श्रीभुवनेश्वरीस्तोत्रम् ३
रहस्यं पार्वतीनाथ-वक्त्रात् श्रुत्वा च पार्वती ।
महादेवं महेशानमीशमाह महेश्वरी ॥ १॥
पार्वत्युवाच-
त्रिलोकेश! जगन्नाथ ! देवदेव! सदाशिव ! ।
त्वत् प्रसादान्महादेव ! श्रुतं तन्त्रं पृथग्विधम् ॥ २॥
इदानीं वर्तते श्रद्धागमशास्त्रे ममैव हि ।
यदि प्रसन्नो भगवन् ! ब्रूह्युपायं महोदयम् ॥ ३॥
नानातन्त्रे महादेव ! श्रुतं नानाविधं मतम् ।
कृतार्थास्मि कृतार्थास्मि कृतकार्यास्मि शङ्कर ! ॥ ४॥
प्रसन्ने शङ्करे नाथ! किं भयं जगतीतले ।
विना शिव-प्रसादेन न सिध्यति कदाचन ।
इदानीं श्रोतुमिच्छामि भुवनाया रहस्यकम् ॥ ५॥
श्री शङ्कर उवाच -
शृणु देवि ! प्रवक्ष्यामि गुह्याद्गुह्यतरं परम् ।
पठित्वा परमेशानि मन्त्रसिद्धिमवाप्नुयात् ॥ ६॥
ॐ आद्या श्रीभुवना भव्या भवबन्ध-विमोचनी ।
नारायणी जगद्धात्री शिवा विश्वेश्वरी परा ॥ ७॥
गान्धारी परमा विद्या जगन्मोहनकारिणी ।
सुरेश्वरी जगन्माता विश्वमोहनकारिणी ॥ ८॥
भुवनेशी महामाया देवेशी हरवल्लभा ।
कराला विकटाकारा महाबीज-स्वरूपिणी ॥ ९॥
त्रिपुरेशी त्रिलोकेशी दुर्गा त्रिभुवनेश्वरी ।
माहेश्वरी शिवाराध्या शिव-पूज्या सुरेश्वरी ॥ १०॥
नित्या च निर्मला देवी सर्वमङ्गल-कारिणी ।
सदाशिव-प्रिया गौरी सर्वमङ्गल शोभिनी ॥ ११॥
शिवदा सर्वसौभाग्य-दायिनी मङ्गलात्मिका ।
घोरदंष्ट्रा-करालास्या मधु-मांस-बलि-प्रिया ॥ १२॥
सर्वदुःख-हरा चण्डी सर्वमङ्गलकारिणी ।
पार्वती तारिणी देवी भीमा भय-विनाशिनी ॥ १३॥
त्रैलोक्य-जननी तारा तारिणी तरुणा क्षमा ।
भक्तिमुक्तिप्रदा भुक्तिप्रदा शङ्कर-वल्लभा ॥ १४॥
उमा गौरी प्रिया साध्वीप्रिया च वारुणप्रिया ।
भैरवी भैरवानन्ददायिनी भैरवात्मिका ॥ १५॥
ब्रह्मपूज्या च ब्रह्माणी रुद्राणी रुद्रपूजिता ।
रुद्रेश्वरी रुद्ररूपा त्रिपुटा त्रिपुरा मता ॥ १६॥
वसुदा नाथरूपा च विश्वनाथ-प्रपूजिता ।
आनन्दरूपिणी श्यामा रघुनाथ-वरप्रदा ॥ १७॥
आनन्दार्णवमग्ना सा राजराजेश्वरी मता ।
भवानी च भवानन्द-दायिनी भवगोहिनी ॥ १८॥
सुरराजेश्वरी चण्डी प्रचण्डा घोरनादिनी ।
घनश्यामा घनवती महाघन-निनादिनी ॥ १९॥
घोरजिह्वा ललजिह्वा देवेशी नगनन्दिनी ।
त्रैलोक्य-मोहिनी विश्व-मोहिनी विश्वरूपिणी ॥ २०॥
षोडशी त्रिपुरा ब्रह्मदायिनी ब्रह्मदाऽनघा ।
इत्येतत् परमं ब्रह्म-स्तोत्रं परमकारणम् ॥ २१॥
यः पठेत् परया भक्त्या जीवन्मुक्तः स एव हि ।
ब्रह्माद्या देवताः सर्वा मुनयस्तन्त्रकोविदाः ।
पठित्वा परया भक्त्या ब्रह्मसिद्धिमवाप्नुयात् ॥ २२॥
इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे नवमपटालान्तर्गतं
भुवनेश्वरीस्तोत्रं सम्पूर्णम् ।
एवं च
चतुर्दशपटलान्तर्गतं भुवनाशतनामस्तोत्रं सम्पूर्णम् ॥ १४॥
Proofread by Aruna Narayanan