देवगणैः कृता गिरिजास्तुतिः

देवगणैः कृता गिरिजास्तुतिः

गिरिराजकुमारिके शिवे चरणं ते कमलामलं कथम् । न निरीक्षितमादरेण तत् निगमैरप्यवधारितं न हि ॥ १॥ अधुना चरणाम्बुजं शिवे यदि ते दृष्टिपथं प्रयास्यति । कथमप्यघकोटिनाशकं सकलाभीष्टदमप्यसंशयम् ॥ २॥ न विमानमणिप्रभागणैः कथमप्यादरतोऽपि सर्वथा । नयनैर्न निरीक्षितं ततः कथमस्माकमुमे मतिर्भवेत् ॥ ३॥ शफरीचटुलोलदृष्टिभिः कथमप्यम्ब विलोकयाशु नः । यदि ते करुणारसालयः सुवर्गोऽप्यपवर्गसाधनम् ॥ ४॥ अतिदीनदयालुता शिवे त्वयि वेदैरपि निश्चिता ततः । अतिदीनगणेषु वाऽसुरान् गणयित्वा जगदम्ब पाहि नः ॥ ५॥ किमशक्यमिहाम्ब ते शिवे नहि दीनोच्चवचः श्रुतं च किम् । अतिदूरविलोकनेऽपि ते श्रम एवेति विशेषतो मितम् ॥ ६॥ निकटस्थितभक्तपालनं करुणावीक्षणदृष्टिभिः शिवे । कथमप्यनुवारम्बिके न हि ते कोऽपि तथा भवेच्छ्रमः ॥ ७॥ अधुना यदि गम्यते त्वया त्रिदशाधीश्वरशङ्करालयः । निलयः सुखसागरस्य ते पुनरप्यागमनं कथं भवेत् ॥ ८॥ न वयं गिरिराजकन्यके करुणापात्रमिति प्रमाऽपि ते । पतितानपि पावयस्युमे पतितेष्वेव सुरान् विलोकय ॥ ९॥ तव दृष्टिरदृष्टतो भवेदिति निर्णीतमतिप्रयत्नतः । तपसाऽपि न तस्य साधनं भवतीति प्रमितं प्रमातृभिः ॥ १०॥ किमहो न दया गिरीन्द्रजे दयनीयाः कति ते जगत्त्रये । नहि तेषु सुराः पतन्ति वा दुरदृष्टं किमिहामरेष्वपि ॥ ११॥ शिवपूजनसाधिता पुरा सुरता सा न कथं मता तव । शिवपूजकभक्तिरस्तु ते त्वमुमे शङ्करतत्परा खलु ॥ १२॥ तव यद्यपि शङ्करे रतिः त्वरया गन्तुमुमार्धविग्रहः । कथमद्य भविष्यतीति सा गिरिजे नैव हि विघ्निता भवेत् ॥ १३॥ अतिदीनसुरानुपालने न च विघ्नोऽपि पथि प्रियादरे । परमापदगाधसागरे पतितानुद्धर सादरं सुरान् ॥ १४॥ यदि गौरि भवेदुपेक्षया गमनं ते हरमन्दिरं प्रति । स शिवोऽपि कथं न पृच्छति त्रिदशाः किं न विलोकिता इति ॥ १५॥ गमनप्रतिबन्धकं च किं क्षणमात्रानवलोकनेऽपि ते । अतिदुःखमहाब्धिमालया वलिता एव सुराः शिवेन किम् ॥ १६॥ तव दर्शनमात्रतः शिवे दुरिताब्धिः प्रलयं प्रयास्यति । सुखसागरपङ्क्तिरादरात् अनुयात्येव शिवार्चकालयम् ॥ १७॥ गिरिजे स वदान्यतामगात् चरणस्तेन च तन्निरीक्षणम् । अधुना सुखसाधनं शिवे न तवायासलवोऽपि सर्वथा ॥ १८॥ तव कल्पतरुर्न वाम्बिके न च चिन्तामणिरद्रिकन्यके । सुरधेनुरियं परं त्वहो चरणः कोऽपि सुधाघनो धनः ॥ १९॥ स सुधाघनतामुपागतः चरणस्ते सुररूपपादपान् । अभिषिञ्चतु दुःखपावकप्रतितप्तानधुना मुहुर्मुहूः ॥ २०॥ क्व सुधाघनता क्व धीरता सुरचित्ताम्बुजपूजनार्हता । क्व सुरानवलोकनादरः चरणस्यास्य तवाम्ब शाम्भवि ॥ २१॥ (चरणस्यास्येति पूर्वार्धेऽन्वेति नोत्तरार्धे) करुणाब्धितरङ्गमालया ललितं ते नयनाम्बुजं शिवे । तदिदं सुरवृन्दमन्दिरे प्रसरत्वाशु सुखाम्बुधिप्रदम् ॥ २२॥ गिरिजानयनावलोकनं सुरनारीसमपेक्षितं क्षणम् । कमलाप्यनुवेलमम्बिका चरणाम्भोजरजःप्रसादजा ॥ २३॥ कमला कमलैरलं बलिं गिरिजापादुकपूजनप्रिया । पुरतः पुरतः प्रसर्पति प्रवहन्ती गिरिजे विलोकय ॥ २४॥ किमतः परमस्ति वाञ्छित गिरिजापादुकदर्शनं विना । तदनन्तसुखप्रदं शिवे त्रिदशानामपि दुर्दशापहम् ॥ २५॥ क्व चतुर्दशलोकनाथता क्व कृपासागरता दयार्द्रता । क्व निरन्तरदीनबन्धुता क्व तवाद्याप्यकृपा सुरेष्वपि ॥ २६॥ (क्व वदान्यवदान्यमान्यता क्व दयातुङ्गतरङ्गलोलता । क्व शिवाचकमातृता शिवे क्व तवाद्यान्यकृपा सुरेष्वपि ॥) मनुजेष्वपि ते दया शिवे गुरुसंसाररतेष्वनुक्षणम् । न वयं तदपेक्षया क्षताः क्षणमप्यम्ब विलोकयाशु नः ॥ २७॥ यदि ते चरणारविन्दयोः प्रभयाऽपि प्रभुभूतयाऽनयो । न वयं परितो विभूषिताः कथमस्माकमपीह जीवनम् ॥ २८॥ अमरानव शङ्करप्रिये करुणापात्रमिति स्मरामरान् । शरणं तव पादपङ्कजं न तदन्यच्छरणं सुरप्रियम् ॥ २९॥ वयमेवमुमार्धविग्रहं गिरिजामप्यभयाय सर्वदा । शरणं शरणाय कुर्महे शरणं नान्यदपेक्षित खलु ॥ ३०॥ अनुवारमुमाहरौ परं प्रणताः स्मः स्मरणैरनुक्षणम् । गतकल्मषराशयः पुनः प्रणताः स्मः प्रणताः पुनः पुनः ॥ ३१॥ यदि दैवतदैवतं प्रभुं भवमम्बां भवभारभीरवः । न वयं प्रणताः पुनः पुनः न कृतान्तोऽपि किमत्र नृत्यति ॥ ३२॥ अमिता प्रभुता तवाम्बिके तव या सैव महेश्वरेऽपि सा । न तदन्यगता ततः क्व वा शरणं नः शरणार्थिनामपि ॥ ३३॥ न महाप्रभुसेवकाः परं भवदुःखं न भवं प्रपेदिरे । न मृगेन्द्रगृहेषु कीकसाः करिमुक्ताफलमन्थरेष्वपि ॥ ३४॥ यदि ते चरणारविन्दयोः प्रसवः कोऽपि समर्पितस्तदा । अधमोऽपि नरो जगत्पतिः भवतीत्येव वदन्ति साधवः ॥ ३५॥ अमरानतिदीनवत्सले क्षणमप्यम्ब विलोकयादरात् । करुणारससारधारया दरसंसारदवातुरानुमे ॥ ३६॥ यदि ते न विलोकनं तदा सुरतायामपि नादरोऽस्ति नः । न तया फलमस्ति किं तया गिरिजे वन्ध्यतनुस्वरूपया ॥ ३७॥ तव वा किमुपेक्षया फलं प्रविलापोऽपि न नः श्रुतस्त्वया । अयि मातरुमे किमास्तिकेष्वदयाकारणमस्ति शाम्भवि ॥ ३८॥ शिव एव दयानिधिः शिवे तव तावत्कठिनं मनो यतः । अधुनाऽपि न दीनवीक्षणं क्रियते सादरमम्बुजानने ॥ ३९॥ सुतमप्यपराधसङ्ककुलं जननी पालयतीति न श्रुतम् । किसुमे वद पातकानि नः तव नामस्मरणेऽप्यनुक्षणम् ॥ ४०॥ बहुतूलगिरिप्रदाहको दवलेशो न शिवे तथैनसाम् । कुलमाशु विनाशमेत्यहो शिवनामस्मरणाग्निलेशतः ॥ ४१॥ यदि पापविनाशसाधनं शिवनामस्मरणं न शैलजे । वद तर्हि किमस्ति साधनं वद सत्यं वद तद्विमर्शतः ॥ ४२॥ निगमेष्वघनाशसाधनं शिवनामस्मरणं परं श्रुतम् । तदिदं न कथं विनाशकं त्रिविधाघौघकुलस्य शैलजे ॥ ४३॥ सितभूतिविभूषणः शिवं यदि तावत्प्रणतः स्मरन् मुदा । प्रपतन्ति महाघकोटयः पुनरुत्थानविवर्जिताः परम् ॥ ४४॥ वयमीश्वरलिङ्गपूजकाः क्व महापातकमीतिरद्रिजे । न महानलसन्निधिं गतो हिमभीतः पतितः प्रधावति ॥ ४५॥ क्षुधितोप्यमृताशनः पुमान् तृषितोऽपीति यथा तथा शिवे । शिवलिङ्गसमर्चनप्रियः न च दुःखाम्बुनिधि प्रयास्यति ॥ ४६॥ न च शङ्करपूजकार्चकोऽप्यघलेशाश्रयतामुपैत्यतः । अघसंशयवार्तयाऽपि वा न वयं शैलसुते समावृताः ॥ ४७॥ कृपया परया शिवप्रिये त्वरया पश्य दयासुधाकरान् । कुरु कापि न तावता क्षतिः न सुधारश्मिसमानता तव ॥ ४८॥ गिरिजे न चकोररक्षकः क्षणदानायक इत्यपि श्रुतः । न हि तेन समेधितस्तथा कृपया पश्य सुरान् शिवप्रिये ॥ ४९॥ किमनाथसनाथतां त्वया गिरिजे कर्तुमनुद्यमः कृतः । किमनेन फलं फलार्थिनां किमयं धर्म इति श्रुतस्त्वया ॥ ५०॥ न भवत्कृपया विना गतिः यदि गत्यन्तरमस्ति नः सदा । तव मास्तु निरीक्षणं ततो गतिहीनानमरानवाम्बिके ॥ ५१॥ अस्माकं शरणागतामरशिरःकोटीरहीरप्रभा- पारावारतरङ्गसङ्गतशिवाकान्ताङ्घ्रिपङ्केरुहे । पद्मायल्लकमल्लचञ्चलतले श्रीचन्दनापादुके दुष्टानिष्टनिवारके शरणमित्यन्यं न मन्यामहे ॥ ५२॥ ॥ इति शिवरहस्यान्तर्गते देवगणैः कृता गिरिजास्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ६। ५-५६ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 6. 5-56 .. Proofread by Ruma Dewan
% Text title            : Devaganaih Krita Girija Stuti
% File name             : girijAstutiHdevagaNaiHkRRitA.itx
% itxtitle              : girijAstutiH devagaNaiHkRitA (shivarahasyAntargatA)
% engtitle              : girijAstutiH devagaNaiHkRitA
% Category              : devii, devI, stuti, shivarahasya, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 6| 5-56 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org