श्री दोमकोण्ड चामुण्डेश्वरी सुप्रभातम्
ॐ गँ गणपतये नमः ।
ॐ श्री वागीश्वर्यै नमः ॥
सुप्रभातं -
जागृहि त्वं महादेवि !
जागृहि देवि ! चण्डिके ! ।
जागृहि दोमकोण्डेशि !
लोकरक्षणहेतवे ॥ १॥
जागृहि चण्डमुण्डादि
दुष्टराक्षसघातिनि ।
भक्तानामिष्टदात्री त्वं
जागृहि महिषमर्दिनी ॥ २॥
जागृहि विघ्नराजेश !
जागृहि गणनायक ! ।
लोककण्टकनाशाय
जागृहि चण्डिकासुत ॥ ३॥
श्री दुर्गे ! मधुकैटभप्रमथिनी त्वं चण्डमुण्डार्दिनि
मातर्जागृहि लोकरक्षणकृते निद्रां विमुञ्चेश्वरि ! ।
प्राचीपर्वतमस्तके शिशुरवेरुद्यत्करा भान्ति हि
चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ४॥
रात्रावाप्ततमःसुदीर्घपटलैः ह्यन्धीकृतं वारिजं
प्रातर्भास्कर रश्मिभिः स्वनयनावुन्मील्य तत्पङ्कजम् ।
सामीप्यं तव पादयोश्च गमितुं भक्ताग्रहस्ते स्थितम्
चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ५॥
प्रातर्भास्कररश्मिभिर्दृष्ट्वा त्वदीयं मुखं
अम्लानैर्मुखनेत्रहस्तचरणैस्तुल्यं त्ववाप्तुं मुदा ।
पद्मं मन्दिरसन्निधौ सरसि ते ध्याने विलीनं गतं
चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ६॥
भास्वद्भानुरहो ! स्वकीयकिरणैर्लब्धं स्वगर्वं तु यत्
जाज्वल्यं रविकोटितुल्यकिरणं ज्ञात्वा त्वदीयाननम् ।
त्यक्त्वाऽसौ तव दर्शनाय पुरतः प्राच्यां मुदा वीक्षते
चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ७॥
त्वत्कर्णोत्सवकल्पनाय पुरतो वृक्षेषु ते प्राङ्गणे
पक्षीन्द्रादिमुखैः स्वकूजितपदैस्ते सुप्रभातं मुदा ।
गायन्त्यत्र हि नारदादि ऋषयस्त्वन्मन्दिरं त्वागताः
चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ८॥
त्वन्नेत्रोत्सवकल्पनाय गिरिजे ! त्वन्मन्दिरं त्वागताः
नृत्यं ताण्डवलास्यबद्धरचितं पश्यज्जनाह्लादकम् ।
नृत्यन्त्यत्र मयूररूपदिविजाः कन्याः प्रसादेच्छुकाः
चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥ ९॥
त्वन्नेत्रीकृतसूर्यचन्द्रदहनाः त्वत्सेवनायाश्रिताः
त्वत्प्रासादगतान्धकारदितिजं भानुः करैर्ध्वंसति ।
आह्लदं ननु कल्प्यते स्वकिरणैर्ध्वस्तं क्लमं चेन्दुना
अन्तर्मन्दिरदीप्तरश्मिलसितो हुतभुक् ध्यानङ्गतो निश्चलः
चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥१०॥
सृष्टो वीरसुतः स्वरक्षणकृते देवि ! त्वया यो ह्यसौ
यः पित्रा ननु छिन्नमस्तकशिशुः हस्त्याननः कारितः ।
सोयं विघ्नपतिर्निरीक्षति मुदा द्रष्टुं त्वदीयाननं
चामुण्डेश्वरि ! दोमकोण्डनिलये ! ते सुप्रभातं शिवे ! ॥११॥
स्तोत्रम् -
वाणि ! लक्ष्मि ! पार्वति ! त्रिमूर्तिमातृरूपिणि !
ब्रह्मविष्णुशङ्करैर्निरन्तरं सुसेव्यते ! ।
दुष्टदानवान्तकी ! सुशिष्ट भक्त रक्षिके !
दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ १॥
लोककण्टकासुरान् त्वदीयकोपपात्रकान्
भस्मसात्चिकीर्षया भवल्ललाटपट्टके ।
प्रज्ज्वलद्धनञ्जयो निरीक्षते त्वदानतिं
दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ २॥
भक्तकल्पवल्लिके ! सुभक्तकोटिपालके !
भक्तवैरिभञ्जनि ! त्वमार्तिबाधवारिणी ।
शिष्टकर्ममोदिनी विरक्तमोक्षदायिनी
दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ ३॥
चण्डिके ! त्वमीप्सितप्रदायिनी वरप्रदे !
सूर्यकोटिभासुरे ! सुधाकरप्रभानने ! ।
शूरदैत्यभञ्जने ! सुरेन्द्रपीठरक्षके !
दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ ४॥
पार्वतीतनूद्भवे ! निशुम्भशुम्भमर्दिनि !
दुष्टचित्तमाहिषं यमालयातिथिङ्करि ! ।
रक्तबीज नाशिके ! हृतासुचण्डमुण्डिके !
दोमकोण्डचण्डिके ! जयोऽस्तु ते निरन्तरम् ॥ ५॥
विश्वनाथशर्मणा प्रवाचितं स्तवं शुभं
पाठकाय पुण्यदं सदा ह्यघौघनाशकम् ॥
सर्वविघ्नभञ्जकं सुखप्रदं शुभङ्करं
दोमकोण्डचण्डिका ! करोत्विमं सुहर्षिणी ॥ ६॥
प्रपत्तिः -
आद्या त्वं जगतां त्वमेव जननी माया परादेवता
त्वं शक्तित्रयरूपिणी त्वमनघा विद्या ह्यविद्या परा ।
क्षेत्रज्ञा ह्यपरा त्वमेव भवति ! ज्ञेया परब्रह्मणी
चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ १॥
त्वं सीता तनुमेत्य रावणकुलं मृत्योः परं प्रापयः
त्वं द्रौपद्यसि दुष्टकौरवकुलप्रध्वंसकी भारते ।
नित्यं पातुमहो ! शिवे ! त्रिजगतो बद्धा कटी च त्वया
चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ २॥
त्वत्पादस्मरणेन पूतहृदयाः सिद्धिङ्गता साधवः
त्वन्नामश्रवणेन धूतविषयाः मुक्तिं गता योगिनः ।
त्वत्पूजाचरणेन भक्तजनता ध्वस्तीकृताघौघिका
चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ३॥
मूकः प्रेरणया शिवे ! तव भवेत् वाचालकानां वरः
पङ्गुः पर्वतमस्तकं प्रभवति ह्यारोहशक्तस्त्वया ।
मूढो ज्ञानविदांवरो भवति ! ते वाग्देवते ! ह्याज्ञया
चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ४॥
लोकेऽस्मिन् बहवो हि कण्टकजनाः सज्जन्मनां बाधकाः
दैत्येन्द्रादिसमाः सदा जगदिदं मुञ्चन्ति दुःखाब्निधौ ।
अम्ब ! त्वां शरणङ्गतस्त्वहमसौ याचामि ते रक्षणं
तेभ्यो मामव दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ५॥
श्रीशद्विट् परदारकामुकवरश् चात्मीयहिंसाकरः
दैत्येते हरिणाऽवतारबहुभिस्त्यक्तासवो नैकधा ।
तृप्तिं नैवगता श्च ते दितिसुता देहे ममैवाश्रिताः
तेभ्यो मामव दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ६॥
क्वाहं देवि ! सुदूर देशवसितस्त्वत्सेवनायाहुतः
नाहं वाग्विभवो यतो न पदवित् शक्तो न वाक्सेवने ।
मूढास्ते सुकटाक्षदृष्टिविभवैर्मातः ! कृताः पण्डिताः
दुर्गे ! मामव दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ७॥
वक्तारं वरकोरिडेकुलभवं यं विश्वनाथाभिदं
शर्माख्योत्तरविप्रमेतमनिशं त्वत्पादसम्माश्रितम् ।
श्रोतॄन् भ्राजितदोमकोण्डपुरजान् त्वं रक्ष लोकेश्वरि !
