बृहदम्बार्याशतकम्
श्रीगोकर्णनिकेता श्रीविद्यादिव्यशुक्तिकामुक्ता ।
श्रीकण्ठनित्यमिलिता श्रीचक्रेशी पुरोऽस्तु मे माता ॥ १॥
कल्याणं कलयेन्नः कल्यानस्मान् करोतु शतमब्दान् ।
कल्यातङ्कमपास्येत् कल्याणी नः सदैव बृहदम्बा ॥ २॥
तरुणारुणप्रकाशं तरुणा वकुलेन भासुरनिवेशम् ।
गुरुणा स्तनेन नमितं गुरुणा सदयेन वस्तुः न कथितम् ॥ ३॥
वकुलद्रुमूलसदनां वनजसहाध्यायिपरिलसद्वदनाम् ।
वल्गुस्मितेक्ष्यरदनां वन्दे दृक्तर्जिताम्बुजच्छदनाम् ॥ ४॥
एका द्विलोकसुखदा त्र्यक्षर्याख्यापिता चतुःपीठा ।
पञ्चाम्नायशिरःस्था बृहदम्ब त्वं षडध्वजनयित्री ॥ ५॥
नासाभासा चम्पकशोभाक्षोभावहास्तु बृहदम्बा ।
पारावारात्मजया सेव्या देव्या गिरां च भव्याय ॥ ६॥
कम्बुलसत्कंधरया कैश्यविनिर्धूतनीलकंधरया ।
पाल्ये शोणाधरया पावितवकुलद्रुमूलसद्धरया ॥ ७॥
पीनस्तनावनम्रे पादनताम्भोजवासिनीकम्रे ।
वाणीजितसरसाम्रे वाचो वल्गन्तु धाम्नि मे ताम्रे ॥ ८॥
वकुलवनीवासिन्या विद्रुमसच्छायचेलवासिन्या ।
हृद्राजीवासिन्या हृदयं शंभोर्हृतं सुवासिन्या ॥ ९॥
वन्दे श्रीबृहदम्बां वल्गुगतापास्तराजकादम्बाम् ।
आश्रितजनावलम्बामासेवे कैश्यधूतलोलम्बाम् ॥ १०॥
केसरसरभासुरया केवलदासीभवत्सुरासुरया ।
कलिता वाणी सुरया कयापि मे भक्तिनम्रभूसुरया ॥ ११॥
शिरसा धृतसोमायाः श्रीगोकर्णैकदिव्यधामायाः ।
पदनम्राणां मायाः पापविधात्र्यः कदापि नोमायाः ॥ १२॥
आनन्दसारसीमामानङ्गोत्कर्षपोषकापाङ्गाम् ।
आनन्तुं बृहदम्बामानन्त्यं मूर्ध्नि वाञ्छामि ॥ १३॥
वकुलाटवीनिविष्टां वन्दकसंरक्षणात्यभिनिविष्टाम् ।
निरवधिकरुणाविष्टां नित्यं सेवेमहीष्टशिपिविष्टाम् ॥ १४॥
अभिधायितहृल्लेखामतीतविद्वत्सुकविजनोल्लेखाम् ।
पदपद्मनमल्लेखां पश्यामः शाश्वतीं तटिल्लेखाम् ॥ १५॥
करुणामृतवर्षिण्याः सेवकसर्वापराधमर्षिण्याः ।
वकुलविपिनहर्षिण्या वश्याः स्मः शंभुचित्तकर्षिण्याः ॥ १६॥
करुणाझरसरसाक्षीमरुणाधरशोभिसुन्दरसुहासाम् ।
तरुनार्धघटितदेहां वरुणालयजेडितां शिवां वृणुमः ॥ १७॥
धन्याः के नु मदन्या वलयेऽवन्या यतो वकुलवन्याः ।
मूले मोक्षवदान्या मान्या कन्या गिरोर्हितमान्या मे ॥ १८॥
केचित् त्वां कुलमूले साक्षात्कुर्वन्त्यहं वकुलमूले ।
अर्धेश्वरां कतिपये मातः सर्वेश्वरामहं कलये ॥ १९॥
वाञ्छितसिद्ध्यै भविता लाञ्छितचिकुरा चकोरवृत्तिकृता ।
काङ्क्षितचरणा सद्भिः कां क्षिप्रं नातनोति संसिद्धिम् ॥ २०॥
