जगन्मङ्गला प्रातःस्मरणस्तोत्रम्
गणेशसूरिचन्द्रात्रेयविरचितम्
प्रातः स्मरामि गिरिजां नवचम्पकाभां
कौसुम्भरागरुचिरं वसनं वसानाम् ।
वीणानिनादकलनाकुललोलमौलि-
मङ्कस्थकीरकलनादकृतोऽनुमोदम् ॥ १॥
प्रातर्नमामि भवभामिनि तेऽङ्घ्रियुग्मं
सद्यःप्रफुल्लनदकोकनदानुकारि ।
भक्तिप्रणम्रदिविषड्गणमौलिकोटि-
व्यासक्तहीररुचिभिः परिदीप्यमानम् ॥ २॥
दिव्यप्रभं कनकनिर्मितरत्नचित्र -
मञ्जीररश्मिललितं घनगूढवृत्तम् ।
गुल्फद्वयं जननि ते परिभावयामि
प्रातः प्रबुद्धनवनीरजमुञ्जुलश्रीः ॥ ३॥
जङ्घे शुभे तुहिनाद्रिधरजे त्वदीये
वृत्तानुपूर्वरचिते स्मरभूमिभर्तुः ।
मत्तद्विपेन्द्रकरबन्धुरतापहारे
प्रातः स्मृते सकलसम्पदमाशु दत्ताम् ॥ ४॥
कामस्य शम्भुवशकारि महौषधीभिः
संपूरितं चटुलसंपुटयुग्मलम्बम् ॥
जानुद्वयं कनकनिर्मितदर्पणश्रीः
प्रातस्तुषारगिरिजे तव चिन्तयामि ॥ ५॥
रम्भाभिरूप्यमदहारिनवप्रकारौ
भक्ताघपर्वतपराकृतिवज्रमारौ ।
ध्यायामि तेऽम्ब प्रतिनायकपोषकारा-
वूरुप्रगे हररताहरसज्जवीरौ ॥ ६॥
प्रातर्भजामि जनमोहिनि ते नितम्बं
संरब्धमन्मथमहेशविमर्दभूमिम् ।
यल्लीलया वितनुनापि स भूतनाथः
सद्यो भवद्भवनकिंकरतामलम्भि ॥ ७॥
यत्र स्वजीवनमवेक्ष्य रतीश्वरेण
स्वं मन्दिरं तु निरमायि भवं विजेतुम् ।
तत्ते श्रये गिरिसुते जघनं प्रभाते
काञ्चीगुणग्रथितरत्नविरोचमानम् ॥ ८॥
यश्चाणिमाद्यखिलसिद्धिविलासभूमि-
र्योऽजीवयद्धररुषा निहतं रतीशम् ।
यस्मादुदेति नवरोमलतातिदिव्या
तं चिन्तयामि गिरिजे तव नाभिकूपम् ॥ ९॥
ब्रह्माणडमण्डलमिदं विधिवासरान्ते
यस्मिन्निवासमकरोद्भुवि वस्तुरूपम् ।
तन्मुष्टिमेयमुदरं हरनायिके ते
संचिन्तये विकचपङ्कजपिञ्जराभम् ॥ १०॥
अर्हन्मनोरथपयःपरिपूर्णरूपौ
दिव्याङ्गरागलुलितावतिगाढवृत्तौ ।
प्राणप्रियाङ्गपरिरम्भणवामनाग्रौ
प्रातः स्तनौ तव भजामि भवाङ्गभूषे ॥ ११॥
दैत्यव्रजप्रमथनोत्कटकोटिवीर्यौ
कोदण्डकाण्डकलितौ कलकङ्कणाङ्कौ ।
कामारिकण्ठकलनाकमनीयकान्ती
प्रातः करौ कनकसुन्दरि ते स्मरामि ॥ १२॥
पाशाङ्कुशाभिरुचिरावपरौ करौ तौ
केयूरकङ्कणकरोर्मिकराभिरामौ ।
ऊर्द्ध्वौ भवद्भजनचञ्चुजनान्तराय-
निर्वापणैकनिपुणावुषसि स्मरामि ॥ १३॥
प्रत्यग्रकोकनदकोषविकासमान-
संवर्तिकाः करचतुष्टयशाखिकास्ते ।
माणिक्यकन्दकिरणोत्कलिकानुकारा
मां पातु भूतपतिगेहिनि कल्य एताः ॥ १४॥
निर्भर्स्तिताम्बुजदलामलकोमलाभं
पद्माङ्कितं करतलद्वययुग्ममम्ब ।
प्रातर्भवत्पदसरोरुहलीयमान-
चेतोऽलिनः शिरसि मे दयाय निधेहि ॥ १५॥
विद्यानटीनटनकर्मविशालशाला-
सप्तस्वरैकजनिभूर्जितकम्बुलीलः ।
कण्ठस्तवैष नवचम्पककोरकाभः
प्रातः स्मृतः शमयताच्छमलं मदीयम् ॥ १६॥
नारङ्गरङ्गपरिभङ्गविधायिभर्ग-
भव्याङ्गुलीपरिचितं सुरतान्तराले ।
स्वं वीक्षितुं न मुकुरो रतिनायकस्य
प्रातर्भजामि चिबुकं हिमशैलजे ते ॥ १७॥
बन्धूकबन्धुरधरः स्मितपाटलस्ते
सद्यो विकस्वरमुखाम्बुजपत्रलीलः ।
प्रेयोमिलिन्दपरिपीतमरन्दसारः
प्रातर्भवानि भवतान्मम मङ्गलाय ॥ १८॥
