कामाक्षीस्तवः
कण्डूलगण्डविगळन्मदवारिधारा-
गण्डूषपण्डितमधुव्रतमण्डिताय ।
शुण्डालबन्धुरमुखाय तुषारभानु-
खण्डावतंसकलिताय नमः शिवाय ॥ १॥
रसाळतलभूषितं रजनिबन्धुना भूषितं
समग्रमनुकम्पया सविधसेवितं कम्पया ।
नमत्सुमनसं पदे नमत सन्ततं सम्पदे
गिरीशमधिकाञ्चि तं गिरिसुताकुचाङ्काञ्चितम् ॥ २॥
जयन्ति श्रीमन्तो जडिमहिमसंहारमिहिरा
मनीषामाकन्दप्रसवनववासन्तदिवसाः ।
गिरां नाथे! नानारसभणितियोषाभिसरण-
प्रदोषा निर्दोषास्तव चरण सन्नामविधयः ॥ ३॥
क एष प्रस्तावस्तव नवनसन्नाहपदवी -
दवीयो देवीदं धिषणधिषणानैपुणमपि ।
तदास्तामुद्योगः स्तुतिवचसि याचे पुनरिदं
समस्तोऽत्र स्तोत्रीभवतु मम सञ्जल्पनविधिः ॥ ४॥
सदा याचं याचं कथितबहुवाचं जनमिमं
प्रति क्रोधो वेधोरमणि! करणीयो न कलया ।
न योगप्रावीण्यं न च बहुविधस्तोत्रपटिमा
न वा सेवादाक्ष्यं किमिह विदधे याचनमृते ॥ ५॥
जतुद्रावं देवि! द्रवतु जवतश्चित्तजडिमा
शरत्पद्मोन्मीलं मम विललमुन्मीलतु मनः ।
मुखाद्वीची वाचां त्रिदिवविगळन्निर्जरधुनी-
तरङ्गाळीगाळं गळतु मधुनिष्यन्दमधुरा ॥ ६॥
जगन्नाथे ! जाल्मं निबिडजडिभग्रन्थिजटिलं
जनं दीनं मैनं जननि ! मनुथाः स्मान्यशरणम् ।
प्रमीळाप्रभ्लानं पदयुगळनाळीकविगळ-
न्मधूळीपाळीभिर्मम सरजसं क्षाळय मनः ॥ ७॥
जगन्मातर्जातप्रथिमनि मनीषाजडिमनि
स्तृणाने खिन्दानः किमिव मनवै किं वितनवै ।
प्रसीदासीदात्मन्यखिलदुरितोत्सादिनि ! दिने
दिने दीनेऽदीने! मयि वितर कारुण्यकणिकाम् ॥ ८॥
करे वामे वामे ! कमलमृदुळे पुस्तकधरं
परस्मिन् साक्षस्रक्स्फटिकनिभमत्रासवरदम् ।
भवत्वन्तः साक्षादकृपणकृपाकन्दळमिळत्-
कटाक्षव्यापारं वपुरुपनिषज्जीवितमिदम् ॥ ९॥
कृपाकोपाटोपस्फुरितपदपञ्चास्यदळिताद्
धनस्वान्तध्वान्तप्रकरकरिसन्दोहशिरसः ।
समुन्मुक्ता मुक्तामणय इव शुद्धा भणितयोस
भवद्भक्तास्येभ्यो भगवति! विसर्पन्ति परितः ॥ १०॥
ममान्तर्वाणि ! त्वं हर तिमिरमित्यर्थनविधां
विधास्यन् यस्तस्मै पदयुगळमात्रं कथयते ।
असौ शास्त्रज्ञत्वं वरयितुमुपक्रान्त इति तद्
ददानः सद्यस्ते जयति सदयासम्भ्रमरसः ॥ ११॥
असौ सेवा दावे रुदितमियमिज्या जललिपि-
र्गजस्नानं ध्यानं तदपि स जपो भस्मनि हुतम् ।
प्रणामो नामष प्रकृतिजळमूकाङ्घ्रिपतनं
यदम्बालम्ब्येत प्रतिदिनमनुद्दिश्य भवतीम् ॥ १२॥
सजीवो मा जीवन् भवति बत मा जाग्रदपि मा
विजानन् मा ध्यायन् जनजननि ! तस्यास्त्वजननिः ।
न यस्त्वामाशास्ते न विनमति न स्तौति मनुते
न नोपास्ते नाध्येत्यवति न वृणीते न च सकृत् ॥ १३॥
गळद्दभ्भां शुभ्भत्पृथुलकुचकुम्भां हृतशशि-
प्रभाडभ्भां सम्भावितलिखितगुभ्फाजपपटाम् ।
मनस्तम्भारभ्भप्रथुमनि(?) भजे त्वां कृतकृपा-
परीरभ्भाम्मम्भोरुहसदनसम्भोगकलिकाम् ॥ १४॥
भवत्या नित्योत्तंसितसितसुधातिविगळत्-
सुधासारस्रोतोविसर इव हृत्पङ्कजजुषः ।
नृणां त्वद्ध्यातॄणां नववदननाळीककुहर-
प्रणाळीनाळेन क्षरति कवितासौरभभरः ॥ १५॥
गतिस्विन्नां वन्यस्तबकनिवहन्यासविलसत्-
कचां केचित् काचावलिखचितनीचेतरकुचाम् ।
हृदि त्वामीक्षन्ते कपटमृगयोः पत्रपटली-
दुकूलां कालारेरनुपदचरीं काननचरीम् ॥ १६॥
धरे ! दुर्गां स्वर्गा धिपविमतवर्गापहरणीं
महारंहस्सिंहप्रवरपरिविन्यस्तचरणाम् ।
करे वल्गत्खड्गप्रविहितजगत्त्राणविभवां
भवार्तिव्यावृत्त्यै भगवति ! भजन्ते हि भवतीम् ॥ १७॥
इदं स्यादेतत् स्यान्मम पुनरदः स्यादिति सदा
श्रुतं वा दृष्टं वा सकलमुपयाचे न भवतीम् ।
सकृन्मह्यं मुह्यन्मलिनमनसे मातरमलां
त्वदीये दीयेत द्युतिमति पदे भारति! रतिम् ॥ १८॥
अथो या वा सा वा भव भवरमेशाम्बुजभुवा-
मपीड्ये ! पीड्येऽहं जनजननि ! जाड्येन न यथा ।
तथा भ्रूयाद् भूयानिह तव विभूतिस्तवविधिः
कथङ्कारं कर्तुं कविभिरपि शक्येत सकलः ॥ १९॥
(This stotra is in high-flown style in praise
of goddess Sarasvati, most probably goddess
kAmAkShI of the Kanchipuram tmeple.)
इति कामाक्षीस्तवः सम्पूर्णः ।
Proofread by Mohan Chettoor