अरुणिमसारसमष्टिः संसृतिकूपोत्तरणयष्टिः ।
कलितामृतौघवृष्टिर्बृहदम्बा भातु मे कृपादृष्टिः ॥ २१॥
सामजसमानगमना सामसमाजोपगानतुष्टमनाः ।
समजानुपेतचरणा समरसतापन्नपन्नगाभरणा ॥ २२॥
विश्वपतिवश्यहृदया नश्वरविश्वासपश्वनाशास्या ।
अश्वमुखस्तवशस्या निःश्वसितानुश्रवास्ति बृहदम्बा ॥ २३॥
लघु तव चरणं शरणं तरणं मृत्योर्भजामि बृहदम्ब ।
यावत् तरसा जरसा परसादङ्गानि न कृतानि ॥ २४॥
प्रभवति यत्र न गौर्वा नोर्मीणां संकथा न वा जडता ।
कोऽपि वकुलालवाले जयति चिरानन्दसागरोऽपार ॥ २५॥
स्थावरराजतनूजा भावरसस्फीतवैखरी जननी ।
पीवरवक्षोजनता धीवरदौहित्रसूक्तिपरिचिन्त्या ॥ २६॥
सर्वानन्दनिवासा शक्रशतानन्दमुख्यसुरसेव्या ।
धृतनन्दसूनुदेहा भूमनिजानन्दमेदुरा जयति ॥ २७॥
अपहृत्य चित्तशल्यं भक्तिमतामातनोषि कैवल्यम् ।
बृहदम्ब को न्वकल्यं देवान्तरं त्व्या पाल्यम् ॥ २८॥
भवनीकृतगोकर्णं भास्वन्मणिकुण्डलस्फुरत्कर्णम् ।
ध्यायामि शोणवर्णं धाम परं भक्तमानसाभ्यर्णम् ॥ २९॥
कलिता ललिता कलितापहरा दहरान्तरविचिन्त्या ।
वकुले मुकुलेड्यकुले सदयाभ्युदया किमन्यदेवैर्मे ॥ ३०॥
वाराणसीनिषेवां वाराश्यवगाहनानि च न तन्याः ।
वारान् बहूनथाङ्घ्र्योर्वारा पूयस्व वकुलमूलेश्याः ॥ ३१॥
श्रेयश्च या विधत्ते श्रीबृहदम्बापदाम्बुरुहचिन्ता ।
कलिकलुषणि विभिन्ते मदमपि कार्तान्तमाहन्ता ॥ ३२॥
नीवी नवान्यवचसां सा वीणा वाण्यभिपणार्या ।
भावी भवार्तिहरणी देवी दयतां सदैव बृहदम्बा ॥ ३३॥
माता सारसनेत्रा मान्या वाराशिकन्यकानेत्रा ।
मृगचक्रवर्तिपत्रा मनसि मम स्तात् स्तनोल्लसत्पत्रा ॥ ३४॥
वेलतिगानुकम्पा वकुलवनाम्भोदमञ्जुतरशम्पा ।
भवतप्तामृतझम्पा भवतु हृदिस्था कृतद्विषत्कम्पा ॥ ३५॥
पद्यायामाद् यायामाद्यायामम्ब तावकजनानाम् ।
विद्यां ते निरवद्यां विद्यां गोकर्णराज्ञि दयया ते ॥ ३६॥
तरणिं तमश्छटानामरणिं ज्ञानानलस्य कलयामि ।
तरणिं भवाम्बुराशेः सरणिं वेद्यागमस्य बृहदम्बाम् ॥ ३७॥
वक्षोजभारनमिता लक्षोत्तरवेदगीःप्रमिता ।
इक्षोर्मधुरोक्तिमिता न क्षोभ्या त्वं दयाधुनी स्तिमिता ॥ ३८॥
हृदयं पुराणवचसां सदयं दीनावने परं तेजः ।
मदयन्नधरं शंभोस्तदयं यातो जनः शरणम् ॥ ३९॥
माङ्कणतीरकुटीरा मेदुरवक्षोजलिप्तपाटीरा ।
पतिधृतचन्द्राण्डीरा ध्येयाम्बा मुक्तिदानशौण्डीरा ॥ ४०॥
आपन्नरक्षणार्थे चापं पुण्ड्रेक्षुमादधाना सा ।
रोपं च पौष्पमम्बा पापं प्रोत्सारयेन्ममाशेषम् ॥ ४१॥
