गोसावित्रीस्तोत्रम्
नारायणं नमस्कृत्य देवीं त्रिभुवनेश्वरीम् ।
गोसावित्रीं प्रवक्ष्यामि व्यासेनोक्तं सनातनीम् ॥ १॥
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ।
गवां निःश्वसितं वेदाः सषडङ्गपदक्रमाः ॥ २॥
शीक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा ।
एतासामग्रशृङ्गेषु इन्द्रविष्णू स्वयंस्थितौ ॥ ३॥
शिरो ब्रह्मा गुरुः स्कन्धे ललाटे वृषभध्वजः ।
कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ ॥ ४॥
दंष्ट्रेषु मरुतो देवा जिह्वायां च सरस्वती ।
कण्ठे च वरुणो देवो हृदये हव्यवाहनः ॥ ५॥
उदरे पृथिवी देवी सशैलवनकानना ।
ककुदि द्यौः सनक्षत्रा पृष्ठे वैवस्वतो यमः ॥ ६॥
ऊर्वोस्तु वसवो देवा वायुर्जङ्गे समाश्रितः ।
आदित्यस्त्वाश्रितो वाले साध्याः सर्वाङ्गसन्धिषु ॥ ७॥
अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् ।
धृतिः पुष्टिर्महालक्ष्मीर्गोमये संस्थिताः सदा ॥ ८॥
नासिकायां च श्रीदेवी ज्येष्ठा वसति भामिनी ।
चत्वारः सागराः पूर्णा गवां ह्येव पयोधरे ॥ ९॥
खुरमध्येषु गन्धर्वाः खुराग्रे पन्नगाः श्रिताः ।
खुराणां पश्चिमे भागे ह्यप्सराणां गणाः स्मृताः ॥ १०॥
श्रोणीतस्तेषु पितरो रोमलाङ्गूलमाश्रिताः ।
ऋषयो रोमकूपेषु चर्मण्येव प्रजापतिः ॥ ११॥
हुङ्कारे चतुरो वेदा हुंशब्दे च प्रजापतिः ।
एवं विष्णुमयं गात्रं तासां गोप्ता स केशवः ॥ १२॥
गवां दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ १३॥
कामदोग्ध्री स्वयं कामदोग्धा सन्निहिता मता ।
गोग्रासस्य विशेषोऽस्ति हस्तसम्पूर्णमात्रतः ॥ १४॥
शतब्राह्मणभुक्तेन सममाहुर्युधिष्ठिर ।
य इदं पठते नित्यं शृणुयाद्वा समाहितः ॥ १५॥
ब्राह्मणो लभते विद्यां क्षत्रियो राज्यमश्नुते ।
वैश्यो धनसमृद्धः स्याच्चूद्रः पापात् प्रमुच्यते ॥ १६॥
गर्भीणी जनयेत् पुत्रं कन्या भर्तारमाप्नुयात् ।
सायं प्रातस्तु पठतां शान्तिस्वस्त्ययनं महत् ॥ १७॥
अहोरात्रकृतैः पापैस्तत्क्षणात् परिमुच्यते ।
फलं तु गोसहस्रस्येत्युक्तं हि ब्रह्मणा पुरा ॥ १८॥
गावो मे ह्यग्रतः सन्तु गावो मे सन्तु पृष्ठतः ।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम् ॥ १९॥
सुरभिर्वैष्णवी माता नित्यं विष्णुपदे स्थिता ।
गोग्रासं तु मया दत्तं सुरभिः प्रतिगृह्यताम् ॥ २०॥
गावो मे मातरः सर्वाः सर्वे मे पितरो वृषाः ।
ग्रासमुष्टिं मया दत्तं सुरभिः प्रतिगृह्यताम् ॥ २१॥
फलानां गोसहस्रस्य प्रदद्याद्ब्राह्मणोत्तमे ।
सर्वतीर्थाधिकं पुण्यमित्युक्तं ब्रह्मणा पुरा ॥ २२॥
॥ इति गोसावित्रीस्तोत्रम् ॥
The stotra is extended version of portion in
Ashvamedhikaparva adhyAya 106, verses 46-59
and is conversation between Shrikrishna and Yudhishthira.
