गङ्गातरङ्गः

गङ्गातरङ्गः

॥ श्रीगणेशाय नमः ॥ श्रीगङ्गे भागीरथि श्रीशङ्करमौलिमालतीमाले । करुणावति जय भगवति पाहि कृपापाङ्गतः शिवसदये ॥ १॥ पङ्क्तावुपविष्टानां सर्वेषां तर्पणं समं न्याय्यम् । मम तु श्रोत्रं तृप्तं गङ्गे ! रीतिः कथं त्वदीयेयम् ॥ २॥ सर्वेन्द्रियसौहित्यं यथा भविष्यति तथा लघु विधेयम् । अद्यावधि यज्जातं जातं गङ्गे ! त्वया दया कार्या ॥ ३॥ दयनीयोऽयं गङ्गे सर्वैधर्मादिभिः परित्यक्तः । यामि शरणं कमधुना त्वया विना व्रात्यराजोऽहम् ॥ ४॥ पूर्वं समुद्धृतः कति संप्रत्युद्धर्तुमनलसासि त्वम् । अग्रे समुद्धरिष्यसि तन्मध्ये मादृशो नैव ॥ ५॥ पूर्वं न चैव मादृङ् नोचेदानीं पुरः कुतो भविता । इति सङ्ख्यातुमनलसा भव भवति जाह्नवि त्रिपथगे त्वम् ॥ ६॥ पापिन उद्धर्तु त्वं बद्धपरिकरा श्रुतं मनीषिभ्यः । इत्थं सति मद्विषये गङ्गे केयं प्रमीला त्वम् ॥ ७॥ प्राक्कर्म पचेलिमतामाप्तमिदानीन्तने जनुषि । इति विदितमहो गङ्गे प्रोत्का यत्सेवनाय धिषणेयम् ॥ ८॥ तव भवतु नमस्कारो मद्विषये देवि ! भो नमस्तुभ्यम् । करुणावति जय गङ्गे पाहि कृपापाङ्गदृष्टिपातैः ॥ ९॥ कतिचिद् ब्रुवन्ति विन्दुं नितम्बमात्रं च जानुदघ्नं च । केचिद् गुल्फद्वयसम्भवसिन्धुं देवतान्तराश्रयणात् ॥ १०॥ तव संश्रयाद्धि गङ्गे भवसिन्धोरस्तितां न मन्येऽहम् । अथवा मन्ये भ्रमं खेनगरः शशविषाणमंशुजलम् ॥ ११॥ शरदां पञ्चसहस्री तवस्थितेर्मानमिति विदामाज्ञा । गङ्गे यदवधि विदिता तदवधि मां पीड्यत्यधीरत्वम् ॥ १२॥ यस्मिन्कस्मिन् हि भवे तिर्यश्चित्वं समुद्धरिष्यसि माम् । इति सत्यमथाप्यस्मिँश्चरमभवे पासि चेच्चमत्कारः ॥ १३॥ वीचीपतितं सर्वा नद्यः सन्तारयन्ति किं चित्रम् । त्वमवीचीपतितमपि हि गङ्गे सन्तारयस्यहो चित्रम् ॥ १४॥ वंशानुत्पादयसि त्वं वर्द्धयसे तथैव जीवयसि । रक्षसि विस्तारयसि स्वस्मिन्पतितं हि तारयसि ॥ १५॥ सद्वंशभवे वंशोद्धारिणि गङ्गे नमस्करोमि त्वाम् । वंश्यमपि दीनं द्विजं किं त्वं नाद्यापि तारयसि ॥ १६॥ नो तारयसि हि मां चेन्मा तारय देवि भोः स्वतन्त्रा त्वम् । मज्जयसि तर्हि मज्जय गङ्गे स्वस्मिन्सुगण्डशैलमिव ॥ १७॥ मा मास्तु मदुद्धारो नैव त्वामर्थये कदाचिदपि । क्षुद्रं यादोजातं विधाय मां स्थापयाशु निजजठरे ॥ १८॥ यद्यपि यादः क्षुद्रं चरति महच्चेत्तथापि मदनुमतिः । किं तव गतमत्र परं मज्जय नामाशु मा विधेहि चिरम् ॥ १९॥ भवसिन्धौ मज्जाया विभ्यति ताभ्यः सुविद्वांसः । नाहं विभेमि मातर्भवसिन्धौ त्वयि ममास्तु मज्जैवः ॥ २०॥ लक्ष्मीनाथं त्यक्त्वा मत्वा श्लाघ्यं कपर्दिसम्बन्धम् । गङ्गे भूमौ विचरस्यतः कपर्द्यस्मि दृग्विषयः ॥ २१॥ गोमूर्त्यश्वत्थादीनितरत्र त्वं कुरुष्व मा माम्भोः । कृमिमशकवेतसादीन् प्रविधाय स्थापयाशु निजजठरे ॥ २२॥ सगरानुद्धर्तुमना भूरन्ध्रप्लावनं कृतवती त्वम् । सगरोऽस्मि बहुलरन्ध्रः प्लावयसि न मां सुरापगे किमिति ॥ २३॥ सुरसङ्गात्सुरधुनिता प्राप्ता याता तथापि नोक्षरता । भूसुरसङ्गादधिकैकाक्षरताप्तिः कथं न सा व्रियते ॥ २४॥ त्वन्मज्जनमेव परं श्लाघ्यं मान्यं श्रुतेर्वचोऽस्माकम् । नान्यत्रामरमुक्तावलिनीराजितपदं पदं शाक्रम् ॥ २५॥ अच्युतपदच्युतापि हि दातुं नैनं पदं स्वतन्त्रा त्वम् । काऽन्येदृशी द्वितीया स्वपदभ्रष्टा सती तदर्पयितुम् ॥ २६॥ दोषत्रयापनुत्यै त्रिविधा मर्त्यास्त्वयि प्रमज्जन्ति । द्विचतुर्दशदोषाढ्यांस्तांस्त्वं कुरुषे कथं त्वेतत् ॥ २७॥ कश्चित्कञ्चिच्छ्रयतेत्याधिक्यं लब्धुमिति जनस्थित्याम् । भूतं चतुर्विधं त्वं त्रिविधं कुरुषे कथं गङ्गे ! ॥ २८॥ अम्ब ! त्वद्दर्शनतो मुक्तिर्न स्नानजं फलं जाने । इति यद्वदति विपश्चित्तदलीकः स्नानतस्त्रिमूर्तित्वम् ॥ २९॥ त्रिगुणांशं पङ्कमार्ष्टिं कर्तुं मर्त्यास्त्वयि प्रमज्जन्ति । तानविशेषेण त्वं करोषि निजलीलया त्रिगुणमूर्तीन् ॥ ३०॥ गङ्गे नश्यति जननं त्वन्मज्जनतो वदन्ति तदलीकम् । जन्तुनिवहो निमज्जँस्त्वयि भवति हि शङ्करो विधिर्विष्णुः ॥ ३१॥ स्वर्गादधः पतन्ती स्वोर्ध्वं गङ्गे निमज्जतो नयसि । सोढ्वाऽपि विपद्गणमथ सन्तः परकार्यसाधने व्यग्राः ॥ ३२॥ गङ्गाप्रार्थनातरङ्गो गङ्गाचरणे समर्पितः शिशुना । सगुणो विगुणो वा स्तां श्राव्यं कलभाषणं हि शिशोः ॥ ३३॥ इति श्रीमदार्याचार्यमयूरपण्डितानुजसूनबालकविरचितो गङ्गार्थनातरङ्गः शिवाय भूयात् ॥ Encoded and proofread by Shree Devi Kumar shreeshrii at gmail.com
% Text title            : Gangatarangah
% File name             : gangAtarangaH.itx
% itxtitle              : gaNgAtaraNgaH
% engtitle              : gangAtarangaH
% Category              : devii, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : mayUrapaNDitAnujasUnabAlakavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shree Devi Kumar shreeshrii at gmail.com
% Proofread by          : Shree Devi Kumar shreeshrii at gmail.com
% Indexextra            : (Scan)
% Latest update         : November 3, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org