गङ्गाकवचम् दिव्यमङ्गलाख्यम्
॥ श्रीगणेशाय नमः ॥
ऋषय ऊचुः --
भगवन्! सर्वधर्मज्ञ! सर्वशास्त्रविशारद! ।
श्रीगङ्गायास्तु कवचं ब्रूहि नो वदतां वर! ॥ १॥
गुप्तं सहस्रनामाख्यं स्तोत्रं परमपावनम् ।
इदानीं श्रोतुमिच्छामि गङ्गायाः कवचं शुभम् ॥ २॥
यस्य श्रवणमात्रेण गङ्गादेवी प्रसीदति ।
पापानि च विलीयन्ते वर्धन्ते धनसम्पदः ॥ ३॥
सनत्कुमार उवाच --
शृणुध्वं मुनयः सर्वे गुह्याद्गुह्यतरं परम् ।
जाह्नव्या दिव्यकवचं भुक्तिमुक्तिफलप्रदम् ॥ ४॥
ॐ अस्य श्रीगङ्गाकवचमन्त्रस्य श्रीसदाशिव ऋषिरनुष्टुप् छन्दः
संसारतारिणी श्रीगङ्गा देवता श्री बीजं गं शक्तिः गामिति कीलकं
मम सकलपापक्षयपूर्वकं मोक्षसाधने जपे विनयोगः ॥
अथ ध्यानं प्रवक्ष्यामि गङ्गायाः सुरदुर्लभम् ।
यत् कृत्वा मुनयः सम्यक् परां सिद्धिमितो गताः ॥ ६॥
नेत्रत्रयोद्भासितचारुदेहां श्वेताम्बरां चन्द्रकलात्मिकां च ।
माणिक्यमुक्ताफलभूषिताङ्गी श्वेतातपत्रां करुणारसार्द्राम् ॥ ७॥
सूर्येन्दुकोटिद्युतिमङ्गनाभिः सचामराभिः परिवीज्यमानाम् ।
चतुर्भुजां हस्तचतुष्टयेन वराभये पद्मयुगं दधानाम् ॥ ८॥
दिव्यानुलेपेन विभूषिताङ्गी दिव्यां दधानां स्रजमादिशक्तिम् ।
सुरैरनेकैरृषिभिश्च दिव्यैर्निषेव्यमानामुपचारयोगैः ॥ ९॥
नानाविधान्पातकिनः प्रपत्रान् सन्तारयन्ती करुणादृशार्द्राम् ।
ध्यायेदिमां पूर्णशशांङ्कशुभ्रां नदैर्नदीभिः परिसेव्यमानाम् ॥ १०॥
एवं ध्यात्वा महादेवी गङ्गां त्रिभुवनेश्वरीम् ।
जपेन्मन्त्रं महादेव्यास्तस्योद्धारो निरूप्यते ॥ ११॥
प्रणवो वाग्भवं माया कामबीजं नमः पदम् ।
भगवत्यम्बिके अम्बालिके पदमथोद्धरेत् ॥ १२॥
महामालिनि तस्यान्त एह्योहि पदमुद्धरेत् ।
अशेषतीर्थालवाले मायालक्ष्मीर्मनोभवः ॥ १३॥
ततः शिवजटाजूटाधिरूढे पदमुद्धरेत् ।
गङ्गे गङ्गाम्बिके स्वाहा मनुर्द्विकरणाक्षरः ॥ १४॥
सर्वसम्पत्प्रदः सर्वपातकौघविनाशनः ।
सर्वकल्याणनिलयो गङ्गासान्निध्यकारकः ॥ १५॥
एतस्य मन्त्रराजस्य महादेव ऋषिः स्वयम् ।
विराट् छन्दः स्मृतं देवी जाह्नवी देवता स्वयम् ॥ १६॥
तारो बीजं वाग्भवं च शक्तिर्माया च कीलकम् ।
तारकं कामबीजं च मुक्तौ च विनियोगकः ॥ १७॥
कुर्यात् षडंङ्ग मन्त्रं स्वमायया प्रणवाद्यया ।
षड्दीर्घभिनयात्पश्चाज्जपेन्मन्न्त्रं शताष्टकम् ॥ १८॥
ततस्तु कवचं देव्याः पठेत् सर्वार्थसिद्धये ।
तदहं संप्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ॥ १९॥