दक्षा निरर्गला सा दातुं स्वर्गं त्रिवर्गमपवर्गम् ।
बृहदम्बा महदन्तर्वासा भासारुणा जयति ॥ ४२॥
वारिदसोदरचिकुरां वदनपराभूतविस्फुरन्मुकुराम् ।
सुन्दरहासाङ्कूरां सेवेऽम्बां वाग्जितामृतासाराम् ॥ ४३॥
बिन्दुत्रयात्मकतया कलयन्ति त्वामपारकरुणाब्धिम् ।
ये बृहदम्ब भवाब्धिर्विदुषां तेषां कति पृषन्ति ॥ ४४॥
नीवारशूकशाता नीहारांशुच्छटाशीता ।
बालादित्यशताभा मूलाधारात् समुद्यता भासि ॥ ४५॥
विश्वप्रथानिदानं वेदशिरःस्फूर्जदपदानम् ।
बृहदम्बिकाभिधानं बहुशः सेवेय मङ्गलविधानम् ॥ ४६॥
आलोलनीलवेणी फालोत्सङ्गानुषङ्गिदिव्यमणी ।
कालोन्मिषत्कुवलयच्छायादायादलोचनद्वितया ॥ ४७॥
मणिताटङ्कसमुद्यद्घृणिगणनीराजितकपोलम् ।
नासाग्रलम्बिमुक्ताभासा संपृक्तमन्दहासरुचिः ॥ ४८॥
अरुणाधरजितबिम्बा वक्त्रपराभूतशीतकरबिम्बा ।
पीनोन्नतस्तनभरा पाशसृणीष्विक्षुचापकरा ॥ ४९॥
शिञ्जितमञ्जीरलसन्मञ्जुलचरणाब्जनम्रसुरलोका ।
बृहदम्बा मम हृदये निवसतु वात्सल्यशीतलालोका ॥ ५०॥
भानव्या या नव्या मानव्याघातभीतया दीप्त्या ।
आतन्वीत सुतन्वी सा तन्वीड्या श्रियं तवाम्ब तनूः ॥ ५१॥
इच्छात्तविश्वशिल्पां पञ्चब्रह्मप्रकल्पितसुतल्पाम् ।
वन्दीकृतादिजल्पां वन्दे देवीं दयोदयानल्पाम् ॥ ५२॥
केचिन्मदालसाक्षं कालोन्मीलत्कुवालजयदक्षम् ।
गात्रं तवापरोक्षं कुर्युर्बृहदम्ब दुष्कृतविपक्षम् ॥ ५३॥
शयधृतचारुविपञ्ची श्रोणीबिम्बावलम्बिमणिकाञ्ची ।
गोकर्णेश्यघवञ्ची दृष्टा चेत् को न भक्तिरोमाञ्ची ॥ ५४॥
कालं प्रयाप्य मेऽलं भारैर्दुःस्थैरचारुकुचभारैः ।
क्षामैरशुकश्यामैरन्यैर्देवैरधूतनतदैन्यैः ॥ ५५॥
सोमार्धसल्ललामा सा मामव्यात् सुवकुलवनदामा ।
कामारिदिव्यरामा परमा संविद् घनश्यामा ॥ ५६॥
कोमलवाकुलमूला स्तोमलसत्कुन्तलाधिगोकर्णम् ।
यामलवर्ण्या कापि श्यामलवर्णा विभाति गुरुमूर्तिः ॥ ५७॥
प्रवहत्करुणापाङ्गं प्रत्यग्राम्भोदमेचकश्यामम् ।
विश्वाधिकान्तरङ्गं वकुलवने भाति पालितपाङ्गम् ॥ ५८॥
शिखिपिञ्छं तापिञ्छं सभयं धम्मिल्लशोभया स्वभया ।
आदधती दधतीन्दुं माङ्कणरोधोऽङ्कणे जयत्यम्बा ॥ ५९॥
वामकुचचुम्बिवीणामर्धोन्मीलन्मनोज्ञट्टक्कोणाम् ।
विश्वावनप्रवीणां वकुलाटव्यां नमामि रममाणाम् ॥ ६०॥
अंसानुषङ्गिचूली संसारापारवारिधेराली ।
शं सा ददातु काली कंसारीड्या सदात्तवकुलाली ॥ ६१॥
वीणावादिनि शर्मास्वादिनि कर्माद्रिभेदिनि स्यान्मे ।
विश्वाकारिणि चन्द्रालंकारिणि बोधकारिणि प्रेम ॥ ६२॥
