श्रीबालामकरन्दस्तवः

श्रीबालामकरन्दस्तवः

श्रीरुद्र उवाच- श‍ृणु देवि प्रवक्ष्यामि मकरन्दस्तवं शुभम् । गोप्याद्गोप्यतरं गोप्यं महाकौतूहलं परम् ॥ १॥ बालायाः परमेशान्याः स्तोत्रचूडामणिः शिवे । मकरन्दस्य स्तोत्रस्य ऋषिर्नारदसंज्ञकः ॥ २॥ छन्दोऽनुष्टुपुदाख्यातं श्रीबाला देवता स्मृता । ऐं बीजं शक्तिः सौः प्रोक्तं कीलकं क्लीं तथैव च ॥ ३॥ भोगमोक्षस्य सिद्ध्यर्थे विनियोगः प्रकीर्तितः । नमस्तेऽस्तु परां शक्तिं नमस्ते भक्तवत्सले ॥ ४॥ नमस्तेऽस्तु गुणातीतां बालां सिद्धिप्रदाम्बिकाम् । भवदुःखाब्धितरणीं परं निर्वाणदायिनीम् ॥ ५॥ धनदां ज्ञानदां सत्यां श्रीबालां प्रणमाम्यहम् । सिद्धिप्रदां ज्ञानरूपां चतुर्वर्गफलप्रदाम् ॥ ६॥ आधिव्याधिहरां वन्दे श्रीबालां परमेश्वरीम् । ऐङ्काररूपिणीं भद्रां क्लीङ्कारगुणसम्भवाम् ॥ ७॥ सौःकाररूपरूपेशीं बालां बालार्कसन्निभाम् । ऊर्ध्वाम्नायेश्वरीं देवीं रक्तां रक्तविलेपनाम् ॥ ८॥ रक्तवस्त्रधरां सौम्यां श्रीबालां प्रणमाम्यहम् । राजराजेश्वरीं देवीं रजोगुणात्मिकां भजे ॥ ९॥ ब्रह्मविद्यां महामायां त्रिगुणात्मकरूपिणीम् । पञ्चप्रेतासनस्थां च पञ्चमाकारभक्षकाम् ॥ १०॥ पञ्चभूतात्मिकां चैव नमस्ते करुणामयीम् । सर्वदुःखहरां दिव्यां सर्वसौख्यप्रदायिनीम् ॥ ११॥ सिद्धिदां मोक्षदां भद्रां श्रीबालां भावयाम्यहम् । नमस्तस्यै महादेव्यै देवदेवेश्वरि परे ॥ १२॥ सर्वोपद्रवनाशिन्यै बालायै सततं नमः । गुह्याद्गुह्यतरां गुप्तां गुह्येशीं देवपूजिताम् ॥ १३॥ हरमौलिस्थितां देवीं बालां वाक्सिद्धिदां शिवाम् । व्रणहां सोमतिलकां सोमपानरतां पराम् ॥ १४॥ सोमसूर्याग्निनेत्रां च वन्देऽहं हरवल्लभाम् । अचिन्त्याकाररूपाख्यां ओङ्काराक्षरूपिणीम् ॥ १५॥ त्रिकालसन्ध्यारूपाख्यां भजामि भक्ततारिणीम् । कीर्तिदां योगदां रादां सौख्यनिर्वाणदां तथा ॥ १६॥ मन्त्रसिद्धिप्रदामीडे सृष्टिस्थित्यन्तकारिणीम् । नमस्तुभ्यं जगद्धात्रि जगत्तारिणि चाम्बिके ॥ १७॥ सर्ववृद्धिप्रदे देवि श्रीविद्यायै नमोऽस्तु ते । दयारूप्यै नमस्तेऽस्तु कृपारूप्यै नमोऽस्तु ते ॥ १८॥ शान्तिरूप्यै नमस्तेऽस्तु धर्मरूप्यै नमो नमः । पूर्णब्रह्मस्वरूपिण्यै नमस्तेऽस्तु नमो नमः ॥ १९॥ ज्ञानार्णवायै सर्वायै नमस्तेऽस्तु नमो नमः । पूतात्मायै परात्मायै महात्मायै नमो नमः ॥ २०॥ आधारकुण्डलीदेव्यै भूयो भूयो नमाम्यहम् । षट्चक्रभेदिनी पूर्णा षडाम्नायेश्वरी परा ॥ २१॥ परापरात्मिका सिद्धा श्रीबाला श्ररणं मम । इदं श्रीमकरन्दाख्यं स्तोत्रं सर्वागमोक्तकम् ॥ २२॥ स्तोत्रराजमिदं देवि धारय त्वं कुलेश्वरि । पुण्यं यशस्यमायुष्यं देवानामपि दुर्लभम् । पाठमात्रेण देवेशि सर्वारिष्टं विनश्यति ॥ २३॥ इति रुद्रयामलतः श्रीबालामकरन्दस्तवः सम्पूर्णः । Proofread by PSA Easwaran
% Text title            : Shri Bala Makaranda Stava
% File name             : bAlAmakarandastavaH.itx
% itxtitle              : bAlAmakarandastavaH (rudrayAmalAntargataH)
% engtitle              : bAlAmakarandastavaH
% Category              : devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH, rudrayAmala
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org