सौदामिनीद्युतिनिराकरणप्रवीण-
दन्तालिरम्ब तव दाडिमबीजवर्णा ।
ध्वान्तं धुनोतु मम काञ्चनबिन्दुकीर्णा
प्रातर्भवानि भवचुम्बनरागपूर्णा ॥ १९॥
कर्णावतंसघनरत्नरुचाभिरामौ
काश्मीरपत्ररचनानुललोललीलौ ।
प्राणेशदन्तदलनामलकोमलाङ्कौ
पातां प्रभातसमये तव देवि गल्लौ ॥ २०॥
नासां स्मरामि गिरिराजसुते भवत्याः
प्रातःप्रबुद्धतिलपुष्यसमानभासाम् ।
श्वासानुमोदसरणीसुरभीकृताशां
प्राणेशचित्तपरिकर्षणदिव्यपाशाम् ॥ २१॥
त्वल्लोचने चटुलखञ्जनगञ्जनेये
ध्यायन्ति निश्चलधियोऽम्ब विभातकाले ।
निस्स्वार्थपादनिकरोपगतान् शिरःसु
बद्धाञ्जलीन् क्षितिभृतोऽपि निभालयन्ति ॥ २२॥
क्रूराकृती खलकुले सरले स्ववर्गे
प्रेमाञ्चिते भवमनोभवभावनेऽम्ब ।
स्वाभाविकप्रकृतिके परिवारवर्गे
प्रातः शुभानि कुरुतां भ्रुकुटीलते ते ॥ २३॥
केशान्धकाररजनीपतिनेमिबिम्बं
सामिन्दुखण्डकलितं शिखिलोचनाङ्कम् ।
कामारिकाममतिकाजनिमूलकन्दं
भालं भजामि तव देवि विभातकाले ॥ २४॥
माणिक्यनिर्मितरतीशरथाङ्गजैत्र-
ताटङ्कयुग्मललितं नवकञ्जयुक्तम् ।
कर्णद्वयं चपललोचनकोणभासि
प्रातर्ममापहरतामखिलं कलङ्कम् ॥ २५॥
मन्मानसे सरसि किं नवपुण्डरीकं
किं मन्मनोवियती शारदमिन्दुबिम्बम् ।
भर्गस्य सौख्यसदनं सुरतोत्सवेषु
ध्यायामि दुःखदलनं वदनं शिवं ते ॥ २६॥
दिव्याङ्गदीप्तिसरसीविकसन्मुखाब्ज-
संलीनमत्तमधुपावलिकान्तकान्तम् ।
वक्त्रायमानविधुबिम्बकलङ्ककल्पं
कैश्यं कुमारजनयित्रि तव स्मरामि ॥ २७॥
ध्यात्वा शिरस्युषसि ये गुरुपादयुग्मं
त्वां चित्कलां जननि चेतसि चिन्तयन्ति ।
ते वाञ्छितानि समवाप्य नितान्तमन्ते
पूर्णं परात्परतरं तव धाम यान्ति ॥ २८॥
प्रातः स्मरामि जनयित्रि जगत्पवित्रं
त्वन्नाम मङ्गलमिदं कलयन्ति येऽन्तः ।
ते मत्तकिन्नरवधूकुचकुङ्कुमाङ्काः
कामं कलापिनगरावनिगा रमन्ते ॥ २९। ।
देवि त्वदीयनखकोटिलवस्य शोभां
शेषोऽपि नालमतिवर्णयितुं गुरुर्वा ।
यच्चापलं व्यरचि तत्र मयाल्पमत्या
क्षन्तव्यमेव तव तच्छिशुभाषणत्वात् ॥ ३०॥
उच्चावचप्रलपनं यदिहास्ति किंचि-
त्तत्रापराधकणिकापि न मे विभाव्या ।
यादृक् त्वया हृदयवर्तिधिया नियुक्ता-
स्तादृङ्मया विरचितं विदितं तवापि ॥ ३१॥
रुद्रः पिता मम तथा जननी भवानी
मन्नाम देवि गणनाथ इति प्रसिद्धम् ।
जायेत चैतदखिलं हि यथा यथार्थं
तादृग्विधेहि दयया किमितः परं ते ॥ ३२॥
यः संप्रबुद्ध्य हरनामसुन्दरिकल्प उच्चैः ।
स्तोत्रं पठिष्यति जनस्त्वयि वृत्तभक्तिः ।
तं सर्वतोऽपि कृपया निजमात्मजंव -
त्त्वं रक्ष रक्ष जनजीविनि किं बहूक्त्या ॥ ३३॥
इति श्रीमयूगिरिनिवासिचन्द्रात्रेयोपनामकगणेशसूरीविरचितं
जगन्मङ्गलाप्रातःस्मरणम् ।
शुभमस्तु ।
संवत् १७५६ वर्षे भाद्रपदमासे शुक्लपक्षे १४ सोमवारे लिखितम् ।
पाठ शिवनन्दनस्वहस्तेन ॥
From
A Survey of Sanskrit Stotra Literature
(7) Ramaswami, V.A., JagannAtha Pandita, Annamalainagar,
(8) Mishra, K. C., Studies in the cult of Jagannatha,
Institute of Orissan Culture, Bhubaneswar, 1991.