प्राच्यां श्रीजाह्नवी पातु याम्यां गङ्गा सदाऽवतु ।
भीष्मसूः पश्चिमायां मे उदीच्यां सुरनिम्नगा ॥ २०॥
भागीरथ्यग्निकोणे मां त्रिस्रोताः पातु नैरृते ।
वायव्ये मां श्वेतवासा ईशाने त्रिपथस्थिता ॥ २१॥
ब्रह्मगङ्गा चोर्ध्द्वदेशमधः पातालजाह्नवी ।
दिग्विदिक्प्रान्तराले मां गङ्गा स्वर्गगताऽवतु ॥ २२॥
हृदस्ते पातु मे केशानभयं मे शिरोऽवतु ।
भालं मे कमलं पातु ध्रुवौ चन्द्रकलाऽवतु ॥
नेत्रे पातु जगद्धात्री ममोष्ठं विजयाऽवतु ।
विष्णुः पद्मधरं पातु श्रोत्रे पातु सुदर्शना ॥ २३॥
मन्दाकिनी दन्तपङ्क्तिं स्वर्गगागण्डयुग्मकम् ।
सुधाजला पातु जिह्वां वाणी पातु मुखं मम ॥ २४॥
तोतला तालुदेशं मे चिबुकं सर्वमङ्गला ।
मन्दाकिनी वक्त्रवृत्तं व्योम-गङ्गाजलं मम ॥ २५॥
कृकोटिकां कल्मषघ्नी स्कन्धयोः सुरनिम्नगा ।
कौर्मी पातु भुजद्वन्द्वं पाण्योः फलकमीश्वरी ॥ २६॥
कराङ्गुलीः पातु चान्द्री नखानाकाशचन्द्रिका ।
सूर्यमण्डलगा पातु कक्षां सागरतारिणी ॥ २७॥
वक्षःस्थलं पातु नित्यं देवी मेऽलकनन्दिका ।
हृदयं पातु चक्षुमें सीता पातूदरं मम ॥ २८॥
पार्श्वयोः पर्वतद्रावा स्तनौ सोमेश्वरी तथा ।
जगदुद्धारिणी नाभिं पृष्टं मकरवाहना ॥ २९॥
विष्णुशक्तिः कटिं पातु स्फिचौ पातु दयाम्बुधिः ।
विष्णु पादाब्जसम्भूता गुह्यं मे परिरक्षतु ॥ ३०॥
कृपाकोमलगात्री सा मूलाधारं ममावतु ।
स्वाधिष्ठानं पातु नित्यं पापादथ दवानला ॥ ३१॥
पायान्मे मणिपूरं सा शान्तनोः सुखवर्धिनी ।
अनाहतं सदा पायाद् भगीरथनिषेविता ॥ ३२॥
विशुद्धचक्रं मे पातु वशिष्ठोपासिताम्बिका ।
आज्ञाचक्रं मम प्रीत्या विश्वामित्रार्चिताऽवतु ॥ ३३॥
ब्रह्मरन्ध्रं सदा पातु स्रवत्पीयूषमन्दिरम् ।
स्वयम्भूलिङ्गिनी लिङ्गं कुण्डली परदेवता ॥ ३४॥
पतितोद्धारिणी पातु जठरं शङ्करप्रिया ।
जटालङ्कारिणी शम्भोरुरूयुग्मं ममावतु ॥ ३५॥
जानू मृडानी मे पातु जङ्घे पातु जगत्प्रसूः ।
लावण्यशेवधिः पातु गुल्फो गगनमेखला ॥ ३६॥
मत्स्यकक्षपहंसालिराजिता पातु पादयोः ।
पादांङ्गुलीः पातु नित्यं निश्रेणी समनोहरे ॥ ३७॥
रसासृङ्मांसमेदांसि पातु मे भवतारिणी ।
मनोबुद्धिमहन्तां मे पातु नारायणी सदा ॥ ३८॥
आयुः कल्याणदा पातु वयो रक्षतु वैष्णवी ।
भार्यां वृद्धिकरी पातु पुत्रान् वंशकरी मम ॥ ३९॥
गृहं रक्षतु लक्ष्मी में पातु क्षेत्रं शिवप्रिया ।
