श्रीबालौपचाराः
प्रदक्षिणं
१०. पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादि फलं ददाति ।
तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥
नमस्कारः
१०. रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषवृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
शरणागतदीनार्तपरित्राण परायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥
आत्मार्पणं
१०. विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते सन्निधिं
प्राप्तं मामिह कान्दिशीकमधुना मातर्न दूरीकुरु ।
चित्तं त्वत्पदभावने व्यभिचरेद्दृग्वाक् च मे जातु चेत्
तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥
त्वत्प्रसूतस्त्वदाज्ञप्तस्त्वद्दासस्त्वत्परायणः ।
त्वन्नामचिन्तनपरस्त्वदर्थेऽहं नियोजितः ॥
त्वयाऽऽर्जितमिदं सर्वं तव स्वं परमेश्वरि ।
त्वदधीनं करोमीह त्वदर्थे तन्नियोजय ।
तव देवि वशे वर्ते तवाज्ञामेव पालयन् ॥
त्वं मातापितरौ त्वमेव सुहृदस्त्वं भ्रातरस्त्वं सखा
त्वं विद्या त्वमुदारकीर्तिचरितं त्वं भाग्यमत्यद्भुतम् ।
किं भूयः सकलं त्वदीहितमिति ज्ञात्वा कृपाकोमले
श्रीविद्येश्वरी संप्रसीद शरणं मातः परं नास्ति मे ॥
शान्तिप्रार्थना
माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् ।
अनिराकरणं मेऽस्तु अनिराकरणं मम ।
स्वाविद्यैकनिबद्धोऽकरवं कर्माणि मुह्यमानः सन् ।
दैवाद्विधूतबन्धः स्वात्मज्ञानान्मुनिः स्यां वा ॥
मायावशेन सुप्तो मध्येऽपश्यं सहस्रशः स्वप्नान् ।
देशिकवचः प्रबुद्धो दीव्येयं मोदवारिधौ किं वा ॥
जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि ।
परिशिष्टमात्मतत्त्वं पश्येयं वा मुनिः शान्तः ॥
जगदखिलमिदमसारं मायिकमेवेति मनसि मननेन ।
पर्यटनपाटिताशः प्रगलितमदमत्सरः स्यां वा ॥
त्वमहमभिमानविहीनो मोदितनानाजनाचारः ।
बालाचरितः स्यां वा विमलसुखाम्भोनिधौ मग्नः ॥
अवधूतकर्मजालो जडबधिरान्धोपमाचारः ।
आत्मारामो यतवागकुतश्चनवसतिरासीय ॥
चपलं मनःकुरङ्गं चारु निगृह्णन्विमर्शवागुरया ।
निगमारण्यविहारश्रान्तं शान्तं विदध्यां वा ॥
सन्त्यज्य शास्त्रवार्ताः संव्यवहारं च लौकिकं त्यक्त्वा ।
अन्तरनुसन्दधन्मनुं ते स्यां वा निष्कम्पदीपवद्योगी ॥
जात्यभिमानविहीनो जन्तुषु सर्वत्र पूर्णतां पश्यन् ।
भूतं भावि च न विदन् निर्मृष्टाशेषविषयेहः ॥
त्यजतश्च न सम्पन्नं नासम्पन्नं च वाञ्छतः क्वापि ।
तृप्तिमनुत्तमसीमां लब्धवतः किं लभेय पदम् ॥
पूजासमर्पणं
१० अथ मणिमयमञ्चकाभिरामे कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मिन् भगवति भवनेऽस्तु ते निवासः ॥
१० मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्तां
अक्षस्रक्पुस्तहस्तामभयवरकरां चन्द्रचूडां त्रिणेत्राम् ।
नानालङ्कारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
सानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥
१० एषा भक्त्या तव विरचिता या मया देवि पूजा
स्वीकृत्यैनां सपदि सकलान्मेऽपराधान् क्षमस्व ।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥
सर्वा आवरणदेवता मन्त्रदेवताश्च देव्यङ्गे विलीना भावये ।
देवी ज्योतिर्मयी चिन्मयी भाति । लम्बीजा पृथिवी गन्धं समर्पयति ।
हम्बीज आकाशः पुष्पाणि समर्पयति । यम्बीजो वायुर्धूपमाघ्रापयति ।
रं बीजोऽग्निः दीपं दर्शयति । वं बीजो वरुणोऽमृतोपहारं निवेदयति ।
देव्याः पादतले निविष्टः पुष्पाञ्जलिं समर्पयामि । देवीं संविन्मयीं
हृदयं नयामि (खेचर्या) । संविदात्मरूपिणीं भावये ।
जपसमर्पणं वक्रतुण्डादीनां षडङ्गन्यासः । दिग्बन्धः । ध्यानम् ।
मन्त्रजपः । षडङ्गन्यासः । दिग्विमोकः । लमित्यादि पञ्चपूजा ।
गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् ।
सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥
देव्या हस्ते जपं समर्ययेत् ।
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतिःस्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ।
ॐ तत् सत् । ब्रह्मार्पणमस्तु ॥
इति श्रीबालौपचाराः समाप्ताः ।
Proofread by PSA Easwaran