(Kumbhakonam edition)
भगवानुवाच। १४-१०६-४४
इत्युक्त्वाऽस्यै वरं दत्त्वा प्रययुस्ते यथागतम् ।
लोकनिस्तरणार्थाय सा च लोकांश्चचार ह ॥ १४-१०६-४४
तस्यामेव समुद्भूता ह्येताश्च कपिला नव ।
विचरन्ति महीमेनां लोकानुग्रहकारणात् ।
तस्मात्तु कपिला देया परत्र हितमिच्छता ॥ १४-१०६-४५
यदा च दीयते राजन्कपिला ह्यग्निहोत्रिणे ।
तदा च शृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठति ॥ १४-१०६-४६
चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः ।
शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः ॥ १४-१०६-४७
कर्णयोरश्विनौ देवौ चक्षुषी शशिभास्करौ ।
दन्तेषु मरुतो देवा जिह्वायां वाक्सरलस्वती ॥ १४-१०६-४८
रोमकूपेषु मुनयश्चर्मण्येव प्रजापतिः ।
निश्श्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः ॥ १४-१०६-४९
नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च ।
अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः ॥ १४-१०६-५०
साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता ।
पृष्ठे च नक्षत्रगणाः ककुद्देशे नभस्स्थलम् ॥ १४-१०६-५१
अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् ।
इष्टतुष्टमया लक्ष्मीर्गोमये वसती तदा ॥ १४-१०६-५२
नासिकायां सदा देवी ज्येष्ठा वसति भामिनी ।
श्रोणीतटस्थाः पितरो रमा लाङ्गूलमाश्रिता ॥ १४-१०६-५३
पार्श्वयोरुभयोः सर्वे विश्वेदेवाः प्रतिष्ठिताः ।
तिष्ठत्युरसि तासां तु प्रीतः शक्तिधरो गुहः ॥ १४-१०६-५४
जानजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः ।
खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ॥ १४-१०६-५५
चत्वारः सागराः पूर्णास्तस्या एव पयोधराः ।
रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिः स्मृतिः। १४-१०६-५६
कीर्तिर्दीप्तिः क्रिया कान्तिस्तुष्टिः पुष्टिस्च सन्ततिः ।
दिशश्च प्रदिशश्चैव सेवन्ते कपिलां सदा ॥ १४-१०६-५७
देवा पितृगणाश्चापि गन्धर्वाप्सरसां गणाः ।
लोका द्वीपार्णवाश्चैव गङ्गाद्याः सरितस्तथा ॥ १४-१०६-५८
देवाः पितृगणाश्चापि वेदाः साङ्गाः सहाध्वरैः ।
वेदोक्तैर्विविधैर्मन्त्रैः स्तुवन्ति हृषितास्तथा ॥ १४-१०६-५९
विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा ।
पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः ॥ १४-१०६-६०
ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा ।
नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते ॥ १४-१०६-६१
कपिलेऽथ महासत्वे सर्वतीर्थमये शुभे ।
दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् ॥ १४-१०६-६२
अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम् ।
अहो धर्मार्जितं शुद्धमिदमग्र्यं महाधनम् ।
इत्याकाशस्थितस्ते तु सर्वदेवा जपन्ति च ॥ १४-१०६-६३
तस्याः प्रतिग्रहीता च भुङ्क्ते यावद्द्विजोत्तमः ।
तावद्देवगणाः सर्वे कपिलामर्चयन्ति च ।
स्वर्णशृङ्गीं रूप्यखुरां गन्धैः पुष्पैः सुपूजिताम् ॥ १४-१०६-६४
वस्त्राभ्यामहताभ्यां तु यावत्तिष्ठत्यलङ्कृता ।
तावद्यदिच्छेत्कपिला मन्त्रपूता सुसंस्कृता ।
भूलोकवासिनः सर्वान्ब्रह्मलोकं नयेत्स्वयम् ॥ १४-१०६-६५
भूरश्वः कनकं गावो रूप्यमश्वं तिला यवाः ।
दीयमानानि विप्राय प्रहृष्यन्ति दिनेदिने ॥ १४-१०६-६६
अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव ।
तथा निन्दन्त्यथात्मानमशुभं किंनु नः कृतं ॥ १४-१०६-६७
अहो रक्षःपिशाचैश्च लुप्यमानाः समन्ततः ।
यास्यामो निरयं शीघ्रमिति शोचन्ति तानि वै ॥ १४-१०६-६८
एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः ।
दीयमानानि वर्धन्ते दातारं तारयन्ति च ॥ १४-१०६-६९