श्रीबालात्रैलोक्यविजयकवचम्

श्रीबालात्रैलोक्यविजयकवचम्

श्रीभैरव उवाच- अधुना ते प्रवक्ष्यामि कवचं मन्त्रविग्रहम् । त्रैलोक्यविजयं नाम रहस्यं देवद्रुलभम् ॥ १॥ श्रीदेव्युवाच- या देवी त्र्यक्षरी बाला चित्कला श्रीसरस्वती । महाविद्येश्वरी नित्या महात्रिपुरसुन्दरी ॥ २॥ तस्याः कवचमीशान मन्त्रगर्भं परात्मकम् । त्रैलोक्यविजयं नाम श्रोतुमिच्छामि तत्त्वतः ॥ ३॥ श्रीभैरव उवाच- देवदेवि महादेवि बालाकवचमुत्तमम् । मन्त्रगर्भं परं तत्त्वं लक्ष्मीसंवर्धनं महत् (परम्) ॥ ४॥ सर्वस्वं मे रहस्यं तु गुह्यं त्रिदशगोपितम् । प्रवक्ष्यामि तव स्नेहान्नाख्येयं यस्य कस्यचित् ॥ ५॥ (यद्धृत्वा कवचं देव्या मातृकाक्षरमण्डितम् । नारायणोऽपि दैत्येन्द्रान् जघान रणमण्डले ॥ ६॥ त्र्यम्बकः कामदेवं च बलं शक्रो जघान हि । कुमारस्तारकं दैत्यमन्धकं चन्द्रशेखरः ॥ ७॥ अवधीद्रावणं रामो वातापिं कुम्भसम्भवः । कवचस्यास्य देवेशि धारणात्पठनादपि ॥ ८॥ स्रष्टा प्रजापतिर्ब्रह्मा विष्णुस्त्रैलोक्यपालकः । शिवोऽणिमादिसिद्धीशो मघवान् देवनायकः ॥ ९॥ सूर्यस्तेजोनिधिर्देवि चन्द्रस्ताराधिपः स्थितः । वह्निर्महोर्मिनिलयो वरुणोऽपि दिशां पतिः ॥ १०॥ समीरो बलवांल्लोके यमो धर्मनिधिः स्मृतः । कुबेरो निधिनाथोऽस्ति नैरृतिः सर्वराक्षसान् ॥ ११॥ ईश्वरः शङ्करो रुद्रो देवि रत्नाकरोऽम्बुधिः । अस्य स्मरणमात्रेण कुले तस्य कुलेश्वरि ॥ १२॥ आयुः कीर्तिः प्रभा लक्ष्मीर्वृद्धिर्भवति सन्ततम् । कवचं सुभगं देवि बालायाः कौलिकेश्वरि ॥) १३॥ ऋषिः स्याद्दक्षिणामूर्तिः पङ्क्तिश्छन्द उदाहृतः । बाला सरस्वती देवि देवता त्र्यक्षरी स्मृता ॥ १४॥ बीजं तु वाग्भवं प्रोक्तं शक्तिः शक्तिरुदाहृता । कीलकं कामराजं तु फडाशाबन्धनं तथा । भोगापवर्गसिद्ध्यर्थं विनियोगः प्रकीर्तितः ॥ १५॥ अकुलकुलमयन्ती चक्रमध्ये स्फुरन्ती मधुरमधु पिबन्ती कण्टकान् भक्षयन्ती । दुरतिमपहरन्ती साधकान् पोषयन्ती जयतु जयतु बाला सुन्दरी क्रीडयन्ती ॥ ऐं बीजं मे शिरः पातु क्लीं बीजं भ्रुकुटीं मम । सौः भालं पातु मे बाला ऐं क्लीं सौः नयने मम ॥ १॥ अं आं इं ईं श्रुती पातु बाला पञ्चाक्षरी मम । उं ऊं ऋं ॠं सदा पातु मम नासापुटद्वयम् ॥ २॥ लृं लॄं एं ऐं पातु गण्डौ ऐं क्लीं सौः त्रिपुराम्बिका । ॐ औं अं अः मुखं पातु सौः क्लीं ऐं त्रिपुरेश्वरी ॥ ३॥ कं खं गं घं डं करौ मे सौः क्लीं ऐं भगमालिनी । चं छं ज झं ञं मे पातु बाहू सौः सर्वसिद्धिदा ॥ ४॥ टं ठं डं ढं णं मे पातु वक्षः क्लीं वीरनायिका । तं थं दं धं नं मे पातु ऐं कुक्षौ कुलनायिका ॥ ५॥ पं फं बं भं मं मे पातु पार्श्वौ परमसुन्दरी । यं रं लं वं पातु पृष्ठं सौः क्लीं ऐं विश्वमातृका ॥ ६॥ शं षं सं हं पातु नाभिं सौः सौः सौः त्रिगुणात्मिका । लं क्षं कटिं सदा पातु क्लीं क्लीं क्लीं मातृकेश्वरी ॥ ७॥ ऐं ऐं ऐं पातु लिङ्गं मे भगलिङ्गामृत्श्वरी । ऐं क्लीं गुह्यं सदा पातु भगलिङ्गस्वरूपिणी ॥ ८॥ सौः ऐं ऊरू सदा पातु वेदमाताऽष्टसिद्धिदा । सौः ऐं जानु सदा पातु महामुद्राभिमुद्रिता ॥ ९॥ सौः ऐं क्लीं पातु मे जङ्घे बाला त्रिभुवनेश्वरी । ऐं ऐं सौः सौः पातु गुल्फौ त्रैलोक्यविजयप्रदा ॥ १०॥ ऐं ऐं क्लीं क्लीं पातु पादौ बाला त्र्यक्षररूपिणी । शिरसः पादपर्यन्तं सर्वावयवसंयुतम् ॥ ११॥ पायात्पादादि शीर्षान्तं ऐं क्लीं सौः सकलं वपुः । ब्राह्मी मां पूर्वतः पातु वह्नौ नारायणी तथा ॥ १२॥ माहेश्वरी दक्षिणेऽव्यान्नैरृत्ये चण्डिकाऽवतु । पश्चिमे पातु कौमारी वायव्ये चापराजिता ॥ १३॥ वाराही तूत्तरे पायादीशान्यां नारसिंहका । प्रभाते भैरवी पातु मध्याह्ने योगिनी क्रमात् ॥ १४॥ सायं मां वटुकः पायादर्धरात्रे शिवोऽवतु । निशान्ते सर्वगा पातु सर्वदा चक्रनायिका ॥ १५॥ रणे राजकुले द्यूते विवादे शत्रुसङ्कटे । सर्वत्र सर्वतः पातु ऐं क्लौ सौः बीजभूषिता ॥ १६॥ इतीदं कवचं दिव्यं बालायाः सारमुत्तमम् । मन्त्रविद्यामयं तत्त्वं मातृकाक्षरभूषितम् ॥ १७॥ ब्रह्मविद्यामयं ब्रह्मसाधनं मन्त्रसाधनम् । यः पठेत्सततं भक्त्या धारयेद्वा महेश्वरि ॥ १८॥ तस्य सर्वार्थसिद्धिः स्यात् साधकस्य न संशयः । रवौ भूर्जे लिखित्वेदं अर्चयेद्धारयेत्ततः ॥ १९॥ वन्ध्यापि काकवन्ध्यापि मृतवत्सापि पार्वति । लभेत्पुत्रान् महावीरान् मार्कण्डेयसमायुषः ॥ २०॥ वित्तं दरिद्रो लभते मतिमानयशःस्त्रियः । य एतद्धारयेद्वर्म सङ्ग्रामे स रिपून् जयेत् ॥ २१॥ जित्वा वैरिकुलं घोरं कल्याणं गृहमाविशेत् । बाहौ कण्ठे तथा देवि धारयेन्मूर्ध्नि सन्ततम् ॥ २२॥ इह लोके धनारोग्यं परमायुर्यशः श्रियम् । प्राप्य भक्त्या नरो भोगानन्ते याति परं पदम् ॥ २३॥ इदं रहस्यं परमं सर्वतत्त्वेषु ह्युत्तमम् । गुह्याद्गुह्यमिमं नित्यं गोपनीयं स्वयोनिवत् ॥ २४॥ (रुद्रयामले) (१-१६ श्लोकेषु पाठभेदः - अं आं इं ईं श्रुती पातु बाला कामेश्वरी मम । उं उं ऋं ॠं सदा पातु मम नासापुटद्वयम् ॥ २॥ लृं लॄं एं ऐं पातु गण्डौ ऐं क्लीं सौः त्रिपुराम्बिका । ॐ औं अं अः मुखं पातु क्लीं ऐं सौः त्रिपुरेश्वरी ॥ ३॥ कं खं गं घं ङं करौ मे सौः ऐं क्लीं शत्रुमर्दिनी । चं छं जं झं ञं पातु मे कुक्षिं ऐं कुलनायिका ॥ ४॥ टं ठं डं ढं णं पातु मे वक्षः क्लीं भगमालिनी । तं थं दं धं नं पातु मे बाहू सौः जयदायिनी ॥ ५॥ पं फं बं भं मं मे पातु पार्श्वे परमसुन्दरी । यं रं लं वं पातु पृष्ठं ऐं क्लीं सौः विश्वमातृका ॥ ६॥ शं षं सं हं पातु नाभिं भगवत्यमृतेश्वरी । लं क्षं कटिं सदा पातु क्लीं क्लीं क्लीं मातृकेश्वरी ॥ ७॥ ऐं ऐं ऐं पातु मे लिङ्गं भगं मे भगगर्भिणी । सौः सौः सौः पातु मे ऊरू वीरमाताऽष्टसिद्धिदा ॥ ८॥ सौः ऐं क्लीं जानू मे पातु महामुद्राभिमुद्रिता । सौः क्लीं ऐं पातु मे जङ्घे बाला त्रिभुवनेश्वरी ॥ ९॥ क्लीं ऐं सौः पातु गुल्फौ मे त्रैलोक्यविजयप्रदा । ऐं क्लीं सौः पातु मे पादौ बाला त्र्यक्षररूपणी ॥ १०॥ शीर्षादिपादपर्यन्तं सर्वावयवसंयुतम् । पायात्पाय्वादि शीर्षाङ्गं ऐं क्लीं सौः सकलं वपुः ॥ ११॥ ब्राह्मी मां पूर्वतः पातु वह्नी वाराहिकाऽवतु । महेश्वरी दक्षिणे च इन्द्राणी पातु नैरृतौ ॥ १२॥ पश्चिमे पातु कौमारी वायव्ये चण्डिकाऽवतु । वैष्णवी पातु कौबेर्यां ईशान्यां नारसिंहिका ॥ १३॥ प्रभाते भैरवी पातु मध्याह्ने योगिनी तथा । सापाह्ने वटुका पातु अर्धरात्रे शिवाऽवतु ॥ १४॥ निशान्ते सर्वगा पातु सर्वदा चक्रनायिका । रणे नागकुले द्यूते विवादे शत्रुसङ्कटे ॥ सर्वत्र सर्वदा पातु ऐं क्लीं सौः बीजभूषिता । १५॥) इति श्रीबालात्रैलोक्यविजयकवचं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : Shri Bala Trailokyavijaya Kavacham
% File name             : bAlAtrailokyavijayakavacham.itx
% itxtitle              : bAlAtrailokyavijayakavacham
% engtitle              : bAlAtrailokyavijayakavacham
% Category              : devii, dashamahAvidyA, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description/comments  : bAlAsaparyA saparyAkrama-nAmAvalI-stotrAdisaNgrahaH
% Indexextra            : (Scan)
% Latest update         : March 21, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org