श्रीश्रीभाषाष्टकम्
आगच्छ वरदे मातः सुतकल्याणतत्परे ।
नाशय हृदयध्वान्तं ज्ञानमयेन तेजसा ॥ १॥
प्रसिच्य चित्तं करुणापयोभिः स्वनुर्वं क्षेत्रमिदं सुतानाम् ।
ज्ञानस्य बीजं विविधं विधात्रि संरोप्यतां नो भवदुःखहन्त्रि ॥ २॥
वीणापुस्तकधारिणी भगवती देवासुरैर्वन्दिता,
श्वेताम्भोजनिवासिनी सुवरदा कल्याणविस्तारिणी ।
या शुभ्रांशुसमानना दुरितहा या शुभ्रपद्मासना,
सा नः पातु सरस्वती स्मितमुखी सन्तानशर्मप्रदा ॥ ३॥
सरस्वती श्वेतमरालवाहा अनाथनाथा करुणाविधात्री ।
शुधांशुशुभ्रा परमा परेशी करोतु नित्यं विदुषां शुभं सा ॥ ४॥
सुतमानसपङ्कजनौ मलिने चरणाम्बुजरेणुसमूहशुचौ ।
कृपया करुणामयि कृष्णकचे वस भारति भारतभव्यप्रदे ॥ ५॥
शशधरसितहंसैर्वेष्टिता ज्ञानदात्री
निखिलभुवनकर्त्री भारती ब्रह्मपुत्री ।
अकृतितनयदुःखे कातरा त्राणकर्त्री
जयति जयति देवी वल्लकीवाद्यकर्त्री ॥ ६॥
विमलकमलशोभां धारयन्ती मनोज्ञां,
तनयकुशलदात्री पद्मिनी चित्स्वरूपा ।
अमरदनुजवन्द्या कच्छपीन्यस्तहस्ता,
नयतु हृदयमोहव्यूहनाशं दयार्द्रा ॥ ७॥
निरस्य मोहं हृदये निलीनं प्रबाधकं मुक्तिधनस्य घोरम् ।
प्रेक्षा सुतानां चरणे त्वदीये सम्प्रेष्यतां भो वचसामधीशे ॥ ८॥
इति श्रीश्रीभाषाष्टकं सम्पूर्णम् ।
Encoded and proofread by Vani V