भुवनेश्वरीकवचम्
(अथ मायातन्त्रे द्वादशपटलः ।)
श्रीमहादेव उवाच । (श्रीदेव्युवाच ।?)
शृणु प्रिये प्रवक्ष्यामि कवचं भुवि दुर्लभम् ।
यस्यापि पठनाद् देवि सर्वसिद्धीश्वरो भवेत् ॥ १॥
इन्द्रोऽपि धारणाद् यस्य प्राप्नुयाद् राज्यमुत्तमम् ।
कृष्णेन पठितं देवि भूतापमारणाय च ॥ २॥
शुकदेवोऽपि यद् धृत्वा सर्वयोगविशारदः ।
तस्य श्रीभुवनेश्वरी कवचस्य महेश्वरि ॥ ३॥
सर्वार्थे विनियोगः स्यात् प्राणायामं ततश्चरेत् ।
अथ कवचम् ।
मायाबीजं शिरः पातु कामबीजं तु बालकम् ॥ ४॥
दुर्गाबीजं नेत्रयुग्मं नासिकां मन्त्रदा मनुः ।
वदने दक्षिणाबीजं ताराबीजं तु गण्डयोः ॥ ५॥
षोडशी मे गलं पातु कण्ठं मे भैरवीमनुः ।
हृदयं छिन्नमस्ता च उदरं बगला तथा ॥ ६॥
धूमावतीं कटिं पातु मातङ्गी पातु सर्वतः ।
सर्वाङ्गं मे सदा पातु सर्वविद्यास्वरूपिणी ॥ ७॥
भुवनेश्वरी कवच महात्म्य
इत्येतत् कवचं देवि पठनाद् धारणादिकम् ।
कृत्वा तु साधकः श्रेष्ठो विद्यावान् धनवान् भवेत् ॥ ८॥
पुत्रपौत्रादिसम्पन्नो ह्यन्ते याति परां गतिम् ।
इदं तु कवचं गुह्यं साधकाय प्रकाशयेत् ॥ ९॥
न दद्याद् भ्रष्टमर्त्याय न परदेवताय च ।
इदं यन्त्रं महेशानि त्रिषु लोकेषु गोपितम् ॥ १०॥
सर्वसिद्धिकरं साक्षान्महापातकनाशनम् ।
कल्पद्रुमसमं ज्ञेयं पूजयेत् श्रियमाप्नुयात् ॥ ११॥
पठनाद् धारणात् सर्वं पापं क्षयति निश्चितम् ।
विवादे जयमाप्नोति धनैर्धनपतिर्भवेत् ।
यं यं वाञ्छति तत् सर्वं भवत्येव न संशयः ॥ १२॥
इति श्रीमायातन्त्रे भुवनेश्वरीकवचं सम्पूर्णम् ।
(॥ इति श्रीमायातन्त्रे द्वादशः पटलः ॥)