अरुणांशुकामुपासे निगमं शुकरूपिणं दधतीम् ।
ददतीमाशुकवित्वं स्वांशुकदर्थीकृतातसीं जननीम् ॥ ६३॥
सज्जनकृतवरिवस्यं सारसपरिहाससादरनिजास्यम् ।
गान्धर्वस्य रहस्यं किंचन कुर्यान्मदाशास्यम् ॥ ६४॥
दूर्वाश्यामलकाये दुर्वासोमुख्यमौनिगणसेव्ये ।
अर्वास्यवर्णितगुणे कुर्वाशापूर्तिमद्य बृहदम्ब ॥ ६५॥
लीलालोला वकुलाटव्यामव्याच्छुकाभिरामकरा ।
वीणाक्काणाभिरता माता भूताधिपस्य दयिता नः ॥ ६६॥
दुरितेभ्यो न कृतेभ्यो नापि कृतान्ताद् बिभेमि दुर्दान्तात् ।
दृष्टा दयासमष्टिर्वकुलवने श्यामलाकृतिर्येन ॥ ६७॥
धन्योऽहं धन्योऽहं वंशद्वितयी मदीक्षिता धन्या ।
परिपणमाम्नायानां श्यामलमालोकि वकुलमूले यत् ॥ ६८॥
वित्तादिभिर्नराणां मत्तानां दुर्लभा विना भक्तिम् ।
तत्तादृशानुभावा सत्ता काचिद् विभाति गोकर्णे ॥ ६९॥
परिहृतसर्वविकल्पा परिधृतशीतांशुकोरकाकल्पा ।
बालदिवाकरकल्पा बृहदम्बा पातु सत्यसंकल्पा ॥ ७०॥
चम्पकनीपरसालाः सन्त्येवान्ये रसास्थले सालाः ।
वकुले तु मेऽस्ति भक्तिर्यस्मिन् दृष्टे स्मृता भवत्यम्बा ॥ ७१॥
भ्रमरीविभ्रमकबरीं भ्रूभ्रमणेनैव पञ्चकृत्यकरीम् ।
संवित्सुखामृतझरीं संसेवेऽम्बां भवाम्बुराशितरीम् ॥ ७२॥
कुमुदेशपाकचूडं कलितसुरोद्यानमालिकापीडम् ।
अञ्चितवकुलाक्रीडं किंचिदुपासे दयानिवहनीडम् ॥ ७३॥
सरले सरले विरले तरले हृन्नेत्रकुचसीम्नि ।
वस्तुनि मेऽस्तु निवास्तुनि करुणायाश्चित्तवृत्तिरपतन्द्रा ॥ ७४॥
कं गणयेऽन्यमुपास्यं मङ्कणकासारतीरकौतुकिनः ।
अङ्गणवाकुलसुमनोरिङ्खणसौरभ्यनिर्भराद्धाम्नः ॥ ७५॥
वेशन्ततुल्यनाभी वासन्तस्फारपुष्पशुभवेणी ।
सीमन्तभासिवुसृणा सा हन्त प्रेक्षिताद्य बृहदम्बा ॥ ७६॥
श्रुतिलासिकालिरङ्गायितस्वमहिमाक्षिनिर्जितकुरङ्गा ।
प्रोद्यत्कृपातरङ्गा पायादम्बा मृगेश्वरतुरङ्गा ॥ ७७॥
निबिडघनस्तनकुम्भा निजवेणीन्यस्तशीतकरडिम्भा ।
निवसितवरकौसुम्भा निवसतु चित्ते जगद्धितारम्भा ॥ ७८॥
गम्भीरनाभिकुहरां कुम्भीन्द्रस्पर्धिमुग्धसंचाराम् ।
तां भीमस्य न भामां कुम्भीपाकेच्छवो भजन्त्यज्ञाः ॥ ७९॥
वाह्यापि नो पुराण्या तत्त्वविपण्या यदुच्चतागण्या ।
सा वर्ण्यास्तु शरण्या कस्य धरण्यामुमाखिलवरेण्या ॥ ८०॥
गोकर्णेशयसेव्यां गोकर्णेशप्रियां प्रणमन् ।
गोकर्णे वस तूष्णीं गोकर्णे भ्रामकांस्तु जप मन्त्रान् ॥ ८१॥
क्षुद्रार्थदानशीला न द्रागाराधिताः प्रसीदन्ति ।
निद्रालसास्त्वदन्ये तद्राज्ञि त्वां भजे वकुलवन्याः ॥ ८२॥