(9) Eschmann, A. The cult of Jagannatha and the regional tradition of Orissa,
Manohar Publisher and Distributors, New Delhi, 1978
Chapter 15
jaganmangalA prAtaHsmaraNastotram
written by Mukund Wadekar
Introductory
It is religious tradition that one should remember God or
Goddess in morning after rising from the bed. It is considered
auspicious and psychologically creating positive attitude
and firmness of mind for facing the calamities and tensions of
worldly situations, with the grace of the favourite deity. There
is one prAtah-sUkta in the Rgveda (7.41.1), yajurveda (34.34),
Atharvaveda (3.16.1). TaittirIya BrAhmana (2.8.9-7). There
are some such stotras also e.g., vyankateshasubhAtastotram etc.
About the Poet
The jaganmangalAprAtaHsmaraNastotram is a
prAtaHsmaraNastotram in praise of Goddess-JaganmangalA,
composed by one Maharashtrian scholar, named gaNeshasUri
chandrAtreya who was residing at mayUragiri, as mentioned
in the colophon. (MayUragiri is probably mUhura, which is
pilgrimage place of goddess reNukU). The poet mentions his
name as gaNanAtha in verse no. 32. The rare Manuscript of this
stotra is deposited in the Oriental Institute (acc. no. 5066),
having four folios, written in DevanAgari script, on paper by
a scribe shivAnanda on the Monday, the fourteenth day of the
Bright half of the month of bhAdrapada, in vikrama samvat 1756
(i.e., 1700 A.D.).
About the Stotra
The stotra contains 33 verses in vasantatilakA metre. In
incorporates the description of the Goddess in nakhashikhA
(nail of foot to Hair on the head) or pAdAdi-keshAnta (from
feet to head) or Arohakrama (from the Tantric or philosophical
point of view). The various limbs and organs of Her body
namely pAdayugma, gulphadvaya. janghAdvaya, jAnudvaya, nitamba,
jaghana, nAbhikUpa, udara, stanadvaya, karachatuShTaya, kaNtha,
chibuka, adhara, dantAli, gAlladvya, nAsA, lochanadvaya, bhAla,
karNadvaya, vadana, kesha, shirah are beautifully described
comparing them with upamAnas of various flowers (champaka,
kamala, tilapuShpa), fruits (nAranga, dADima) and other things
like Clouds, matta dvipendra, chaTula khanjana, mukura etc.) He
has no doubt exhibited his poetic talent, but the influence
of the saundaryalaharI of ShankarAchArya is evident (verse
2=saundryalaharI 4, verse 9 = saund. 76, verse 17 = saund. 67,
verse 23 = saund. 51 etc... Like the saundaryalaharI, there
are also some amorous descriptions of the Goddess, but these
are to be regarded as the spontaneous outbursts of a devotee
and not mere vulgar poetic descriptions. The poet, however,
is aware of his limitations and hence says-
उच्चावचप्रलपनं यदिहास्ति किंचि-
त्तत्रापराधकणिकापि न मे विभाव्या ।
यादृक् त्वया हृदयवर्तिधिया नियुक्ता-
स्तादृङ्मया विरचितं विदितं तवापि ॥
The Concluding Remarks
The scholar gaNeshasUri must be belonging to the shukla yajurvedi
mAdhyandina mahArAshtrian Brahmin caste to which the present
researcher also belongs. He was, therefore, interested - in
studying the said stotra for highlighting the contribution of
this unknown scholar to the stotra literature.
Encoded Pallasena Narayanaswami ppnswami at gmail.com
Proofread by Pallasena Narayanaswami, PSA Easwaran