त्रिपदागायत्रीपञ्चाङ्गम् अथवा त्रिपदा गायत्रीस्तवराजः

त्रिपदागायत्रीपञ्चाङ्गम् अथवा त्रिपदा गायत्रीस्तवराजः

भैरव उवाच - श‍ृणु देवि प्रवक्ष्यामि गायत्रीतत्त्वमुत्तमम् । स्तोमं मन्त्रमयं नाम सर्वतन्त्रेषु गोपितम् ॥ १॥ अङ्गपञ्चाङ्गमीशानि महापातकनाशनम् । पुण्यप्रदं वेदसारं सर्वतत्त्वोत्तमोत्तमम् ॥ २॥ परमार्थाभिख्यातस्य स्तोत्रस्यास्ति ऋषिः शिवः । त्रिष्टुप् छन्दो महादेवि त्रिपदी देवता स्मृता ॥ ३॥ तारं बीजं शिरः शक्तिः स्वर्गं कीलकमीश्वरि । धर्मार्थकाममोक्षार्थे विनियोग इति स्मृतः ॥ ४॥ विनियोगः - अस्य श्रीत्रिपदागायत्रीस्तवराजस्य शिव ऋषिः, त्रिष्टुप् छन्दः, त्रिपदागायत्रीदेवता, ॐ बीजं, शिवः शक्तिः, खं गं कीलकं। मम धर्मार्थकाममोक्षार्थे पाठे विनियोगः ॥ ऋष्यादिन्यासः - शिवऋषये नमः (शिरसि), त्रिष्टप्छन्दसे नमः (मुखे), त्रिपदागायत्रीदेवतायै नमः (हृदये), ॐ बीजाय नमः (गुह्ये), शिवःशक्तये नमः (पादयोः), खं गं कीलकाय नमः (नाभौ), विनियोगाय नमः (सर्वाङ्गे) । कर-हृदयादिन्यास-क्रमशः - ह्रां, ह्रीं, ह्रूं, ह्रैं, ह्रौं, ह्रः (इत्यादिभिः) । ध्यानम्- चतुर्भुजामर्कसहस्रकोटिभां त्रिलोचनां हारकिरीटशोभिताम् । कपालखट्वाङ्गधरां महोज्ज्वलां (श्रुती) श्वरी पञ्चमुखीं भजाम्यहम् ॥ १॥ विविधमणिमयूरवैः स्फीतकेयूरहारां प्रवरकनककाञ्चीकिङ्किणीकिङ्किणाढ्याम् । सकलभुवनरक्षासृष्टिसंहारकर्त्रीं निगमपरमविद्यामाश्रये वेदधात्रीम् ॥ २॥ प्रणवं मनुराजमौलिरत्नोपरि देवेश्वरि वेदसागरोत्थाम् । प्रजये हृदये दयः समुद्रः सततं ब्रह्मविदीश्वरो भवेद्य एकः ॥ ३॥ शङ्का भवेच्चैव विहाय शङ्का कङ्कालमालाभरणो निशीथे । कृशानुभानुप्रभया समानो विमानचारी स भवेत समानः ॥ ४॥ नृबीजमन्तः शिवशक्तिरूपं विभोर्जपेद्यः त्रिपदीरहस्यम् । स कामुकः कामकलाविदग्धो भवेत्तु रम्भाङ्गविलासभागी ॥ ५॥ त्रिकूटबीजं तव मन्त्रमध्ये जपेद्भवानि स्मरतप्तचेता । स मीनकामांश्च निदाघमेधो भवेद्भुवो भूपबुधो जनेन्द्रः ॥ ६॥ स्मरजपेद्यः परमार्थपथ्यां निर्वाणपथ्यां तव पञ्चवक्त्रे । समस्तलोकाधिपतिः पुरेऽसौ भवेत्परानुग्रहभाजनं सः ॥ ७॥ परां जपेद्यः परमार्थतथ्यां निर्वाणरथ्यां तव पञ्चवक्त्रे । सुलोचनांलोचनवीक्षणोरु प्रभावपीयूषरसाकुलात्मा ॥ ८॥ लक्ष्मीं जपेद्यः परवर्गभीतः श्मशानभूमौ शिववेषधारी । तस्यै (-व) वश्या कमलाकरस्था या विष्णुपत्नी कमलाकरस्था ॥ ९॥ वाणी यदा कण्ठजले जपेद्यो दशायुतं दुर्दशयाभिभूतः । स वैरिवर्ग समरे निहत्य भवेद्भवानीतनयो दिवेन्द्रः ॥ १०॥ भीमां जपेद्यो वरतान्तकाले नितान्तमम्भोजदलासनस्थः । स भीमरूपोऽरिकुलं विहन्या- दन्ते लभेत्कामपदं त्रिपाद्याः ॥ ११॥ मन्त्र जपेद्यः शुचिरर्चनायां चतुर्भुजे हव्यभुजः समक्षम् । स गाणपत्यं प्रतिपद्य देव्या स्तथा भवेद्विश्वनृपाधिनाथः ॥ १२॥ गायत्रीत्यभिधाक्षरत्रयमिदं वेदार्थतत्त्वं परं यो ध्यायेद्धृदयारविन्दकुहरे प्रातर्निशीथेऽथवा । चैनाचारविचारमार्गनिपुणो वेदान्तसारोद्धृतं प्रोद्भूतागमतत्त्ववित्तु त्रिपदीधाम स्वयं यास्यति ॥ १३॥ रमा (सुयोगी) गिरिगह्वरान्ते जपेद्गिरीशाङ्कपतेः समीपे । स योगिगम्यो गुरुगर्वहारी गिरां भवेदिन्द्रसमुच्चिताघ्रिः ॥ १४॥ मायां जपेद्यः स्मरयुक्तचेता जटाकिरीटेन्दुकले तवाग्रे । स वैष्णवेन्दौ सुरनाथमौलिः स्फुरन्मणिज्योतिविराजिताङ्घ्रिः ॥ १५॥ मा बीजमिन्दुस्फुरतोर्ध्वबीजं जपेन्निशीथे शीर्षासनस्थः । यो वीरमातैकपरः स सद्यो भवेद्धरायां नृपसार्वभौमः ॥ १६॥ मायायुगं यः प्रजपेद्रतादौ (नारी-) मुखासक्तमुखो निशीथे । स लोकपालार्चितपादपद्मो भवेद्भवान्ते भुवनाधि नाथः ॥ १७॥ वाणी जपेद्यो जडभावयुक्तो वेदान्ततत्त्वैकपरो भवेच्च । तस्यास्यपद्मे वसतिं विधाय ननर्त्ति वाणी विदुषां सभायाम् ॥ १८॥ यो वायुपूज्यां सुरतावसाने जपेन्निशीथे शशिखण्डचूडे । स वायुपूज्यो बलवान् प्रयाति तद्धाम सत्यं त्रिदिवेन्द्रतुल्यः ॥ १९॥ कान्तार्णमन्तर्जपते स्मरान्ते यो वेदमातर्दिवसावसाने । वश्यो वशी तस्य पदारविन्दे सुश्रूषमाणो भवता भवन्ति ॥ २०॥ मन्त्रान्तरस्थं ठद्वयं जपेद्यस् तेजोरूपं साधकसाधकेशि । तस्याप्यास्ये भारती तस्य हस्ते लक्ष्मीः कुर्याद्वास आकल्पकालम् ॥ २१॥ भूगेहवृत्तस्रयषोडशार नानास्त्रदिक्कोणयुगानि विन्दौ । निषेदुषीं शीधुरसाकुलाक्षी ज्यक्षीं त्रिवर्णां त्रिपदां भजामि ॥ २२॥ देवि त्रैलोक्यमातर्लगुडवरकरे पुष्पमालावतंसे नानारत्नप्रभाढ्ये त्रिनयनविलसत्सूर्यचन्द्राग्निनेत्रे । पीठे वै पञ्चवक्त्रे वलयमणिविभाभासुरे नूपुराढ्ये श्रीमन्नीलोत्पलाभे त्रिभुवनहृदये वेदमातः प्रसीद ॥ २३॥ इति स्तोत्रं पुण्यं परममनुमयतत्त्वसहितं पठेद्वा गायत्रीं निशि कुजदिने वापि सततम् । पठेद्वाऽसौ दान्तः (सकलमपि) शास्त्रं गमयति लभेल्लक्ष्मीं प्रान्ते परमपदवीमातृकामपि ॥ २४॥ एतद्देवीपञ्चाङ्गं सर्व सारमनुत्तमम् । गायत्र्यास्तत्त्वमीशानि चतुर्वेदरहस्यकम् ॥ २६॥ सर्वसारमयं सिद्धिप्रदं भोगापवर्गदम् । सर्वतन्त्रेषु गुप्तं च महादिव्यं महापदम् ॥ २७॥ न दातव्यमभक्ताय कुचैलाय दुरात्मने । अन्यशिष्याय नो देयं दत्त्वा निरयमाप्नुयात् ॥ २८॥ शिष्याय शुद्धमनसे गुरुभक्ताय पार्वति । दीक्षिताय कुलीनाय देयं साधकसत्तमे ॥ २९॥ इतीदं देवि गायत्र्यास्तत्त्वसाररहस्यकम् । गुह्यं गोप्यं न दातव्यं गोपनीयं प्रयत्नतः ॥ ३०॥ इति श्री रूद्रयामलतन्त्रे गायत्रीरहस्ये परमार्थदेवतात्रिपदीगायत्रीपञ्चाङ्गं सम्पूर्णम् । गायत्री रहस्य पंचांगं Encoded and proofread by Mandar Mali aryavrutta at gmail.com
% Text title            : Gayatri Panchangam
% File name             : gAyatrIpanchAngam.itx
% itxtitle              : gAyatrIpanchANgam athavA tripadA gAyatrIstavarAjaH (rUdrayAmalatantre gAyatrIrahasye)
% engtitle              : gAyatrIpanchAngam
% Category              : devii, gAyatrI, stavarAja
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : gAyatrI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at gmail.com
% Proofread by          : Mandar Mali aryavrutta at gmail.com
% Description/comments  : Rudrayamalatantra, Gayatrirahasya
% Indexextra            : (Scan 1, 2)
% Latest update         : April 5, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org