलोकेच्छा ॥ ५५॥ तव सन्निधिमाहात्म्याद्वेष्यो न त्विष्ट एव ते देवि । नयनाब्जे मुखचन्द्रे सिंहादुच्चैः प्रभात इव मस्तौ ॥ ५६॥ मातस्तव माहात्म्यादुच्चैर्नीचैश्च भासमानेभौ । विक्रान्तौ तौ दृष्ट्वा मृगपतिमृग्यः स एव मूढोऽभूत् ॥ ५७॥ कान्तस्ते परमात्मानन्तस्तल्पस्त्रयीमयो यानम् । अमरा नित्या भृत्याः सत्यं पुत्रोऽस्मि यवनिका माया ॥ ५८॥ जक्षत् क्रीडन् श्रुत्या रक्षितुमेवाम्ब रहसि कान्तेन । जित्वा पुरुषं स्ववशं कृत्वा नस्तेन पालयसि चाम्ब ॥ ५९॥ सपदि जटायोर्मोक्षः त्वत्तः पत्युः सुकन्धरे पक्षः । सा मापितरि कटाक्षः त्वत्तो भर्ता बभूव बहुदक्षः ॥ ६०॥ वीरः किल तव भर्ता विश्वस्मिन् यत्र यत्र यातासे । वारः किल तव पाता चिन्ता नारायणे हि किमु न स्यात् ॥ ६१॥ श्यामा वा हरिणी त्वं ह्यचलातनयापि चञ्चलासि त्वम् । जननी मारस्य स्याः सुकुमारेभ्यश्च नौमि मातस्त्वाम् ॥ ६२॥ कविजननुतचरणा वा गुरुजननुतपादुकैव मे मातः । पुण्यजनैर्नृतचरिता पुण्यजनध्वंसिनीह भूर्मातः ॥ ६३॥ अलकालङ्कृतवदना ह्यलकेशालङ्कृताब्जमृदुचरणा पुलकाङ्कितसंहनना फलकालं नित्यमेव कुरुतां मे ॥ ६४॥ शतधृतिशतमतिविनुते शतमखमुखविनुतललितबहुवसते । अतुलितशतकृतिफलिते गतिरिह भवतीति मे मनो मनुते ॥ ६५॥ श्रीशैलजघनभागा श्रीरेफालङ्कृतोत्तमाङ्गा हि । अस्ताचलमध्यस्था चक्षोः सौदर्शनास्तु मां पातुम् ॥ ६६॥ हरिवत्सेच्छा वा स्यात् करिवत्सेच्छेति देवि कविगीते । हरिवत्सेच्छा वा स्यात् मां करिवरदो यथा तथा पाहि ॥ ६७॥ रिपुशरपीडां भर्तुः वारितुमेवास उरसि तत्पूर्वा । मम पुत्रस्य हि महिते पूर्वस्था वारयाम्ब वर .... ॥ ६८॥ एकस्यां व्यक्तौ ते बहुवचनं नित्यपुंस्त्वमासाते । स्वातन्त्र्यं बहुतत्त्वे किं न स्यान्ननु न युज्यते हरिदाराः ॥ ६९॥ को वा का वा पुरतः न वदति तव नाम न स्मरत्यम्ब । सर्वत्र च भवदीयं शिरसा नतिरस्ति कुत्र वा देवि ॥ ७०॥ इभ्यं सभ्यं कुरु मामद्भिः प्रक्षालयामि तव पादौ । लभ्यं कुरु मे सौख्यं विख्याते दीनपोषणे देवि ॥ ७१॥ पूर्वं वित्तं दत्त्वा पूजां तेनैव कारयस्वाम्ब । धनसुतहितभूलाभं दत्त्वैवाग्रे विधेहि तव भक्तम् ॥ ७२॥ तव चरितं मम विहितं सुकृताल्लब्धं हि मातराढ्यासि । मूढं श्रीदं कुरु मां बाढं करवाणि तेऽद्य परिचर्याम् ॥ ७३॥ विधिना ममैव सिद्धिः यदि ते कृपया किमस्ति मे मातः । तव वा तव पत्युर्वा स्वातन्त्र्येणैकमेकमैश्वर्यात् ॥ ७४॥ पृथुका दत्तकुचेलाः रुच्याः के ते च पत्युरपि चास्याः । तस्मादिव मत्तस्त्वं किं वा नाभ्यवजहश्च मातस्त्वम् ॥ ७५॥ आराद्धासि च येन प्रथमः पैतामहश्च मुनिराट् सः । तं भारद्वाजं वा बहुमानेनावलोक्य मां पाहि ॥ ७६॥ पापादिवध्यविषये करुणा कार्या नु तेऽतिमृदुवचनम् । ऊचिथ मारुतये त्वं व्यस्मार्षीः किं तदुक्तमधिकं मे ॥ ७७॥ प्रत्यक्षं कार्यं मे दातुं शक्नोषि न यदि मे मातः । मोक्षं वा दाता चेत् करुणाजनिता तवेति मन्वीय ॥ ७८॥ नार्थीतुमपि शक्नोमि स्मर्तुं स्तोतुं च नाहाण् इह भवतीम् । पूर्णां भुक्तिं शक्तिं दत्त्वासक्तिं च देहि पदभक्तिम् ॥ ७९॥ निद्रालुर्जनको मे ग्रहयालुर्मयि सदा स्वपतयालुः । स्पृहयालुः श्रद्धालुः मद्रक्षायै सदापि भव मातः ॥ ८०॥ ध्यायेमहि महियातः यातः पूर्वं परं च जननीं त्वाम् । पूयेमहि वयमधुना गेयेऽमेये त्वदीयभजनेन ॥ ८१॥ दित्सादित्साकुत्सैः कुत्सितबेरैः कुमारजननीभिः । उत्सवहीनैः किं वा चोत्साहय मेऽद्य किं चान्यैः ॥ ८२॥ प्रत्यक्षमात्रवार्ते चार्वाके मध्यगोद्यदास्तिक्यम् । त्वमपि च न प्रत्यक्षः वक्ति हरिस्त्वयि तथा हि सिद्धान्ते ॥ ८३॥ अद्वैतान्वारम्भौ ववृधाते तव कुचौ च हे मातः । सिद्धान्ते द्वैतविधौ सूत्राण्यवलोक्य तत् तथाभूताम् ॥ ८४॥ कमलं विकासयेद्यो ह्यर्कं तं तर्कयन्ति तर्कज्ञाः । गुरुकुचक्रमलेन च ते हरिनेत्रार्के विकास ऊहैः किम् ॥ ८५॥ पादस्त्रयीमयस्ते वेदाः कामाश्रयन्ति मे मातः । भर्ता त्रिविक्रमस्ते स जटी वा स्याद्धनाश्च ते केशाः ॥ ८६॥ कति कवयः कति गुरवः कति मन्दाः कति बुधाश्च राजानः । कति भीमा अदितिसुताः शिश्रूयूरङ्घ्रि .... गणकैः का ॥ ८७॥ सगुणं निर्गुणमिति वा तव वाचा निश्चिनोमि भो मातः । वाग्भिः किं पुत्रक मे जनकं कान्तं च पश्य सुगुणं मे ॥ ८८॥ आरोग्यकारिणि ....स्वोषधिनाथाः कटाक्षकामास्ते । अमृताब्धेस्त्वां तनयां लब्ध्वा किं ....जाता ॥ ८९॥ अनिलजनुतपदकमलां सलिलधि ...aर्यबलाम् । करुणातरङ्गशालां काञ्चनमहिलां कटाक्षसुविशालाम् ॥ १०॥ गजराजराजिललितामजशतसुतहेमपादुकाम्भोजाम् । सज्जन कृतबहुपूजां वाजिग्रीवप्रभातमुखभाजाम् ॥ ९१॥ अर्जुनसारथिमहिषी दुर्जन निर्मूलनेऽस्तु विदितकृषिः । सज्जनपालनविदुषी निर्जरदेवी च निगममञ्जूषा ॥ ९२॥ आकाशराजतनये चाकाशाकारमध्यमप्रलये । पाकारीडितनिलये मातस्त्वां नौमि देहि सन्ततये ॥ ९३॥ अनुभुक्तमालिकादौ श्रीदा मातावनेऽस्तु मे गोदा । धनुनगरसुप्रसादा हेमन्तव्रततिशेषसम्मोदा ॥ ९४॥ शार्ङ्गकरकल्पवल्लीं कोमलवल्लीं भजे सुधावल्लीम् । शार्ङ्गश्रीभ्रूवल्लीं स्तौमि च नित्यं प्रमाणपदवल्लीम् ॥ ९५॥ आश्रिततापद्रवितां राघववनितां नमामि मृदुकलताम् । आश्रितशीर्षाभरणां नायकमणिभामतुल्यदिव्याङ्गीम् ॥ ९६॥ अरणीतटिनीतोषा धरणीदेवी कुमारिकावेषा । करिणी पुष्करिणीशा जननी मां पातु भूरिहरियोषा ॥ ९७॥ मामपि कुरु तव तनयं त्वामथ तत्त्वेन नौम्यहं सनयम् । यामि च कृपया विजयं भूमिसुते देहि भद्रसमुदायम् ॥ १८॥ पवनजपूजालोलामवनिजनत्राणविहितहरिलीलाम् । दुर्भूतदमनकालाममृतां वल्लीं भजामि मणिमालाम् ॥ ९९॥ प्रणमति कस्तव पादं धनपतिरपि भवति देवि निष्खेदम् । प्रपठति कस्तव वेदं स भवति भुवि याति मातरामोदम् ॥ १००॥ आत्रेयगोत्रजनिना कथितं रामानुजार्यविदुषेदम् । अङ्गीकुर्वन्त्वार्याः कृपया श्रीवेङ्कटेशदाराश्च ॥ १०१॥ इति रामानुजार्यकृतं श्री अष्टमहिषीप्रार्थनाशतकं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (८१) The Ashtamahishaprarthanashataka (81) by Ramanujarya, in one hundred Arya verses extols the consort of Lord Visnu worshipped in different forms in different sacred shrines such as Tirupati, Kanchipuram, Srimushnam, Sholinghur, Namakkal, Tiruvellikkeni (Triplicane in Madras), Srivilliputtur and Kumbakonam. Proofread by Rajesh Thyagarajan
% Text title            : Ashtamahishi Prarthana Shatakam
% File name             : aShTamahiShIprArthanAshatakam.itx
% itxtitle              : aShTamahiShIprArthanAshatakam (rAmAnujAryakRitaM)
% engtitle              : aShTamahiShIprArthanAshatakam
% Category              : devii, shataka
% Location              : doc_devii
% Sublocation           : devii
% Author                : rAmAnujArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org