श्रीबगलामुखीकवचम्
श्री गणेशाय नमः । श्री बगलायै नमः ।
प्रथमं गुरुं ध्यात्वा प्राणायामं कृत्वा कवचं पठेत् ।
ॐ अस्य श्रीपीताम्बराबगलामुखीकवचस्य महादेव ऋषिः,
उष्णिक् छन्दः, श्रीपीताम्बरा देवता, स्थिरमाया बीजम्, स्वाहा
शक्तिः, अं ठः कीलकम्, मम सन्निहितानां दूरस्थानां
सर्वदुष्टानां वाङ्मुखपदजिह्वापवर्गाणां स्तम्भनपूर्वकं
सर्वसम्पत्तिप्राप्तिचतुर्वर्गफलसाधनार्थे जपे विनियोगः ।
ध्यानम् -
मध्येसुधाब्धि मणिमण्डपरत्नवेद्यां
सिंहासनोपरि गतां परिपीतवर्णाम् ॥
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥ १॥
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ २॥
इति ध्यात्वा पठेत् ।
हिमवत्तनया गौरी कैलासेऽथ शिलोच्चये ।
अपृच्छद् गिरिशं देवी साधकानुग्रहेच्छया ॥ १॥
श्रीपार्वत्युवाच ।
देवदेव महादेव भक्तानुग्रहकारक ।
शृणु विज्ञाप्यते यत्तु श्रुत्वा सर्वं निवेदय ॥ २॥
विशुद्धाः कौलिका लोके ये मत्कर्मपरायणाः ।
तेषां निन्दाकरा लोके बहवः किल दुर्जनाः ॥ ३॥
मनोबाधां विदधते मुहुः कटुभिरुक्तिभिः
तेषामाशु विनाशाय त्वया देव प्रकाशितः ॥ ४॥
यो मन्त्रो बगलामुख्याः सर्वकामसमृद्धिदः ।
कवचं तस्य मन्त्रस्य प्रकाशय दयानिधे ॥ ५॥
यस्य स्मरणमात्रेण पशूनां निग्रहो भवेत् ।
आत्मानं सततं रक्षेद् व्याघ्राग्निरिपुराजतः ॥ ६॥
श्रुत्वाऽथ पार्वतीवाक्यं ज्ञात्वा तस्या मनोगतम् ।
विहस्य तां परिष्वज्य साधु साध्वित्यपूजयत् ॥ ७॥
तदाह कवचं देव्यै कृपया करुणानिधिः ।
श्रीशङ्कर उवाच ।
शृणु त्वं बगलामुख्याः कवचं सर्वकामदम् ॥ ८॥
यस्य स्मरणमात्रेण बगलामुखी प्रसीदति ।
सर्वसिद्धिप्रदा प्राच्यां पातु मां बगलामुखी ॥ ९॥
पीताम्बरा तु चाग्नेय्यां याम्यां महिषमर्दिनी ।
नैरृत्यां चण्डिका पातु भक्तानुग्रहकारिणी ॥ १०॥
पातु नित्यं महादेवी प्रतीच्यां शूकरानना ।
वायव्ये पातु मां काली कौवेर्यां त्रिपुराऽवतु ॥ ११॥
ईशान्यां भैरवी पातु पातु नित्यं सुरप्रिया ।
ऊर्ध्वं वागीश्वरी पातु मध्ये मां ललिताऽवतु ॥ १२॥
अधस्ताद् अपि मां पातु वाराही चक्रधारिणि ।
मस्तकं पातु मे नित्यं श्रीदेवी बगलामुखी ॥ १३॥
भालं पीताम्बरा पातु नेत्रे त्रिपुरभैरवी ।
श्रवणौ विजया पातु नासिकायुगलं जया ॥ १४॥
शारदा वचनं पातु जिह्वां पातु सुरेश्वरी ।
कण्ठं रक्षतु रुद्राणी स्कन्धौ मे विन्ध्यवासिनी ॥ १५॥
सुन्दरी पातु बाहू मे जया पातु करौ सदा ।
भवानी हृदयं पातु मध्यं मे भुवनेश्वरी ॥ १६॥
नाभिं पातु महामाया कटिं कमललोचना ।
ऊरू मे पातु मातङ्गी जानुनी चापराजिता ॥ १७॥
जङ्घे कपालिनी पातु चरणौ चञ्चलेक्षणा ।
सर्वतः पातु मां तारा योगिनी पातु चाग्रतः ॥ १८॥
पृष्ठं मे पातु कौमारी दक्षपार्श्वे शिवाऽवतु ।
रुद्राणी वामपार्श्वे तु पातु मां सर्वदेष्टदा ॥ १९॥
स्तुता सर्वेषु देवेषु रक्तबीजविनाशिनी ।
इत्येतत् कवचं दिव्यं धर्मकामार्थसाधनम् ॥ २०॥
गोपनीयं प्रयत्नेन कस्यचिन्न प्रकाशयेत् ।
यः सकृच्छृणुयाद् एतत् कवचं मन्मुखोदितम् ॥ २१॥
स सर्वान् लभते कामान् मूर्खो विद्यामवाप्नुयात् ।
तस्याशु शत्रवो यान्ति यमस्य भवते शिवे ॥ २२॥
इति श्रीरुद्रयामले महातन्त्रे श्रीमहाविद्यापीताम्बरा
बगलामुखीकवचं समाप्तम् ।
Encoded by Radhika Pamula
Proofread by Radhika Pamula, Aruna Narayanan