श्रीअरविन्दकृतं दुर्गास्तोत्रम्

श्रीअरविन्दकृतं दुर्गास्तोत्रम्

ॐ मातर्दुर्गे! सिंहवाहिनि सर्वशक्तिप्रदायिनि मातः शिवप्रिये तव शक्त्यंशजा वयं भारतवर्षस्य युवानः त्वन्मन्दिरे समासीनाः त्वां प्रार्थयामहे ॥ श‍ृणु मातः आविर्भव भारते वर्षे प्रकाशमाना भव । मातर्दुर्गे! युगे युगे मानवीं तनुं धृत्वा जन्मनि जन्मनि तवैव कर्म कृत्वा च त्वदानन्दधाम प्रतियाम। एतर्ह्यपि जन्मजुषो वयं त्वदेककार्यव्रतिन एव श‍ृणु मातः आविर्भव भारते अस्मत्सहाया भव ॥ मातर्दुर्गे! सिंहवाहिनि त्रिशूलधारिणि वर्मावृतसुन्दरशरीरे मातः जयदायिनि त्वत्प्रतीक्षापरं ह्यद्य भारतं तामेव ते मङ्गलमयीं मूर्तिं वीक्षितुं समुत्सुकम् । श‍ृणु मातः प्रादुर्भव भारते वर्षे प्रकाशस्व ॥ मातर्दुर्गे! बलदायिनि प्रेमदायिनि ज्ञानदायिनि शक्तिस्वरूपे भीमे सौम्य-रौद्र-रूपे जीवन-सङ्घर्षे भारत-सङ्ग्रामे च त्वत्प्रेरिता योद्धारो वयम् । देहि मातः प्राणमनसोरसुरस्य शक्तिं असुरस्योद्यमं देहि मातः बुद्धिचित्तयोर्देवस्य चरित्रं देवस्य ज्ञानम् ॥ मातर्दुर्गे! जगदग्रगण्या भारतजातिर्ननु समाच्छन्नासीन्निबिडतमसा । त्वं मातः उत्तरोत्तरं समुदीयसे व्योमप्रान्ते त्वद्दिव्यविग्रहस्य तिमिरविजयिना ज्योतिषा सञ्जात उषसः प्रकाशः प्रवितनुस्वालोकं मातः प्रविधुनु तिमिरम् ॥ मातर्दुर्गे! श्यामला सर्वसौन्दर्यसमलङ्कृता ज्ञान-प्रेम-शक्तीनां प्रतिष्ठा पुण्यभूमिर्ननु ते विभूतिः एतावत्कालं शक्तिसंहरणार्थं आत्मसंवरणमकार्षीत् । अध्यागतं तद्युगं आगतं तद्दिनं यदा सकलभुवनस्य भारं स्कन्धे वहन्ती समुत्तिष्ठति भारतमाता। एहि मातः प्रकाशस्व ॥ मातर्दुर्गे! तव सन्ततिर्वयं त्वत्प्रसादात् त्वत्प्रभावात् बृहतोवदानस्य महनीयभावस्य समुपयुक्ता स्याम । हे मातः क्षोदय क्षुद्रतां समुत्सारय स्वार्थं भञ्जय भयम् ॥ मातर्दुर्गे! कालीरूपिणि नृमुण्डमालिनि दिगम्बरे कृपाणपाणि देवि असुरविनाशिनि दारुणनिनादेन निषूदय रिपुदलमन्तरस्थं येन नैकोऽपि रिपुरस्मदन्तरे जीवितस्तिष्ठेत् येन च वयं विमला निर्मलाश्च स्याम इयमेव प्रार्थना मातः प्रकाशमाना भव ॥ मातर्दुर्गे! स्वार्थेन भयेन क्षुद्राशयत्वेन म्रियमाणं खलु भारतम् । हे मातः विधेहि नो महतः महाप्रयासकृतः उदारचेतसः सत्यसङ्कल्पजुष येन नातःपरं स्याम स्वल्पाशंसिनः निश्चेष्टा अलसाः सन्त्रस्ताः वा ॥ मातर्दुर्गे! विस्तारय योगशक्तिम् । त्वत्प्रिया हि वयमार्यसन्ततयः अस्मात् सुसमुद्भावय लुप्तां शिक्षां मेधाशक्तिं च श्रद्धां भक्तिं तपस्यां च लुप्तं चरित्रं ब्रह्मचर्यं सत्यज्ञानं च अस्मदन्तः समुद्भाव्य च भुवनाय च वितर। मानवसह्ये दुर्गतिनाशिनि जगदम्बे प्रकाशस्व ॥ मातर्दुर्गे! अन्तःस्थानां रिपूणां संहारं विधाय समुन्मूलय बाह्यविघ्नबाधाः । बलपराक्रमोपेता समुन्नतचेता आर्यजातिर्भारतस्य पवित्रकाननेषु समुर्वरक्षेत्रेषु व्योमचुम्बिपर्वतप्रदेशेषु पूतसलिलसरितां तीरेषु किलैकत्वे प्रेम्णि च सत्ये शक्तौ च शिल्पे साहित्ये च विक्रमे ज्ञाने च मूर्धन्या सति निवसेत् एषैव प्रार्थना मातृचरणयोः प्रकाशमाना भव ॥ मातर्दुर्गे! अनुप्रविश नो देहं योगशक्त्या भविष्यामस्तव यन्त्राणि अशुभविनाशिनस्तव निस्त्रिंशाः अज्ञानतिमिरापहास्तव प्रदीपाः । हे मातः सम्पूरय स्पृहामेतां भारतीयतरुणवृन्दस्य। यन्त्रस्वामिनि चालय यन्त्रम्। अशुभोच्छेदिनि समुल्लासय चन्द्रहासं ज्ञाननदीप्तिविभासिनि गृहाण हस्ते प्रदीपं प्रकाशस्व प्रकाशस्व ॥ मातर्दुर्गे! त्वां प्राप्य न वयमितःपरं विधास्यामस्तव विसर्जनं श्रद्धाभक्तिप्रेम्णां सूत्रेण समासज्ज्य हृदये सन्निधास्यामः । एहि मातः अस्माकं मनसि प्राणे शरीरे च प्रकाशस्व ॥ वीरमार्गप्रदर्शिनि आयाहि न हि विधास्यते विसर्जनमतःपरं आस्तां ननु समस्तमस्मज्जीवनमनवच्छिन्नं दुर्गापूजनं सर्वमपि नः कार्यजातं अविरतं पवित्रं प्रेममयं शक्तिमयं च मातृसेवाव्रतं स्यात् एषैव प्रार्थना मातः । आविर्भव भारते वर्षे प्रकाशमाना भव ॥ Durga Stotra by Sri Aurobindo originally in Bengali 1909 Proofread by Sampadananda Mishra, PSA Easwaran
% Text title            : Durga Stotram 5 Hymn to Durga by Sri Aurobindo
% File name             : durgAstotramAurobindo.itx
% itxtitle              : durgAstotram 5 (shrI aravindakRitam mAtardurge, siMhavAhini)
% engtitle              : durgAstotram 5 Aurobindo
% Category              : devii, durgA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : durgA
% Author                : Sri Aurobindo
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sampadananda Mishra, PSA Easwaran
% Description/comments  : Durga Stotra by Sri Aurobindo originally in Bengali 1909
% Indexextra            : (Bengali and English, Videos 1, 2)
% Latest update         : May 10, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org