देवैः कृता अन्तर्मायास्तुतिः

देवैः कृता अन्तर्मायास्तुतिः

देवा ऊचुः - श्रीशक्तिः पावनी तान्तु पुष्टिं परमनिष्कलाम् । वयं स्तुमो महाभक्त्या महदव्यक्तरूपिणीम् ॥ ९॥ शिवां शिवकरीं शुद्धां स्थूलां सूक्ष्मां परावराम् । अन्तर्विद्यामविद्याख्यां प्रीतिमेकाग्रयोगनीम् ॥ १०॥ त्वं मेधा त्वं धृतिस्त्वं ह्रीस्त्वमेका सर्वगोचरा । त्वं दीधितिः सूर्यगता सुप्रपञ्चप्रकाशिनी ॥ ११॥ या तु ब्रह्माण्डसंस्थानं जगद्बीजेषु या जगत् । आप्याययति ब्रह्मादींस्तम्बान्तान् या त्वमापगा ॥ १२॥ य एकः सर्वजगतां प्राणभूतः सदागतिः । देवानाञ्च य आधारः स नभस्वांस्तवांशकः ॥ १३॥ एवं विसारि यत्तेजः सर्वत्रैव समिध्यते । तत्ते रूपं जगद्बीजं बहुधा यच्च दृश्यते ॥ १४॥ या ब्रह्मलोकपातालसान्तरालगता सदा । सा त्वं वियन्मध्यबहिर्ब्रह्माण्डस्य च सर्वतः ॥ १५॥ अचलाचलचक्रेण यन्त्रिता या प्रपञ्चसूः । जगद्धात्री लोकमाता सा च त्वं माधवी क्षितिः ॥ १६॥ त्वं बुद्धिस्त्वं तद्विषया त्वं माता छन्दसां गतिः । गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती ॥ १७॥ त्वं माता सर्वजगतां त्वं त्रयी कामरूपिणी । त्वं हि निद्रास्वरूपेण प्राणिनो निर्जरादयः । ये स्वर्गाद्योकसः सर्वान् सुखयन्ती प्रमोहसि ॥ १८॥ त्वं लक्ष्मीः पुण्यकर्त्रीणां पापिनां त्वं हि यातना । तथा नीतिभृतां श्रीश्च सुखदानैशिकी धृतिः ॥ १९॥ त्वं शान्तिः सर्वजगतां त्वं कान्तिश्चन्द्रगोचरा । त्वं धात्री सर्वभूतानां लक्ष्मीस्त्वं विष्णुमोहिनी ॥ २०॥ त्वं तत्त्वरूपा भूतानां पञ्चानामपि सारकृत् । त्वं त्रिलोकी महामाया त्वं नीतिर्मोहकारिणी ॥ २१॥ संसारचक्रेष्वारोप्य सर्वभूतं महेश्वरः । भ्रामयन्नस्ति च यथा सा त्वं माया महेश्वरि ॥ २२॥ जयन्ती जययुक्तानां ह्रीर्विद्या नीतिरुत्तमा । गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ॥ २३॥ समस्तगीर्वाणगणस्य शक्तिस्तमोमयी सत्त्वगुणैकदृश्या । रजःप्रपञ्चानुभवैककारिणी या न स्तुता भव्यकरीह सास्तु ॥ २४॥ संसारसागरकरालतरङ्गदुःखनिस्तारकारितरणिश्चितिरीतिहीना । याष्टाङ्गरूपपरपावनकेलिगीतविक्षेपकारिणी गिरौ प्रणनाम तां वै ॥ २५॥ नासाक्षिवक्त्रभुजवक्षसि मानसे च धृत्वा सुखानि विदधाति सदैव जन्तोः । निद्रेति याति सुभगा जगतीभवानां सा नः प्रसीदतु धृतिस्मृतिवृत्तिरूपा ॥ २६॥ सृष्टिस्थित्यन्तरूपा या सृष्टिस्थित्यन्तकारिणी । सृष्टिस्थित्यन्तशक्तिर्या सा माया नः प्रसीदतु ॥ २७॥ इति कालिकापुराणे चतुर्विंशाध्यायान्तर्गता देवैः कृता अन्तर्मायास्तुतिः समाप्ता । Proofread by PSA Easwaran
% Text title            : Devaih Krita Antarmaya Stuti
% File name             : antarmAyAstutiHdevaiHkRRitA.itx
% itxtitle              : antarmAyAstutiH devaiH kRitA (kAlikApurANAntargatA)
% engtitle              : antarmAyAstutiH devaiH kRitA
% Category              : devii, stuti
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Kalikapurana Adhyaya 24 shloka 9-27
% Indexextra            : (Parts 1, 2)
% Latest update         : January 15, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org