गायत्रीराजोपचारमानसपूजा

गायत्रीराजोपचारमानसपूजा

१. ध्यानम् - मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणे - र्युक्तामिन्दुकलानिद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् । गायत्रीं वरदाऽभयाङ्कुशकशां शुभ्रं कपालं गदा शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १॥ २. आवाहनम् - उषसि मागधमङ्गलगायनैर्झटिति जागृहिं जागृहि जागृहि अतिकृपार्द्रकटाक्षनिरीक्षणैर्जगदिदं सुखिनं कुरु हेऽम्बिके ॥ ॐ ऐं ही श्रीं भगवत्यै गायत्र्यै आवाहनं समर्पयामि नमः । ॐ कनकमयवितर्दिशोभमानं दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् । मणिमयशुभमण्डपं त्वमेहि मयि कृपयेति समर्चनं ग्रहीतुम् ॥ २॥ ३. आसनम् - कनकमयवितर्दिस्थापिते तूलिकाढ्ये विविधकुसुमकीर्णे कोटिबालार्कवर्णे । भगवति रमणीये रत्नसिंहासनेऽस्मिन् उपविश पदयुग्मं हेमपीठे निधेहि ॥ ३॥ ॐ ऐं ह्रीं श्रीं भगवत्यै हेमपीठ आसनं समर्पयामि नमः ॥ ४. पाद्यम् - दूर्वया सरसिजान्वितमातः कान्तया च सहितं कुसुमाढ्यम् । पद्मयुग्मसदृशे पदयुग्मे पाद्यमेतदुररीकुरु मातः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै पाद्यपात्रात्पादयोः पाद्यं समर्पयामि नमः ॥ ४॥ ५. अर्घ्यम् - गन्धपुष्पयवसर्षपदूर्वासंयुतं कुशतिलाक्षतमित्रम् । हेमपात्रनिहितं सहरत्नैरर्घ्यमेतदुररीकुरु मातः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै अर्घ्यपात्रात् हस्तयोरर्घ्यं समर्पयामि नमः ॥ ४॥ ६. आचमनीयम् - जलजदयुतिना करेण जातीफलकङ्कोललवङ्गगन्धयुक्तैः । अमृतैरमृतैरिवाश्रितैतद्भगवत्याचमनं विधीयताम् । ॐ ऐ हीं श्रीं भगवत्यै गायत्र्यै आचमनीयपात्रादाचमनीयं समर्पयामि नमः ॥ ६॥ ७. मधुपर्कः- मधुनिहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् । तदिदं भगवति करेऽर्पितं ते मधुपर्कं जननि प्रगृह्यताम् । ॐ ऐ ह्रीं श्रीं भगवत्यै गायत्र्यै मधुपर्कपात्रात् मधुपर्कं समर्पयामि नमः ॥ ७॥ ८. आचमनीयम् - पाद्यान्ते परिकल्पितं च पदयोरर्घ्यं तथा हस्तयोः सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादयः । तोयेनाचमनं विधेहि शुचिना गाङ्गेन यत्कल्पितं साष्टाङ्गप्राणिपातयुक्तशिशुकं दृष्ट्या कृतार्थीकुरु । ॐ ऐ ह्रीं श्रीं भगवत्यै गायत्र्यै आचमनीयपात्रादिदमाचमनीयं समर्पयामि नमः ॥ ८॥ ९. स्नानम् - गङ्गासरस्वतीरेवापयोष्णीनर्मदाजलैः । स्नापिताऽसि मया देवि प्रसीद परमेश्वरि । ॐ ऐ हीं श्रीं भगवत्यै गायत्र्यै नानानदीनां जलैः स्नानं समर्पयामि नमः ॥ ९॥ १०. पञ्चामृतस्नानम् - पयो दधि घृतं चैव मधुशर्करया युतम् । पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् । ॐ ऐ हीं श्रीं भगवत्यै गायत्र्यै पञ्चामृतस्नानं समर्पयामि नमः ॥ १०॥ ११. पयः स्नानम् - स्वधेनुजातं बलवीर्यवर्द्धनं दिव्यामृतात्यन्तरसप्रदं शुभम् । श्री चण्डिके दुग्धसमुद्रसम्भवे गृहाण दुग्धं मनसा समर्पितम् । ॐ ऐ ह्रीं श्रीं भगवत्यै गायत्र्यै दुग्धस्नानं समर्पयामि नमः ॥ ११॥ १२. दधिस्नानम् - क्षीरोद्भवं स्वादु सुधामयं च श्रीचन्द्रकान्तिसदृशं सुशोभनम् । श्री चण्डिके शुम्भनिशुम्भनाशिनि स्नानार्थमङ्गीकुरु चार्पितं दधि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै दधिस्नानं समर्पयामि नमः ॥ १२॥ १३. घृतस्नानम् - श्रीक्षीरजोद्भूतमिदं मनोज्ञं प्रदीप्तवह्निदयुतिपावितं च । श्रीचण्डिके दैत्यविनाशदक्षे हैयङ्गवीनं परिग्टह्यतां च । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै घृतस्नानं समर्पयामि नमः ॥ १३॥ १४. मधुस्नानम् - माधुर्यमिश्रं मधुमक्षिकागणैर्वृक्षालिरम्ये मधकानने चितम् । श्रीचण्डिके शङ्करप्राणवल्लभे स्नानार्थमङ्गीकुरु तेऽर्पितं मधु । ॐ ऐं हीं श्रीं भगवत्यै गायत्र्यै मधुस्नानं समर्पयामि नमः ॥ १४॥ १५. शर्करास्नानम् - पूर्णेक्षुकाम्भोधिसमुद्भवामिमां माणिक्यमुक्ताफलदानमञ्जुलाम् । श्रीचण्डिके चण्डविनाशकारिणि स्नानार्थमङ्गीकुरु शर्करां शुभाम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै शर्करास्नानं समर्पयामि नमः ॥ १५॥ १६. जलस्नानम् - ॐ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् । पशूंस्तांश्चक्रे वायव्यानारण्या ग्राम्याश्च ये । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै जलस्नानं समर्पयामि नमः ॥ १६॥ १७. इक्षुरसस्नानम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै इक्षुरसस्नानं समर्पयामि नमः ॥ १७॥ १८. सुगन्धितैलम् - एतत्वम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्धमद्भिर्वृतम् ॥ सानन्दं शुभसुन्दरीभिरभितो हस्ते धृते चिन्मये केशेषु भ्रमरप्रभेषु सकलस्वाङ्गेषु चालिप्यताम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सुगन्धिततैलं समर्पयामि नमः ॥ १८॥ १९. उद्वर्त्तनस्नानम् - मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्त्तनं भक्त्याहं कलयामि हैमरजसा सम्मिश्रितं केसरैः । केशानानामलकैर्विशोध्य विशदं कस्तूरिकाद्यर्चितैः स्नानं ते नवरत्नकुम्भविधिना संवासितोष्णोदकैः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै उद्ववर्त्तनस्नानं समर्पयामि नमः ॥ १९॥ २०. सुगन्धिजलम् - एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकैः माणिक्यादिकमौक्तिकामृतयुतैः स्वच्छैः सुवर्णोदकैः । मन्त्रान् वैदिकतान्त्रिकान् परिपठन् सानन्दमत्यादरं स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सुगन्धिजलस्नानं समर्पयामि नमः ॥ २०॥ २१. शुद्धोदकस्नानम् - उद्गन्धैरगुरूद्भवैः सुरभिणा कस्तूरिकावारिणा स्फूर्जत्सौरभयक्षकर्दमजलैः काश्मीरनीलैरपि ॥ पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरवासोभरैः स्नानं ते परिकल्पयामि कमले भक्त्या तदङ्गीकुरु । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै शुद्धोदकस्नानं समर्पयामि नमः ॥ २१॥ २२. वस्त्रम् - बालार्कद्युति दाडिमीयकुसुमप्रस्पर्द्धि सर्वोत्तम मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् । मुक्ताभिर्ग्रन्थितं च कञ्चुकमिदं स्वीकृत्य पीतप्रभं तप्तस्वर्णसमानवर्णमतुलं प्रावारमङ्गीकुरु । ॐ ऐं हीं श्रीं भगवत्यै गायत्र्यै वस्त्रं समर्पयामि नमः ॥ २२॥ २३. उपवस्त्रम् - कौशेयैर्ग्रथितं दिव्यं नानरत्नयुतं वरम् । उपवस्त्रं मया दत्तं गृहाण परमेश्वरि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै उपवस्त्रं समर्पयामि नमः ॥ २३॥ २४. आचमनम् - भूपालदिक्पालकिरीटरत्नमरीचियोगार्चितपादपीठैः । देवैः समाराधितपादपद्यैः श्रीचण्डिके स्वाचमनं गृहाण । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै आचमनं समर्पयामि नमः ॥ २४॥ २५. पादुके - नवरत्नयुते मयार्पिते कमनीये तपनीयपादुके । - सविलासमिदं पदद्वयं कृपया देवि तयोर्निधीयताम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै रत्नखचितस्वर्णनिर्मिते पादुके समर्पयामि नमः ॥ २५॥ २६. मण्डपप्रवेशम् - नानारत्नसमाकीर्णं मणिस्तम्भविराजितम् । मण्डपं प्रविश त्वं हे मातः शीघ्रं प्रसीद मे । ॐ ऐं ह्रीं श्रीं भगवति मातः मण्डपं प्रविश ते नमः ॥ २६॥ २७. सिंहासनारोहणम् - मुक्ताविद्रुमनीलमरकततमणिप्रख्ये शुभेऽत्युज्ज्वले तिग्मांशुप्रविकासिहेमरचिते सिंहैः सदालङ्कृते । कौशेयैः सुसमावृतेऽतिमृदुले नानोपधानावृते मातस्त्वं पदवीं निधेहि कृपया दिव्येऽति सिंहासने । ऐं ह्रीं श्रीं भगवति गायत्रि सिंहासनमधिरुह्यतां नमः ॥ २७॥ २८. केशपाशसंस्कारः- बहुभिरगुरुधूपैः सादरं धूपयित्वा भगवति तव केशान् कङ्कतैर्मार्जयित्वा ॥ सुरभि (कमलवृन्दैः) श्चम्पकैश्चार्चयित्वा झटिति कनकसूत्रैर्जुटयन् वेषयामि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै केशपाशान् वेष्टितुं प्रार्थयामि नमः ॥ २८॥ २९. सौवीराञ्जनम् - सौवीराजनमिदमम्ब चक्षुषोस्ते विन्यस्तं कनकंशलाकया मया यत् । तन्नूनं मलिनमपि त्वदक्षिसङ्गात् ब्रह्मेन्द्रादयभिलषणीयतामियाय । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सौवीराञ्जनं समर्पयामि नमः ॥ २९॥ ३०. अलङ्काराणि - मञ्जीरान् पदयोर्निधाय रुचिरान् विन्यस्य काञ्ची कटौ मुक्ताहारसुरोजयोरनुपमं नक्षत्रमालां गले । केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमात् ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ धम्मिल्ले तव देवि हेमकुसमान्याधाय भालस्थले मुक्ताराजिविराजि हेमतिलकं नासापुटे मौलिकाम् । मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः कटयां काञ्चनकिङ्किणीं विनिदधे रत्नावतंसौ श्रुतौ । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नानालङ्कराणि समर्पयामि नमः ॥ ३०॥ ३१. गन्धम् - प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोक्षितम् । कुर्वे केशकलापमायततरं घूपोत्तमैर्धूपितम् । काश्मीरैरगुरुद्रवैर्मलयजैः सङ्घर्ष्य सम्पादितं भक्तत्राणपरे (विशुद्ध-) विमले श्रीचन्दनं गृह्यताम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै गन्धं समर्पयामि नमः ॥ ३१॥ ३२. कुङ्कुमम् - मातर्भालतले तवातिविमले काश्मीरकस्तूरिका- ऽगुरुभिः संवलितं करोमि तिलकं देहेऽङ्गरागं हि तत् । वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पावृतिं पादौ कुङ्कुमलेपनादिभिरहं सम्पूजयामि क्रमात् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै कुङ्कुमं समर्पयामि नमः ॥ ३२॥ ३३. कज्जलम् - चाम्पेयकपूर्रकचन्दनादिभिर्नानाविधैर्गन्धचयैः सुवासितम् । नेत्राञ्जनार्थाय हरिन्मणिप्रभं श्रीचण्डिके स्वीकुरु कज्जलं शुभम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै कज्जलं समर्पयामि नमः ॥ ३३॥ ३४. अक्षतान् - रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः । अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै अक्षतान् समर्पयामि नमः ॥ ३४॥ ३५. अत्तरम् - जननि चम्पतैलमिदं पुरो मृगमदः पटवासक ऐडकः । विपुलगन्धमिदं च चतुःसमं सपदि सर्वमिदं परिगृह्यताम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै परिमलं समर्पयामि नमः ॥ ३५॥ ३६. सिन्दूरम् - सीमन्ते ते भगवति मया सादरं न्यस्तमेतत् सिन्दूर ते हृदयकमले हर्षवर्षं तनोतु । बालादित्यदयुतिरिव सदा लोहितायस्यकान्ति- श्चन्तर्ध्वान्तं हरतु सकलं चेतसा चिन्तयामि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सिन्दूरं समर्पयामि नमः ॥ ३६॥ ३७. मुकुटम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नवरत्नजटितस्वर्णमुकुटं समर्पयामि नमः ॥ ३७॥ ३८. पुष्पाणि - मन्दारकुन्दकरवीरलवङ्गपुष्पै- स्त्वां देवि सन्ततमहं परिपूजयामि । जातीजपाबकुलचम्पककेतकादि- नानाविधानि कुसुमानि च तेऽर्पयामि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नानाविधानि पुष्पाणि समर्पयामि नमः ॥ ३८॥ ३९. पुष्पमाला - पुष्पौघैर्द्योतयद्भिः सततपरिचलत्कान्तिकल्लोलजालैः कुर्वाणा मज्जदन्तःकरणविमलताशोभितेयं त्रिवेणी । मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निमिता दीप्यमानैः नित्यं हारं त्वं भगवति कमले गृह्यतां कण्ठमध्ये ॥ ३९॥ ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै पुष्पमालां समर्पयामि नमः ॥ ३९॥ ४०. श्वेतचूर्णम् - मन्दारवल्लीकरवीरसम्भवं कर्परपाटीरसुवासितं सितम् । श्रीश्वेतचूर्णं विधिना समर्पितं प्रीत्या त्वमङ्गीकुरु मातरद्य । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै स्वेतचूर्ण समर्पयामि नमः ॥ ४०॥ ४१. रक्तचूर्णम् - प्रत्यूषबालार्कमयूखसन्निभं जातीफलैलागुरुणा सुवासितम् । श्रीरक्तचूर्णं मनसा मयार्पितं प्रीत्यां त्वमङ्गीकुरु मातरद्य । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै रक्तचूर्ण समर्पयामि नमः ॥ ४१॥ ४२. हरिद्रा - हरिद्रमोत्थामतिपीतवर्णा सुवासितां चन्दनपारिजातैः । अनन्यभावेन समर्पितं ते मातर्हरिद्रामुररीकुरुस्व । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै हरिद्रां समर्पयामि नमः ॥ ४२॥ ४३. कुङ्कुमम् - कुङ्कुमं कामनादिव्यं कामनाकामसम्भवम् । कुङ्कुमेनार्चिता देवि प्रसीद परमेश्वरि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै कुङ्कुमं समर्पयामि नमः ॥ ४३॥ ४४. अबीरगुललाम् - अबीरं च गुलालं च चोवाचन्दनमेव च । अबीरेणार्चिता देवि ऋतं शान्तिं प्रयच्छ मे । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै अबीरं समर्पयामि नमः ॥ ४४॥ ४५. धूपम् - लाक्षारसमिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैः कर्पूराकलितैः सितामधुयुतैर्गोसर्पिषाऽऽलोडितैः । श्रीखण्डागुरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि- र्धूपं ते परिकल्पयामि जननि तद्भूपमङ्गीकुरु । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै धूपमाघ्रापयामि नमः ॥ ४५॥ ४६. दीपम् - रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा दीपितै- र्दीपैर्दीर्घतरान्धकारभिदुरैर्वालार्ककोटिप्रभैः । आताम्रज्वलदुज्ज्वलद्गगनवद्रत्नप्रदीपैः सदा मातस्त्वामहमादरादनुदिनं नीराञ्जयाम्युज्ज्वलैः । ॐ ह्रीं श्रीं भगवत्यै गायत्र्यै दीपं दर्शयामि नमः ॥ ४६॥ ४७. नैवेद्यम् - मातस्त्वां दघिदुग्धपायसमहाशाल्यन्नसन्तालिका सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः । एलाजीरकहिङ्गुनागरनिशाकौस्तुम्बरैः संस्कृतैः शाकैः शाकयुतैः सुधादिसरसैः सन्तर्पयाम्यर्पितैः ॥ सासूपसूपदधिदुग्धसिताघृतानि सुस्वादुभक्ष्यपरमान्नपुरःसराणि ॥ शाकील्लसनमरिचजीरकत्वल्लिकानि भक्ष्याणि भक्ष जगदम्ब मयार्पितानि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यैनानाविधपरिपक्व- सुमधुरपक्वफलयुक्त नैवेद्यं निवेदयामि नमः ॥ ४७॥ ४८. आचमनीयम् - गङ्गोत्तरीवेगसमुद्भवेन सुशीतलेनापि मनोहरेण । तत्पद्मपत्राक्षि मयाऽर्पितेन शाङ्खोदकेनाचमनं कुरुस्व । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नैवेद्यान्ताचमनीयं जलं समर्पयामि नमः ॥ ४८॥ ४९. पूर्वामधुरपानम् - क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदमुज्ज्वलं मधु । पानमेतदमृतोपमं त्वया सम्भ्रमेण परिणीयतां मुहुः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नैवेद्यान्ताचमनीयं जलं समर्पयामि नमः ॥ ४९॥ ५०. जलम् - अतिशीतमुशीरवासितं तपनीयोपवने निवेदितम् । पटपूतमिदं जितामृतं शुचि गङ्गामृतमेव पीयताम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै जलं समर्पयामि नमः ॥ ५०॥ ५१. उत्तराचमनीयम् - नीहारहारं वनसारसारं प्रकल्पितानेकसुगन्धिभारम् । शीताम्बु जाम्बुनदपात्रवर्त्ति पीत्वा हि विश्वेश्वरि पीयतां पुनः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै उत्तराचमनीयं समर्पयामि नमः ॥ ५१॥ ५२. करोद्वर्तनम् - उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे । कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्त्तय चन्दनेन । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै करोद्वर्त्तनं गन्धं समर्पयामि नमः ॥ ५२॥ ५३. ताम्बूलम् - कर्पूरेण युतैः लवङ्गसहितैः कङ्कोलचूर्णान्वितैः सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः । मातः केतकपत्रकेन्दुरुचिभिस्ताम्बूलवल्लीदलैः सानन्दं मुखमण्डनीयमतुलं ताम्बूलमङ्गीकुरु । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै ताम्बूलं समर्पयामि नमः ॥ ५३॥ ५४. दक्षिणा - अथ वहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य त्रिभुवनकमनीये पूजयित्वा च वस्त्रैः । मिलितविविधयुक्तैदिव्यलावण्ययुक्तां जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै दक्षिणां समर्पयामि नमः ॥ ५४॥ ५५. आरार्त्तिक्यम् - ॐ कर्पूरगौरं करुणावतारं संसारसार भुजगेन्द्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ ॐ इदं हविः प्रजननं मेऽस्तु दशवीरं सर्वगणं स्वस्तये । आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि । अग्नि प्रजां बहुलां मेऽकरोतु अन्नं पयो रेतोऽस्मासु धत्त । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै आरार्तिक्यं समर्पयामि नमः ॥ ५५॥ ५६. प्रदक्षिणा - पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति । तां सर्वपापक्षयहेतुभूतां प्रदाक्षिणां ते परितः करोमि । ॐ ऐं हीं श्रीं भगवत्या गायत्र्याः प्रदाक्षिणां करोमि नमः ॥ ५६॥ ५७. मन्त्रपुष्पाञ्जलिः - ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै मन्त्रपुष्पाञ्जलिं समर्पयामि नमः ॥ ५७॥ ५८. प्रार्थना - ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणामुम्म इषाण सर्वलोकम्म इषाण ॥ ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन् देव एकः । ॐ ऐं ह्रीं श्रीं भगवती गायत्र्यीं प्रार्थयामि नमः ॥ ५८॥ ५९. विशेषार्घ्यम् - कलिङ्गकोशातकसंयुतानि जम्बीरनारङ्गसमन्वितानि । सुनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै विशेषार्घ्यं समर्पयामि नमः ॥ ५९॥ ६०. छत्रम् - मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुविम्बप्रभं नानारत्नविशोधि हेमतिलकं लोकत्रयाह्लादकम् । भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं छत्रं ते परिकल्पयामि जननि त्वष्ट्रा स्वयं निर्मितम् । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै छत्रं समर्पयामि नमः ॥ ६०॥ ६१. चामरम् - शरदिन्दुमरीचिगौरवर्णैः माणिक्यमुक्ताविलसत्सुदण्डैः । जगदम्ब विचित्र चामरैस्त्वामहमानन्दभरेण वीजयामि । ऐं ह्रीं श्रीं भगवतीं गायत्रीं चामरेण वीजयामि नमः ॥ ६१॥ ६२. आदर्शः- मार्तण्डमण्डलनिभो जगदम्ब योऽयं भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते । पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय- मस्मिन् विलोकय विलोलविलोचनेन । ॐ ऐं ह्रीं श्रीं भगवतीं गायत्रीं दर्पणं दर्शयामि नमः ॥ ६२॥ ६३. अस्त्रम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सुदर्शनाद्यस्त्रं समर्पयामि नमः ॥ ६३॥ ६४. शस्त्रम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै गदाशखम्पाशादि शस्त्रं समर्पयामि नमः ॥ ६४॥ ६५. वाहनम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै हंससिंहगरुडादि वाहनं समर्पयामि नमः ॥ ६५॥ ६६. सैन्यम् - ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै सैन्यं समर्पयामि नमः ॥ ६७. नृत्यम् - भ्रमविलोलितकुन्तलवृन्दका गलितमाल्यविकीर्णसुभूमयः । झटिति झङ्कृतिभिर्जगदम्बिके मृदुरवा हृदयं सुखयन्तु ते । ॐ ऐं ह्रीं श्रीं भगवत्यै गायत्र्यै नृत्यं समर्पयामि नमः ॥ ६७॥ ६८. प्रणामः - ॐ ऐं ह्रीं श्रीं भगवती गायत्री साष्टाङ्ग प्रणमामि । इति राजोपचारमानसपूजा समाप्ता । समाप्ति चागादियं गायत्रीउपासनापद्धतिः । ॐ शान्तिः ! शान्तिः !! शान्तिः !!! गायत्री राज उपचार मानस पूजा उपासना पद्धति Encoded and proofread by Mandar Mali aryavrutta at gmail.com
% Text title            : Gayatri Raja Upachara Manasa Puja
% File name             : gAyatrIrAjopachAramAnasapUjA.itx
% itxtitle              : gAyatrIrAjopachAramAnasapUjA
% engtitle              : gAyatrIrAjopachAramAnasapUjA
% Category              : devii, gAyatrI, pUjA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : gAyatrI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at gmail.com
% Proofread by          : Mandar Mali aryavrutta at gmail.com
% Indexextra            : (Scan)
% Latest update         : April 5, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org