विश्वमङ्गल गुह्यकालीकवचम्
विनियोगः-
ॐ अस्य श्रीविश्वमङ्गलनाम्नो गुह्यकाली महावज्र कवचस्य
संवर्तऋषिरनुष्टुप्छन्दः, एकवक्त्रादि शतवक्त्रान्ता गुह्यकाली
देवता, फ्रें बीजं, फ्रेंशक्तिः, छ्रीं कीलकं सर्वाभीष्टसिद्धि
पूर्वकात्मरक्षणे जपे विनियोगः ॥
ॐ फ्रें पातु शिरः सिद्धिकराली कालिका मम ।
ह्रीं छ्रीं ललाटं मे सिद्धिविकरालि सदावतु ॥ १॥
श्रीं क्लीं मुखं चण्डयोगेश्वरी रक्षतु सर्वदा ।
हूं स्त्रीं कर्णै वज्रकापालिनी मे कालिकाऽवतु ॥ २॥
ऐं क्रौं हनू कालसङ्कर्षणा मे पातु कालिका ।
क्रीं क्रौं भ्रुवावुग्रचण्डा कालिका मे सदावतु ॥ ३॥
हां क्षौं नेत्रे सिद्धिलक्ष्मीरवतु प्रत्यहं मम ।
हूं ह्रौं नासां चण्डकापालिनी मे सर्वदावतु ॥ ४॥
आं ईं ओष्ठाधरौ पातु सदा समयकुब्जिका ।
ग्लूं ग्लौं दन्तान् राजराजेश्वरी मे रक्षतात् सदा ॥ ५॥
जूं सः सदा मे रसनां पातु श्रीजयभैरवी ।
स्फ्रें स्फ्रें पातु स्वर्णकूटेश्वरी मे चिबुकं सदा ॥ ६॥
ब्लूं ब्लौं कण्ठं रक्षतु मे सर्वदा तुम्बुरेश्वरी ।
क्ष्रूं क्ष्रौं मे राजमातङ्गी स्कन्धौ रक्षतु सर्वदा ॥ ७॥
फ्रां फ्रौं भुजौ वज्रचण्डेश्वरी रक्षतु मे सदा ।
स्त्रैं स्त्रौं वक्षःस्थलं जयझङ्केश्वरी मम ॥ ८॥
फिं फां करौ रक्षतु मे शिवदूती च सर्वदा ।
छ्रैं छौं मे जठरं पातु फेत्कारी घोरराविणी ॥ ९॥
स्त्रैं स्त्रौं गुह्येश्वरि नाभिं मम रक्षतु सर्वदा ।
क्षुं क्षौं पार्श्वो सदापातु बाभुवी घोररूपिणी ॥ १०॥
ग्रूं ग्रौं कुलेश्वरी पातु मम पृष्ठं च सर्वदा ।
क्लूं क्लौं कटिं रक्षतु मे भीमादेवी भयानका ॥ ११॥
हैं हौं मे रक्षतादूरू सर्वदा चण्डखेचरी ।
स्फ्रों स्फ्रौं मे जानुनी पातु कोरङ्गी भीषणानना ॥ १२॥
त्रीं श्रीं जङ्घायुगं पातु तामसी सर्वदा मम ।
ज्रैं ज्रौं पादौ महाविद्या सर्वदा मम रक्षतु ॥ १३॥
ड्रीं ठ्रीं वागीश्वरी सर्वान् सन्धीन् देहस्य मेऽवतु ।
ख्रें ख्रौं शराराधातून्मे कामाख्या सर्वदावतु ॥ १४॥
ब्रीं ब्रूं कात्यायनी पातु दशवायूंस्तनूद्भवान् ।
ज्लूं ज्लौं पातु महालक्ष्मीः खान्येकादश सर्वदा ॥ १५॥
ऐं औं अनूक्तं यत्स्थानं शरीरेऽन्तर्बहिश्च मे ।
तत्सर्वं सर्वदा पातु हरसिद्धा हरप्रिया ॥ १६॥
फ्रें छ्रीं ह्रीं स्त्री हूं शरीरसकलं सर्वदा मम ।
गुह्यकाली दिवारात्रौ सन्ध्यासु परिरक्षतु ॥ १७॥
इति ते कवचं प्रोक्तं नाम्ना च विश्वमङ्गलम् ।
सर्वेभ्यः कवचेभ्यस्तु श्रेष्ठं सारतरं परम् ॥ १८॥
इदं पठित्वा त्वं देहं भस्मनैवावगुण्ठ्य च ।
तत्तत्स्थानेषु विन्यस्य वद्धवादः कवचं दृढम् ॥ १९॥
दशवारान् मनुः जप्त्वा यन्त्र कुत्रापि गच्छतु ।
समरे निपतच्छस्त्रेऽरण्ये स्वापदसङ्कुले ॥ २०॥
श्मशाने प्रेतभूताढ्यकान्तारे दस्युसङ्कुले ।
राजद्वारे सपिशुने गह्वरे सर्पवेष्टिते ॥ २१॥
तस्य भीतिर्न कुत्रापि चरतः पृथिवीमिमाम् ।
न च व्याधिभयं तस्य नैव तस्करजं भयम् ॥ २२॥
नाग्न्युत्पातो नैव भूतप्रेतजः सङ्कटस्तथा ।
विद्युद्वर्षोपलभयं न कदापि प्रबाधते ॥ २३॥
न दुर्भिक्षभयं चास्य न च मारिभयं तथा ।
कृत्याभिचारजा दोषाः स्पृशन्त्येनं कदापि न ॥ २४॥
सहस्रं जपतश्चास्य पुरश्चरणमुच्यते ।
तत्कृत्वा तु प्रयुञ्जीत सर्वस्मिन्नपि कर्मणि ॥ २५॥
वश्यकार्यो मोहने च मारणोच्चाटने तथा ।
स्तम्भने च तथा द्वेषे तथा कृत्याभिचारयोः ॥ २६॥
दुर्गभङ्गे तथा युद्धे परचक्र निवारणे ।
एतत् प्रयोगात् सर्वाणि कार्याणि परिसाधयेत् ॥ २७॥
भूतावेशं नाशयति विवादे जयति द्विषः ।
सङ्कटं तरति क्षिप्रं कलहे जयमाप्नुयात् ॥ २८॥
यदीच्छेत् महतीं लक्ष्मी तनयानायुरेव च ।
विद्यां कान्तिं तथौन्नत्यं यश आरोग्यमेव ॥ २९॥
भोगान् सौख्यं विघ्नहानिमनालस्यं महोदयम् ।
अधीहि कवचं नित्यममुनामुञ्च च प्रिये ॥ ३०॥
कवचेनामुना सर्वं संसाधयति साधकः ।
यद् यद् ध्यायति चित्तेन सिद्धं तत्तत्पुरः स्थितम् ॥ ३१॥
दुर्धटं घटयत्येतत् कवचं विश्वमङ्गलम् ।
विश्वस्य मङ्गलं यस्मादतो वै विश्वमङ्गलम् ॥ ३२॥
सान्निध्यकारकं गुह्यकाल्या एतत् प्रकीर्तितम् ।
भुक्तवा भोगानघं हत्वा देहान्ते मोक्षमाप्नुयात् ॥ ३३॥
॥ इति विश्वमङ्गल गुह्यकालीकवचम् ॥
Encoded and proofread by Mohan Chettoor