धर्मकर्त्री यशः पातु धर्मं पातु मनःस्विनी ॥ ४०॥
कुलं कुलेशी मे पातु सद्गतिं पातु सद्गतिः ।
जले स्थलेऽनलेऽरण्ये पाताले रणसङ्कटे ॥ ४१॥
दुर्गे गृहे जगन्नाथा पातु सर्वनदीश्वरी ।
अग्रतः पातु गङ्गोर्ध्वं पातु गङ्गा च पार्श्वयोः ॥ ४२॥
गङ्गैव पृष्ठतः पातु तथाधः पातु मे वपुः ।
इतीदं कवचं दिव्यं गङ्गायाः परमाद्भुतम् ॥ ४३॥
ऋषयः कथितं साक्षान्महापातकनाशनम् ।
एककालं द्विकालं वा त्रिकालं यः सदा पठेत् ॥ ४४॥
गङ्गायाः श्रावयेद्वापि तस्य पापं प्रणश्यति ।
वर्धन्ते सम्पदः सर्वाः सम्पद्यन्ते मनोरथाः ॥ ४५॥
जायते सिद्धयोऽष्टौ च नश्यन्ति विपदः क्षणात् ।
कुष्ठात् प्रमुच्यते कुष्ठी व्याधिभ्यश्चापि मुच्यते ॥ ४६॥
निर्मलं स्यान्मनस्तस्य विशुद्धं स्फटिकोपमम् ।
यस्य यस्य च देवस्य क्रियते पूजनं जपः ॥ ४७॥
तस्य तस्य प्रसादं सा गङ्गादेवी प्रयच्छति ।
पातकानामनेकानां प्रायश्चित्तं चिकीर्षुणा ॥ ४८॥
पठनीयं तु गङ्गायाः कवचं पातकापहम् ।
गङ्गामाहात्म्यविण्मन्त्री गङ्गा-कवचमभ्यसेत् ॥ ४९॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
सर्वाणि तेन दानानि दत्तानि मुनिपुङ्गवाः ॥ ५०॥
श्रीविष्णुस्तोषितस्तेन तोषितस्तेन शङ्करः ।
अर्घ्यदानेन सन्तुष्टः कृतस्तेन दिवाकरः ॥ ५२॥
तस्य पापानि नश्यन्ति महान्त्यपि न संशयः ।
नाभिमात्रे जले स्थित्वा यो गङ्गाकवचं पठेत् ॥ ५३॥
स स्वप्ने पश्यति क्षिप्रं जाह्नवी पुरतः स्थिताम् ।
इदं कवचमज्ञात्वा गङ्गामन्त्रं जपेन्नरः ॥ ५४॥
सर्वविघ्नैः स बाध्यः स्याद्व्याघ्रैर्मृगंशिशुर्यथा ।
गङ्गा गङ्गेति यो ब्रूयाद् योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो हरिसायुज्यमाप्नुयात् ॥ ५५॥
इदं गङ्गाजले स्थित्वा कवचं यः सकृज्जपेत् ।
भूतप्रेतपिशाचादिबाधाभ्यो मुच्यते क्षणात् ॥ ५६॥
पितरस्तृप्तिमायान्ति कवचस्यास्य पाठतः ।
श्राद्धकाले पठेन्मर्त्यो नयेत्स्वर्गं पितामहान् ॥ ५७॥
भूर्जे लिखित्वा कवचं मस्तके धारयेद्यदि ।
यत्र तत्र विपन्नोऽपि वाराणस्यां मृतो भवेत् ॥ ५८॥
मुनिभिः कथितं देव्याः जाह्नव्याः कवचोत्तमम् ।
यूयं पठध्वं सततं सद्गतिं समवाप्स्यथ ॥ ५९॥
॥ इति श्रीब्रह्माण्डपुराणे ऋषिसनत्कुमारसंवादे
गङ्गाया दिव्यमङ्गलं नाम कवचं सम्पूर्णम् ॥
शुभमस्तु ।
शुभमस्तु सर्वजगतः ।
॥ श्रीगङ्गायै नमः ॥
Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com