गोस्तवनम्

गोस्तवनम्

अवतारो गवां श्रेष्ठः सर्वेषु भुवि जन्तुषु । यतस्तासां विकारोऽपि ह्युपकाराय जायते ॥ १॥ गच्छन्त्यः संस्थिताः सुप्ताः शकृन्मूत्रकृतोऽपि वा । गावः पुनन्ति लोकांस्त्रीनतो देवत्वमागताः ॥ २॥ शुभ्राः पीतास्तथा श्यामाश्चित्रा वै लोहितास्तथा । कुर्वते नृहृदि स्थानं गावः प्रकृतिशोभनाः ॥ ३॥ लोकेऽमृतं यथा क्षीरं गोमयं पावनं परम् । आयुर्घृतं तथा चैव मूत्रं रोगविनाशनम् ॥ ४॥ अपूर्वं पञ्चगव्यं च तीर्थं कल्मषनाशनम् । एषा परम्परा भव्या दुर्लभा सुरभिं विना ॥ ५॥ प्रत्यक्ष देवता गावो गावो वै लोकमातरः । तस्मादर्च्यतमा एता रक्षणीयाः प्रयत्नतः ॥ ६॥ गोदानं च परं दानं गोधनं च परं धनम् । गोभक्तिः परमा सिद्धिर्गोसेवा परमा गतिः ॥ ७॥ गावो यत्र हि पूज्यन्ते पाल्यन्ते चैव यत्नतः । गोपालो भगवांस्तत्र मुदा वसति नित्यशः ॥ ८॥ गावो मे पुरतः सन्तु गावो मे सन्तु पृष्ठतः । गावो मे सर्वतः सन्तु गवां मध्ये वसान्यहम् ॥ ९॥ गां विना न हि मे शान्तिर्भवेदिह परत्र च । इति सञ्चिन्त्य भगवान् गोलोकमधितिष्ठति ॥ १०॥ अस्ति गोसदृशं नैव त्रिषु लोकेषु किञ्चन । यद्वशे भगवान् विष्णुः पश्चाद्धावति नित्यशः ॥ ११॥ गोमातस्त्वं हि धन्यासि धन्यं च तव जीवनम् । धन्याश्च ते नरा लोके त्वत्सेवाव्रतिनश्च ये ॥ १२॥ इति गोस्तवनं सम्पूर्णम् । (रचयिता -- पं. श्रीगौरीशङ्करजी द्विवेदी, साहित्यरत्न) Encoded and proofread by Charu Champaka
% Text title            : Go Stavanam
% File name             : gostavanam.itx
% itxtitle              : gostavanam
% engtitle              : gostavanam
% Category              : devii, devI, otherforms
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Author                : Gaurishankar Dwivedi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Charu Champaka
% Proofread by          : Charu Champaka
% Indexextra            : (Scan)
% Latest update         : September 17, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org