आगमकोटिनिरुक्तामाब्रह्मस्तम्बरक्षणासक्ताम् ।
आर्यामनादिमुक्तामालोके केसराटवीसक्ताम् ॥ ८३॥
सेवे किंचन दिव्यं भावे तेजः समस्तसंसेव्यम् ।
धीवेदिमेत्य हृद्यं संवेद्याख्यं दहेन्ममाभव्यम् ॥ ८४॥
वाणी चाम्बुधिकन्या सा वृणुते तं बलादिवानन्या ।
किंचित् त्वया जनन्या कटाक्षितो यः कियत्यथ स्त्र्यन्या ॥ ८५॥
शक्तः कोऽपि यदीयां लङ्घितुमाज्ञां न लोकेषु ।
यस्याज्ञां बृहदम्बा साध्यास्ते कस्ततो ह्यधिकः ॥ ८६॥
अष्टापदादि सर्वं लोष्टाभिन्नं सदाभिपश्यन्तः ।
अष्टात्मनः प्रणयिनीं शिष्टाः पश्यन्त्यनन्यतया ॥ ८७॥
दाहं भवानलोत्थं व्याहन्तुं वाकुलाटवीं देवीम् ।
सोऽहं भजामि भक्त्या याहंतारूपिनीति गुरुणोक्ता ॥ ८८॥
कुलदैवतं मदीयं कुलकुण्डाभ्यन्तरैकवास्तव्यम् ।
कुलपर्वतेशभाग्यं कुलायमीक्षेऽनुपाधिकरुणायाः ॥ ८९॥
अग्नाविष्णुमुखेड्या भग्नाशेषार्तिरात्मभक्तानाम् ।
भुग्नालका मदीये लग्ना चित्ते चकास्तु बृहदम्बा ॥ ९०॥
अव्याजभूतकरुणा भव्यापाङ्गप्रकल्पितत्राणा ।
अव्याद्विलिप्तघुसृणा स्तव्या श्रुत्या सदाप्तगोकर्णा ॥ ९१॥
अम्भोजतुल्यनयनामङ्कालंकारिणीं त्रिनेत्रस्य ।
अङ्गीकृतादिमरसाम्बां गोकर्णनायिकां सेवे ॥ ९२॥
भार्यामनादियूनोऽहार्याधीशान्ववायमणिभूषाम् ।
आर्यामुपाध्वमनिशं कार्याकार्यावमर्शनिष्णाताः ॥ ९३॥
वरदे सुरदेशिकवाङ्निकरासुकरानुवर्णने धाम्नि ।
करवै मुरवैरिमुखैः शिरसा सुरसार्थकैर्नते चेतः ॥ ९४॥
मङ्कणकासारझरीसमीरधारामनोहरोदारे ।
मिलदलिलोलन्मुकुले वकुलवने लालसीति सकलेशी ॥ ९५॥
पश्यल्ललाटदारान् परिपूर्णानन्दसंविदाकारान् ।
कठिनघनस्तनभारान् कलये गोकर्णपावनागारान् ॥ ९६॥
गोकर्णेशमहिष्या व्याकर्तुं को गुणान् भवेदीशः ।
स्वीकर्तुं हृदि वा तान् श्रीकर्कास्यं तमेकमपहाय ॥ ९७॥
तुष्टा श्रीबृहदम्बा कष्टानुन्मूलयेत् कृपादृष्ट्या ।
इष्टानि च प्रदद्यान्मृष्टां प्रतिभां परत्र च श्रेयः ॥ ९८॥
वन्दे विश्वविधात्रीं वन्दे विद्याचिमुक्तिफलदात्रीम् ।
वन्दे वकुलवनेशीं वन्दे गोकर्णवल्लभसुकेशीम् ॥ ९९॥
जयति स्फारदयार्द्रा गोकर्णाधीशवल्लभा जयति ।
जयति प्रसादसुमुखी श्रीरघुनाथेन्द्रपूजिता जयति ॥ १००॥
आख्यां सकृद् यदीयामाख्यायाशेषवाञ्छितं लभते ।
तस्याः स्तुतिप्रियायाः यः स्यात् स्तोत्रं पठन् स पूर्णार्थः ॥ १०१॥
॥ इति श्रीबृहदम्बाशतकं संपूर्णम्॥
Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu