काली शान्तिस्तोत्रम्
काली काली महाकालि कालिके पापहारिणि ।
धर्ममोक्षप्रदे देवि गुह्यकालि नमोऽस्तुते ॥ १॥
सङ्ग्रामे विजयं देहि धनं देहि सदा गृहे ।
धर्मकामार्थसम्पत्तिं देहि कालि नमोऽस्तुते ॥ २॥
उल्कामुखि ललज्जिह्वे घोररावे भगप्रिये ।
श्मशानवासिनि प्रेते शवमांसप्रियेऽनघे ॥ ३॥
अरण्य चारिणि शिवे कुलद्रव्यमयीश्वरि ।
प्रसन्नाभव देवेशि भक्तस्य मम कालिके ॥ ४॥
शुभानि सन्तु कौलानां नश्यन्तु द्वेषकारकाः ।
निन्दाकरा क्षयं पान्तुये च हास्य प्रकुर्वते ॥ ५॥
ये द्विषन्ति जुगुप्सन्ते ये निन्दन्ति हसन्ति ये ।
येऽसूयन्ते च शङ्कन्ते मिथ्येति प्रवदन्ति ये ॥ ६॥
ते डाकिनीमुखे यान्तु सदारसुतबान्धवाः ।
पिबत्वं शोणितं तस्य चामुण्डा मांसमत्तु च ॥ ७॥
आस्थीनिचर्वयन्त्वस्य योगिनी भैरवीगणाः ।
यानिन्दागमतन्त्रादौ या शक्तिषु कुलेषु या ॥ ८॥
कुलमार्गेषु या निन्दा सा निन्दा तव कालिके ।
त्वन्निन्दाकारिणां शास्त्री त्वमेव परमेश्वरि ॥ ९॥
न वेदं न तपो दानं नोपवासादिकं व्रतम् ।
चान्द्रायणादि कृच्छं च न किञ्चिन्मानयाम्यहम् ॥ १०॥
किन्तु त्वच्चरणाम्भोज सेवां जाने शिवाज्ञया ।
त्वदर्चा कुर्वतो देवि निन्दापि सफला मम ॥ ११॥
राज्यं तस्य प्रतिष्ठा च लक्ष्मीस्तस्य सदा स्थिरा ।
तस्य प्रभुत्वं सामर्थ्यं यस्य त्वं मस्तकोपरि ॥ १२॥
धन्योऽहं कृतकृत्योऽहं सफलं जीवतं मम ।
यस्य त्वच्चरणद्वन्दे मनो निविशते सदा ॥ १३॥
दैत्याः विनाशमायान्तु क्षयं यान्तु च दानवाः ।
नश्यन्तु प्रेतकूष्माण्डा राक्षसा असुरास्तथा ॥ १४॥
पिशाच भूत वेतालां क्षेत्रपाला विनायकाः ।
गुह्यकाः घोणकाश्चैव विलीयन्ता सहस्रधा ॥ १५॥
भारुण्डा जम्भकाः स्कान्दाः प्रमथाः पितरस्तथा ।
योगिन्यो मातरश्चापि डाकिन्यः पूतनास्तथा ॥ १६॥
भस्मीभवन्तु सपदि त्वत् प्रसादात् सुरेश्वरि ।
दिवाचरा रात्रिचरा ये च सन्ध्याचरा अपि ॥ १७॥
शाखाचरा वनचराः कन्दराशैलचारिणः ।
द्वेष्टारो ये जलचरा गुहाबिलचरा अपि ॥ १८॥
स्मरणादेव ते सर्वे खण्डखण्डा भवन्तु ते ।
सर्पानागा यातुधाना दस्युमायाविनस्तथा ॥ १९॥
हिंसका विद्विषो निन्दाकरा ये कुलदूषकाः ।
मारणोच्चाटनोन्मूल द्वेष मोहन कारकाः ॥ २०॥
कृत्याभिचारकर्तारः कौलविश्वासघातकाः ।
त्वत्प्रसादाज्जगद्धात्रि निधनं यान्तु तेऽखिलाः ॥ २१॥
नवग्रहाः सतिथयो नक्षत्राणि च राशयः ।
सङ्क्रान्तयोऽब्दा मासाश्च ऋतवो द्वे तथायने ॥ २२॥
कलाकाष्ठामुहुर्ताश्च पक्षाहोरात्रयस्तथा ।
मन्वतराणि कल्पाश्च युगानि युगसन्धयः ॥ २३॥
देवलाकाः लोकपालाःपितरो वह्नयस्तथा ।
अध्वरा निधयो वेदाः पुराणागमसंहिता ॥ २४॥
एते मया कार्तिता ये ये चान्ये नानुकीर्तिताः ।
आज्ञया गुह्यकाल्यास्ते मम कुर्वन्तु मङ्गलम् ॥ २५॥
भवन्तु सर्वदा सौम्याः सर्वकालं सुखावहाः ।
आरोग्यं सर्वदा मेऽस्तु युद्धे चैवापराजयः ॥ २६॥
दुःखहानिः सदैवास्तां विघ्ननाशः पदे पदे ।
अकालमृत्यु दारिद्र्यं बन्धनं नृपतेर्भयम् ॥ २७॥
गुह्यकाल्याः प्रसादेन न कदापि भवेन्मम ।
सन्त्विन्द्रियाणि सुस्थानि शान्तिः कुशलमस्तु मे ॥ २८॥
वाञ्छाप्तिर्मनसः सौख्यं कल्याणं सुप्रजास्तथा ।
बलं विक्तं यशः कान्तिवृद्धिर्विद्या महोदयः ॥ २९॥
दीर्घायुरप्रधृष्यत्वं वीर्यं सामर्थ्यमेव च ।
विनाशो द्वेषकर्तृणां कौलिकानां महोन्नतिः ।
जायतां शान्तिपाठेन कुलवर्त्म धृतात्मनाम् ॥ ३०॥
इति काल्याः शान्तिस्तोत्रं सम्पूर्णम् ।
Encoded and proofread by Mohan Chettoor