चामुण्डेश्वरि ! दोमकोण्डनिलये ! पादौ प्रपद्ये तव ॥ ८॥
मङ्गलाशासनम् -
वेदवेदान्तवेद्यै ते वैदिकाचारसंस्तुते ।
दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ १॥
ब्रह्मजिह्वाग्रनर्तिन्यै वागधिष्ठानदेवते ! ।
दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ २॥
विष्णुवक्षस्स्थिते ! लक्ष्मि ! विश्वलोकैकवन्दिते ! ।
दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ३॥
महाकालार्धकायायै महाकालि ! महामये ! ।
दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ४॥
महिषासुरमर्दिन्यै मदगर्वजनार्दिनि ! ।
दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ५॥
ज्ञानबुद्धिप्रदे ! देवि ! धनधान्यविवर्धिनि ! ।
दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ६॥
ब्रह्मादिभिर्वन्द्यायै ब्रह्मवादिप्रिये ! च ते ।
दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ७॥
हरिहृदयहारिण्यै हरार्धकायहारिणी ।
दोमकोण्डाधिवासिन्यै चामुण्डेश्वरि ! मङ्गलम् ॥ ८॥
क्षमापराधस्तोत्रम् -
अहं दुष्टचित्तः सदा दुष्टकर्मा
अहं भक्तिहीनः परित्यक्तपूजः ।
क्षमस्वाम्ब ! मे मां त्विमं ज्ञानशून्यं
नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ १॥
न पित्रोर्हि सेवा न वा देवपूजा
न ते मन्दिरं हि प्रविष्टः कदाऽपि ।
क्षमापराधं पदं ते गतं मां
नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ २॥
न वा तीर्थयात्रा कृता क्षेत्रा यात्रा
न सन्ध्यार्चनं च प्रभाते सनिद्रः ।
दयां देवि ! कृत्वा विनीतं विधेहि
नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ३॥
मदान्धेन भूयः कृता साधुनिन्दा
गुरून्नैव वन्दे न चापि प्रवृद्धान् ।
क्षमस्वार्थिनं मामिमं दोषभाजं
नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ४॥
परस्त्रीषु कामः परद्रव्यलोभः
न चाहं व्यमोचं सदा कामलोभौ ।
अहं त्वां गतोऽम्ब ! क्षमस्वापराधम्
नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ५॥
न मे चात्मबन्धुर्न मे स्नेहशीलः
न मे चोपदेष्टा न सन्मार्गदर्शी ।
इमं दुष्टचित्तं विनीतं विधेहि
नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ६॥
अहं पण्डितः काव्यकर्ता न चैव
सदा पण्डितम्मन्यमानोऽह्यविद्वान् ।
इमं गर्विणं बुद्धिमन्तं विधेहि
नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ७॥
न चास्तिक्यबुद्धिं न विध्युक्तकारं
परं वञ्चकं वेषभूषानुलिप्तैः ।
इमं त्वाश्रितं मां पुनीतं विधेहि
नमश्चण्डिके ! ते स्थिते दोमकोण्डे ॥ ८॥
मङ्गल हारति -
जय दुर्गे ! जय दुर्गे ! जय दुर्गे ! देवि !
दोमकोण्डचण्डिके ! दुष्टदानवान्तकि ! ॥ जय दुर्गे॥
करुणावारिधिदेवि ! चरणाश्रितपोषकी
कमनीयचरिते ! वरकल्पलतिके ! ॥ जय दुर्गे॥
सुरवरगणनमिते ! सुन्दरतनुलतिके !
पुरहरतनुवसिते ! मुरहरहृदिलसिते ! ॥ जय दुर्गे॥
महिषादिमदखण्डे ! मददैत्यतनुभञ्जे
वरवीणामृदुपाणि ! परहन्तृशूलपाणि ! ॥ जय दुर्गे॥
इति श्री दोमकोण्ड चामुण्डेश्वरी सुप्रभातं सम्पूर्णम् ।
Composed by Koride Vishwanatha Sharma, Dharmapuri, Telangana
Proofread by Koride Vishwanatha Sharma.