गङ्गा महिमा अथवा गङ्गायात्रा विधि

गङ्गा महिमा अथवा गङ्गायात्रा विधि

गङ्गायात्रां चरेन्मर्त्यो मन उत्कण्ठते यदा । स्नात्वा देवानृषींश्चैव पितॄंश्चैव यमर्च्चयेत् ॥ १॥ पिधाय वाससी शुक्ले प्राणायामं समाचरेत् । मैथुनं कलहं हिंसां वर्जयेद्गाङ्गयात्रया ॥ २॥ वासश्च मलिनं नैव गृह्णीयाद्गाङ्गयात्रिकः । गुरुं गणेशं विष्णुञ्च शिवं दुर्गां सरस्वतीम् ॥ ३॥ गोब्राह्मणसतीश्चैव प्रणमेद्गाङ्गयात्रिकः । गुरवः पितरो देवा दिक्पालाश्च ग्रहास्तथा ॥ ४॥ ऋषयश्चारणाः सिद्धाः गन्धर्वाः किन्नरास्तथा । सर्वा देव्यश्च देवानां प्रणम्यन्ते मयाधुना ॥ ५॥ गङ्गास्नानार्थचात्राया भवन्तु मम साधकाः । इत्येवं मन्त्रमुच्चार्य्य गङ्गायात्रां समाचरेत् ॥ ६॥ गङ्गे देवि लोकमातर्विघ्नोत्सारिणि ते नमः । त्वद्दर्शनाय सद्यात्रां करोम्यत्रानुमोदय ॥ ७॥ इत्येवं मन्त्रमुच्चार्य्य गङ्गायात्रां समाचरेत् । विल्वञ्च तुलसीञ्चैव प्रणम्य भक्तिसंयुतः ॥ ८॥ विल्वपत्रमुपाघ्नाय गङ्गायात्रां समाचरेत् । शयने भोजने दाने पथि रात्रौ दिवा तथा ॥ ९॥ गङ्गा गङ्गेति संस्मृत्य कालं संयापयेन्नरः । गङ्गायात्रां समासाद्य पथि चेन्म्रियते जनः ॥ १०॥ गङ्गामृत्युफलं तस्य भवत्येव न संशयः । गङ्गाया दर्शने देवा आचरन्ति विरोधनम् ॥ ११॥ येनासाववगाह्यैनां नास्माभिः समतामियात् । कृतगङ्गार्थयात्रस्य शरीरे पापसञ्चयाः ॥ १२॥ भवन्ति विकलाः सर्वे तमांसीव क्षपात्यये । ते पि विघ्नानाचरन्ति येनासौ नैव गच्छतु ॥ १३॥ गङ्गाया वायुसंसर्गं प्राप्य पापैर्विमुच्यते । तदा विरोधं वै देवा आचरन्त्यस्य गच्छतः ॥ १४॥ गङ्गावायोस्तु संसर्गे पठेत्स्तवमिमं नरः । सर्वदेवेश्वरो येन परितुष्यति केशवः ॥ १५॥ स्वे महिम्नि स्थितं देवमप्रमेयमजं विमुम् । शोकमोहविनिर्मुक्तं ध्याये विष्णुं सनातनम् ॥ १६॥ आसनाद्यैरसंस्पृष्टं सेवितं योगिभिः सदा । निर्गुणं सर्वगं शान्तं ध्याये विष्णुं सनातनम् ॥ १७॥ सर्वदोषविनिर्मुक्तं सुप्रभावं सुनिर्मलम् । निष्कलं शाश्वतं देवं ध्याये विष्णुं सनातनम् ॥ १८॥ अतुलं सुखधर्माणां व्योमदेहं सनातनम् । धर्माधर्मसमायुक्तं ध्याये विष्णुं सनातनम् ॥ १९॥ क्षराक्षरविनिर्मुक्तं जन्ममृत्युविवर्जनम् । अभयं सत्यसङ्कल्पं ध्याये विष्णुं सनातनम् । अमृतं साधनं साध्यं यं पश्यन्ति मनीषिणः ॥ २०॥ ज्ञेयाख्यं परमात्मानं ध्याये विष्णुं सनातनम् । व्यासाद्यैरृषिभिः सर्वैर्ध्यानयोगपरायणैः ॥ २१॥ अर्च्चितं भावकुसुमैर्ध्याये विष्णुं सनातनम् । विष्ण्वष्टकमिदं पुण्यं योगीनां हर्षदायकम् ॥ २२॥ यः पठेत्परया भक्त्या स विष्णुतुल्यतामियात् । विष्णुतुल्यस्तदा भूत्वा गङ्गां पश्येदनन्यथा ॥ २३॥ दृष्ट्वा गङ्गां महापुण्यां प्रणमेद्दण्डवन्मुदा । गङ्गे देवि जगन्मातः शिवशीर्षकृतालये ॥ २४॥ जन्मैतत्सफलम्मेऽस्तु भवतीं प्रणमाम्यहम् । एतेन खलु मन्त्रेण ह्यष्टाङ्गैः प्रणमेच्छिवाम् ॥ २५॥ स्मृतासि गङ्गे दृष्टासि स्पृशामि त्वां महेश्वरीम् । विष्णुदेहद्रवाकारे प्रसीद जगदम्बिके ॥ २६॥ एतेन खलु मन्त्रेण स्पृशेद्देवीं सनातनीम् । ततो द्विवासाः स्नायाच्च इष्टदेवप्रियार्थकः ॥ २७॥ मज्जन्ति येऽस्मिन्किल देहभाजो न ते निमज्जन्ति पुनर्भवाब्धौ । सोऽयं पुरस्तात्पयसां प्रभावो गङ्गेति यं गायति वेदवर्गः ॥ २८॥ आवाहनञ्च तीर्थानां नापेक्ष्यं जाह्नवीजले । निःसङ्कल्पोऽपियः स्नायात्स च पापैर्विमुच्यते ॥ २९॥ देवर्षिपितृलोकानां तर्पणं विधितश्चरेत् । सम्पूजयेदिष्टदेवं चिन्तान्तरपराङ्मुखः ॥ ३०॥ गङ्गातीरे वसेन्मर्त्यस्त्रिरात्रमपि नान्यथा । यं क्षणं तत्र वसति स एव सार्थकः क्षणः ॥ ३१॥ गमने प्रार्थयेद्देवीं पुनर्दर्शनकाम्यया । मात्रा पित्रा दुहित्रा वा भार्य्यापुत्रधनादिभिः ॥ ३२॥ त्यक्तस्य न तथा दुःखं यथा गङ्गावियोगजम् । नैव स स्यात्क्षणो ब्रह्मन्यत्र गङ्गा न विद्यते ॥ ३३॥ न गम्यते च देशोऽसौ यत्र गङ्गा न विद्यते । एकपादस्थितो यस्तु तपत्ययुतवत्सरान् ॥ ३४॥ दण्डमात्रन्तु गङ्गायां वसेत्स तु विशिष्यते । एवन्तु दण्डसङ्ख्याभिर्मासपक्षादिवासतः ॥ ३५॥ फलं दत्ते भगवती गङ्गावासिजनाय वै । यान्कालान्स्वर्धूनीतीरे वसेन्मर्त्यः समाहितः ॥ ३६॥ तावदेवास्य पितरो देवाश्च परितोषिताः । तावत्तु ब्रह्मचर्य्येण कालं संयापयेद्विज ॥ ३७॥ तावदेव परस्यान्नं न भुञ्जीत कदाचन । तैर्दत्तञ्च न गृह्णीयात्परनिन्दां न चाचरेत् ॥ ३८॥ गङ्गातीरस्थितो यस्तु परनिन्दां समाचरेत् । सर्वभूतमयो विष्णुस्तस्मै क्रुद्धेऽत् पराङ्मुखः ॥ ३९॥ गङ्गास्नानार्थमागत्य यो गृह्णाति गृहीजनः । तण्डुलं वा सुवर्णं वा वस्त्रादिं वा कदाचन ॥ ४०॥ न तस्य फलसिद्धिः स्यात्सम्यग्गङ्गा प्रयोजनम् । स पङ्गुः स सदा काणः स एव पापराशिमान् ॥ ४१॥ यो गङ्गानिकटं प्राप्य गङ्गास्नानमुपेक्षते । सायं प्रातश्च मध्याह्ने द्रष्टव्या तीरवासिभिः ॥ ४२॥ गङ्गातीराद्गतो दूरं न स्नात्वा यस्तु जाह्नवीम् । ब्रह्महयादिभिः पापैस्तत्क्षणात् स प्रलिप्यते ॥ ४३॥ गङ्गास्नानरतं मर्त्यं गङ्गातीरनिवासिनम् । पूजयित्वा यथान्यायमश्वमेधफलं लभेत् ॥ ४४॥ अगङ्गदेशवासी यो भग्नरागो द्विजर्षभ । न गङ्गामाश्रयेद्देवीं परः स विधिवञ्चितः ॥ ४५॥ ग्रामजनपदाः शैला आश्रमाः शुचयो हिते । येषां भागीरथी गङ्गा मध्ये याति सरिद्वरा ॥ ४६॥ मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् । गङ्गां यः सेवते सोऽत्र बुद्धेः पारं परं गतः ॥ ४७॥ कृतपुण्या महात्मानो देवलोकप्रपूजिताः । सहस्रसूर्य्यप्रतिमां गङ्गां पश्यन्ति ते भुवि ॥ ४८॥ साधारणजलापूर्णां साधारणनदीमिव । पश्यन्ति नास्तिका गङ्गां पापोपहतलोचनाः ॥ ४९॥ अगङ्गवासं सन्त्यज्य यो गङ्गावासमाव्रजेत् । स हि बुद्धिमतां श्रेष्ठो देवैरपि सुदुर्लभः ॥ ५०॥ पैतृकी वसतिर्यस्य गङ्गातीरे द्विजर्षभ । मनुष्यचर्म्मणा नद्धः स शिवो नात्र संशयः ॥ ५१॥ गङ्गातीरनिवासाय कन्यां दत्ते तु यः शुभाम् । प्रत्यहं पितरस्तस्य गयाश्राद्धस्य भोगिनः ॥ ५२॥ गङ्गातीरनिवासाय यो भूमिं प्रददाति वै । स्वर्गराज्यं स भुङ्क्ते वै यावदिन्द्राश्चतुर्द्दश ॥ ५३॥ कृतापराधञ्च नरं गङ्गातीरनिवासिनम् । यस्ताड़येद्वचोदण्डैस्तस्य पापफलं श‍ृणु ॥ ५४॥ विमुखास्तस्य वै देवाः पितरश्चाप्युपोषिताः । गङ्गा परित्यजेत्तं वै सोऽगतिश्चिरनारकी ॥ ५५॥ गङ्गातीरालयं मर्त्यं सूर्य्यतुल्यं य ईक्षते । तस्यैव विमलं चक्षुर्देवदर्शनसाधनम् ॥ ५६॥ गङ्गातीरालयान्लोकान्गङ्गालोकान्वदेत यः । स एवानुगृहीतः स्याद्गङ्गया द्विजपुङ्गव ॥ ५७॥ गङ्गातीरालयान्मर्त्यान्देवैरर्यान्कुधीर्जनः । मनुष्यबुद्ध्या पापिन्या जैमिने ह्यवमन्यते ॥ ५८॥ देवा मनुष्यरूपेण गङ्गातीरे चरन्ति वै । तस्मात्तान्नावमन्येत श्रेयोर्थी न कदाचन ॥ ५९॥ गङ्गातीरद्वये विप्र पिशाचाश्च शिवाज्ञया । कोटयः पञ्चलक्षाणि तिष्ठन्ति वायुरूपिणः ॥ ६०॥ श‍ृणु तेषाञ्च कर्म्माणि यदर्थे ते निरूपिताः । ये तत्र पापकर्म्माणो गङ्गातीरे द्विजर्षभ ॥ ६१॥ त्यजन्ति विष्ठामूत्राणि श्लेष्मकेशनखादि च । तत्रैव तांस्ते सर्वाणि भोजयन्त्यनुरूपतः ॥ ६२॥ ये मिथ्यावादिनो दुष्टा गुरुसेवापराङ्मुखाः । वृथा हिंसारताः क्रूरा विश्वासघातिनस्तथा ॥ ६३॥ तांस्ते गङ्गापिशाचा वै मुमूर्षून्गाङ्गरोधसि । क्षेत्रान्नारायणान्नीत्वा स्थापयन्ति नभःस्थले ॥ ६४॥ शून्ये सन्त्यज्य प्राणांस्ते यान्ति दुर्गतिमुत्तमाम् । तन्न पश्यन्ति पापिष्ठाः पश्यन्ति दिव्यचक्षुषः ॥ ६५॥ जैमिने वर्णयाम्यस्य लक्षणानि निबोध मे । शनिमङ्गलवारे वा निशीथे लुप्तबोधनः ॥ ६६॥ विष्ठामूत्रं त्यजन्भूरि चिररोगी बहूनपि । वासरान्लुप्तसङ्गश्च सदाघूर्णितलोचनः ॥ ६७॥ ऊद्धर्वश्वासो हृष्टदेहो गतसर्वेन्द्रियाशयः । यो म्रियेत स एवायं पिशाचैर्यस्तु क्षिप्यते ॥ ६८॥ गङ्गाभैरवनामनः सन्त्यन्ये शिवकिङ्कराः । ते रक्षन्ति सदा गङ्गां नानारूपविहारिणः ॥ ६९॥ ते तु कुर्वन्ति कर्म्माणि तानि विप्र निबोध मे । यान्यदत्तानि पुष्पाणि नैवेद्यादीनि यानि च ॥ ७०॥ गङ्गाप्रवाहस्पृष्टानि गृहीत्वा तानि ते शिवाम् । पूजयन्ति महाभाग शिवविष्ण्वादिकानपि ॥ ७१॥ वस्त्रनिष्पीड़ैतं वारि त्यक्तं चाधोऽंशुकं जले । गृह्णन्ति शिरमा ते वै गङ्गापाताभिशङ्कया ॥ ७२॥ मदमात्सर्य्यहिंसादियुक्तान्दुष्टधियो जनान् । दूरीकुर्वन्ति ते देवा यत्ते स्युरन्यतो मृताः ॥ ७३॥ ॥ इति गङ्गाज्ञानम् ॥ ॥ बृहद्धर्मपुराणम् । मध्यखण्डः । अध्यायः ५५ - गङ्गाधर्मः ॥ Note: The text is about do-s and don't-s of Ganga Yatra and also about phala of doing certain karma there (mahimA). Proofread by Ruma Dewan
% Text title            : Ganga Mahima Ganga Yatra Vidhi
% File name             : gangAmahimAgangAyAtrAvidhi.itx
% itxtitle              : gaNgAmahimA athavA gaNgAyAtrA vidhi (bRihaddharmapurANAntargatA)
% engtitle              : gangAmahimA gangAyAtrA vidhi
% Category              : devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : Brihaddharmapurana  madhyakhaNDaH | adhyAyaH 55 \- gaNgAdharmmaH, gaNgAjnAnam
% Indexextra            : (Scan)
% Latest update         : March 19, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org