कावेरीलहरी

कावेरीलहरी

महीभृत्तुङ्गस्ते जगति विदितो भाति जनको महीयान् हि प्रेयान् भवति भुवि रत्नाकर इति । अपि स्वर्णस्थानान्यतिशतमुदञ्चन्ति तटयोः श्रियं ते कावेरि प्रथयितुमलं कः कविरपि ॥ १॥ अयि त्वां तुष्टूषोर्जितसुरसरित्पूरविभवे । तनूजे सह्याद्रेः सततमपि गीतां बुधवरैः । सुधाहृयां भूभृत्कुलवरशिरोलालितरसां विधेहि त्वत्तुल्यां जननि मम वाचं कविनुताम् ॥ २॥ त्वमङ्के सह्याद्रेर्भवसि ननु बालेव विमले क्रमाद् वृद्धिं भूयो भजसि भुवनस्यास्य भृतये । परं चोलान् बालानिव जननि संवर्ध्य पयसा तनूभूता वार्धिं प्रविशसि विनीतेव वनिता ॥ ३॥ भवानी संसक्ता विलसति भवत्या गिरिसुता तव श्रीरङ्गेऽसौ वसति विमले श्रीपतिरपि । भजन्ते वेणीं ते स्फुटतरमशेषाः सुमनसो विशुद्धिस्ते वाचामपि सरणिमाचामतितराम् ॥ ४॥ पतिं पारावारं परमभिसरन्त्या गिरिवरात् सुमस्फायद्वेण्याः स्फुटकमलमुख्या मृदुगतेः । वहन् गङ्गां तुङ्गामपि हि सुषमां द्रष्टुमसमां गिरीनुच्चैरेष श्रयति गिरिशस्ते तटगतान् ॥ ५॥ सुता शैलस्य त्वं भजसि भुवि सारस्यमसमं प्रपन्ना देवि त्वं लवणजलधिं चासि मधुरा । वहन्ती निम्ने स्वान्नमयसि च लोकानुपरिगान् । महीयान् मातस्ते मनसि न हि मे माति महिमा ॥ ६॥ महत्तन्मायूरं महितमपि मध्यार्जुनपुरं महीशूरं मातर्मिलितघनसारं भुवि परम् । तटं ते संप्राप्तं वरमपि परं तत्त्रिशिरसः सुतुङ्गं श्रीरङ्गं गजवनमभूत् पावनमपि ॥ ७॥ श्रुतिः सा वक्ति त्वां सह जननि गङ्गादिभिरपि प्रशंसन्ति त्वां च प्रतनवचनान्येव बहुधा । भवत्वेतन्नूनं कचिदपि निलीनं सुविदिता न ते किं नुत्यर्हा बहुजनपदानामुपकृतिः ॥ ८॥ खनन् कश्चित् कूपं कटुसलिलमल्पं यदि मरौ कियत्तं श्लाघन्ते भुबि स च कियन्माद्यति हृदि । विशालान् यद्देशानमृततुलितैरम्ब सलिलेः चिरात् पुष्णासि त्वं कथयितुमिदं कः कमलजः ॥ ९॥ कियन्तः प्रासादा जलधरपथश्रान्तशिखरा विचित्रास्ते कूले विदधति नरान् विस्मिततरान् । कियत्यो देवार्चास्तव सलिलसङ्गातिशुचयो न भूमा ते सीमां भजति मनसो मे न च गिराम् ॥ १०॥ स्वतः स्वच्छच्छायातटतरुसुमस्तोमसुभगा । कचिन्नीलाम्भोजच्युतदलसमाश्लिष्टसलिला । कचिदिव्यस्त्रैणातुलघुसृणपङ्कारुणजला नदीनां तासां त्वं भजसि तिसृणामम्ब सुषमाम् ॥ ११॥ प्रहृष्यत्पाथोजं मधुरतरगुनन्मधुकरं परं पूतं शीतं जननि तव पीयूषतुलितम् । अपामेतं पूरं कलिमलहरं ते कलयतः प्रहृष्यन्त्यक्षाणि प्रसभमपि तप्तस्य सपदि ॥ १२॥ तरङ्गाश्लेषार्दस्तटतरुसुमामोदसुभगो मरुत्पोतः पूतस्तव पथिकलोकस्य तटयोः । पुरः स्वेदं स्वेदं हृदि जननि सादं च वपुषः समग्रं सन्तापं प्रतनमथ पापं च हरति ॥ १३॥ स्रवन्तीरत्यल्पा अनतिविदिता याः कलुषिताः अशक्ता गन्तुं ता निजपदमिताः काननभवाः । समृद्धस्वर्णश्रीकलितनिजसाम्या विमलिताः विधायादायैता गमयसि च रत्नाकरमहो ॥ १४॥ अमी चूताः पूता मृदुपवनधूतास्तव तटे विराजन्ते शाखाविधृतफलभारा नततराः । श्रिताग्रा कञ्चालैः पिककुलवरैर्ये कलरवैः समर्चन्तो भक्त्या शरणगमिवाम्बाध्वगकुलम् ॥ १५॥ चिराद्ग्ण्येरन् वा कुशलमतिना तेऽम्ब सिकताः परं नैताः कूले तव सुकृतशालाः सुविपुलाः । वसन्तो यत्रैते पथिकयतिवर्णिप्रभृतयो भजन्तीष्टानर्थानविदितबुभुक्षापरिभवाः ॥ १६॥ शतं नद्यः सन्ति त्रिचतुरदिनोद्वेलसलिलाः विशुष्यन्त्योऽनीशाः सपदि चटकस्यापि हि मुदे । न ताः स्वादुस्फीतस्वसलिलभरप्रीतभुवनाः सदा नाव्या भाव्या सकलविबुधैः संह्यगिरिजा ॥ १७॥ परं यन्माधुर्यं जगति पयसस्तेऽतिविदितं फलानां भूयस्तद्विलसति तरूणां तटभुवाम् । अनीदृग्वाचां तद्भवति च कवीनां मधुमुचां महन्मन्ये मौग्ध्यं जननि महिलानां च सुदृशाम् ॥ १८॥ सुदूरादायातं सपदि मनुजं प्रागविदितं विनिश्चिन्वन् कान्त्या वदनगतया ते तटमुवम् । वसन् देशेऽन्यस्मिन्नपि मितमतीनामचरमो जनः स्तौति क्षिप्रं यदिदमपि ते किं न महिमा ॥ १९॥ श्रुतं मा भूत्तेन श्रुतमपि न वेदोऽपि विदितो न चानीचा वाचा विलसतु न चाचारसरणिः । विदेशे विद्वद्भिर्विहितविनयैर्वल्गुवचनैः परं विप्रः पूज्यो भवति तव तीरागत इति ॥ २०॥ शरत्ताराकारस्फुटमणिमहाहाररुचिराः प्रतीरे ते बालाः कनकमयचेला यदमलाः । चलन्ते बाष्पानः प्रवरमधिरूढा मदकला- स्तदम्ब स्वद्वारिप्रसृतिभवभाग्यैककणिका ॥ २१॥ पितुः प्राप्तैरर्थैः पथि पथि सखीभ्योऽप्यधिगतै रशेषैः पुष्यन्ती भुवनमविशेषेण जननि । प्रसन्नैवाजस्रं यदि कमितुरग्रेऽप्यमुखरा न वैरस्यं यासि क्व भवति सुदृक्ते ननु समा ॥ २२॥ अभूदेवग्रामं भवति न हि तीरं क्वचन ते न च ग्रामो विद्वद्वरविरहितो देवविकलः । न दीना विद्वांसो जननि विबुधा नाल्पशरणा नदीनामन्यासां भवति किमु भाग्यं तव समम् ॥ २३॥ पतन्तः सह्याग्रात् पटुतरशिलाघातमुखराः शरज्ज्योत्स्नाशुभ्रास्तुलितपृथुमुक्तामाणिसराः । रयानीतस्फीतातुलरुचिमिलद्रन्ननिकरा भवन्ति त्वत्पूरा विदलितमहापातकिनराः ॥ २४॥ महीध्राः सन्त्यन्ये फणिबहुलवल्मीकवलिताः फलं किं तैः स्फीतैरपि कपिशिवामात्रशरणैः । चिरं जीयात् सह्यः सलिलभृतसर्वावनितलः शरण्यारण्याप्तामलमुनिवराधीतिमुखरः ॥ २५॥ वहन् गङ्गां मौलौ दधदथ सुधांशुं पुरहर- स्तुषाराद्रेर्बालामपि वपुषि नेत्राग्निजनितम् । स हर्तुं सन्तापं निजमभिनवैनूनममृतैः भजन् बह्वीर्मुर्तीस्तव जननि तीरे निवसति ॥ २६॥ गतास्तुङ्गं श‍ृङ्गं तव जननि तातस्य विबुधाः पिबन्तस्तत्पुण्यं जनिमृतिहरं नव्यममृतम् । परं सेवायातामरवरवधूकेलिमुदिता भजन्ते सत्यं ते सपदि ननु सौम्यं दिविषदाम् ॥ २७॥ वरं भृङ्गास्तुङ्गास्तव वितततीरद्रुमगताः पिकाः काका घूका अपि शकुनयोऽमी सुजनयः । अनासाद्याम्ब त्वाममृततुलितामल्पसुकृता वरं प्रासादाग्रे जननि निवसन्तोऽपि न नृपाः ॥ २८॥ अनल्पावर्तं ते सलिलमपि वीक्ष्यामलतरं नरा नावर्तन्ते जननि भुवि भूयो भववने । निबध्नन्तः सेवाञ्जलिमपि हि ते साधुमहिते न तिष्ठन्ते दीना धरणिपतये दूनवदनाः ॥ २९॥ पिबन् पानीयं ते पुलिनतलशायी पथि गतः समाजिघ्रन् मातः स्फुटजलजजातं परिमलम् । कलं कुर्वन् कर्णे पिकवरवधूटीकलकलं रसालद्रोर्मूले रसयति रसं कञ्चन जनः ॥ ३०॥ वसन्तः सन्तो ये महति किल दूरेऽपि विषये स्मरन्तस्त्वां स्नात्वा द्रुतमुषसि कुत्रापि पयसि । पठन्त्येते भक्त्या चरितमविगीतं तव परं धुनीनां धन्यानां भवति हि धुरीणाम्ब भवती ॥ ३१॥ स्वया संसक्तानामपि तटगताः स्वल्पसरितां मुदा संस्तुत्यर्हा महितचरितानामपि सताम् । निरीक्ष्यन्ते नैके नृपवदपि लोके यदि धनैः कथङ्कारं गच्छेत्तव महिमपारं मम मतिः ॥ ३२॥ तनोश्चेदुद्भूतैस्तनुभिरपि जात्वेव जननी पयोभिः पुष्यन्ती स्वसुतमपि शंसन्ति निगमाः । पयोभूयाजस्त्रं प्रचुरतरदेशावनपरा न जाने केषां वा जननि वचसा त्वं नुतिपदम् ॥ ३३॥ नगो नागो वाहं तटभुवि भवेयं तव परं मृगो वाप्यन्यस्मिन् जनुषि जडधीरम्ब विहगः । भवेयं भिक्षुर्वा परमकृपणो भूमिवलये न दूरे ते देशे धनदतुलितो भूपतिरपि ॥ ३४॥ समभ्येति त्वां सा सुरसरिदपि स्वाघधुतये स्वयम्भूसन्दिष्टा प्रतिसममिति स्कन्दिविनुतिम् । अजानद्भिर्मन्ये मुनिकुलभवैस्त्वां कतिपयैः परं पञ्चस्वेकां जननि भुवि गङ्गासु गणिताम् ॥ ३५॥ बहुस्रोताख्याते चुलकितमहाब्धेरपि मुनेः परं मान्येऽम्ब श्रीधरशुचिशिरस्तः समुदिते । श्रुता त्रिस्रोता या भयमधिगता जन्हुमुनितोऽ- प्यलं गङ्गा किं श्रीधरपदभवा त्वां तुलयितुम् ॥ ३६॥ विशालास्त्वत्तोऽपि प्रचुरतरनाव्याम्बुविदिता विशन्त्यब्धिं नघः परमुरुतरग्राहमकराः । गिरीन्द्रादा वार्धेरुभयतटकेदारमिलना- दमोघाशेषाम्बुस्त्वमिव ननु नालोकि तटिनी ॥ ३७॥ गिरीशोत्तंसार्हा परमहिमशैलाद् भुवमिता तटीदीव्यद्रम्भामिषदनिमिषाह्लादिसलिला । समा मन्दाकिन्या सुरभिकुमुदाक्षा विजयसे परं न त्वं मातस्तपनतनयासङ्गकलुषा ॥ ३८॥ परं कुम्भादन्ते विलसति तटे कोणनगरं स कुम्भेशो यस्मिन् जयति च शिवा मङ्गलपदा । सुखं शेते शार्ङ्गीं जहदपि परं क्षीरजलधिं विहातुं स्वीयं द्रागिव दशजनिक्लेशमवशः ॥ ३९॥ गताः पारं श्रुत्याः पदजलधिपारीणधिषणा विनीता न्याये वा मतिमथितमीमांसकमताः । परं शिष्टा वैद्यागमगतिविदो वाङ्मुखकृतो यतीशा यज्वानो जगति विदिता यत्पुरगताः ॥ ४०॥ कृतं वाराणस्यामपि चिरमघं हर्तुममितं निवासं यत्राहुः समुचितमुपायं स्मृतिविदः । परं कन्यातीर्थं विलसति च धन्याम्बुविदितं त्वयासीत् पूतं तत्पुरमुभयपार्श्वप्रसृतया ॥ ४१॥ जनिं भूयो यायां यदि भुवि भवेयं तव जले कुलीरः कूर्मो वा तिमिरपि वकोटश्च करटः । तृणं मन्वे देवि त्रिदिवमपि पद्मासनभुवं मतां मुक्तिं शुक्तिं तनुमिव न मे सक्तिरयते ॥ ४२॥ प्रकृत्यैवाल्पीयो यदपि विरसं भाति कलुषं वचो मेऽनास्वाद्यं ननु भुवि कवीनां रसविदाम् । इदं ते संस्तुत्या तदपि विमलीभूय महतां सतां वन्यस्रोतःपय इव भजेतैव हृदयम् ॥ ४३॥ पयोभिः पुष्टानां कनकतटिनि त्वं तटभुवां बहूनां बालानामिह समधिकैरम्ब कनकैः । सदा पूर्णान् कोशानपि विदधती वत्सलतरा महीं कर्तुं रत्नैर्भजसि किमु रत्नाकरमपि ॥ ४४॥ पदा प्राप्तं पङ्कं प्रतनमपि पङ्कं हरति ते भ्रमोऽयं चेद्भूयान् भ्रममपि हरत्यम्ब स परम् । अयं जाड्यं नृणां जरयति जलस्यापि जडिमा स्वयं चैते भङ्गा बत कलुषभङ्गं विदधति ॥ ४५॥ गिरीशस्याभूस्त्वं जननि शिरसः सा हरिपदात् युवा नाम्ना गङ्गे ननु विबुधलोकैकविदिते । न मुञ्चत्युत्सङ्गं तव यदि परं श्रीपतिरसौ ततस्ते दाक्षिण्यं प्रथितमिह हेतुत्वमयते ॥ ४६॥ तवोत्सङ्गे रङ्गे विलसति किल श्रीपतिरसौ वहन्निद्रामुद्रां शिशुरिव जनन्याः प्रथमजः । भजन् वातं शीतं तटयुगतरूणामविरतं कलं गीतं श‍ृण्वन्नपि पिकवधूनां श्रुतिहितम् ॥ ४७॥ प्रशस्यान् स्वावासानविरतनदीमातृकतया समीकृत्याहुयैरपि सपदि देशान्तरभुवः । भजन्ते चोलास्तेऽखिलधरणिपालादरधृताः त्वदीयैः स्रोतोभिः श्रियमनुपमां भारततले ॥ ४८॥ मता मायामेया विबुधनिवहैस्त्वं मुररिपोः पुरा सा राजर्षेरपि भुवि कवेरस्य दुहिता । अदीनां कुर्वाणा भुवमथ नदीनामपि वरा पयोधिं संप्राप्ता परमतिपवित्रा विजयसे ॥ ४९॥ परं लोपामुद्रा ननु परमभद्राकृतिरभूत् समासाद्यासीद्यां कलशजनिरल्पोऽपि स मुनिः । क्षितौ दक्षो भक्षीकृतमनुजरक्षोनिगरणे समुद्राचामे वा शिखरिवरमुद्रावितरणे ॥ ५०॥ प्रकुप्यद्भिः स्तोत्रे स्वरविकृतितो द्रागपि शठैः विनिघ्नद्धिः स्वार्थानपि भुवि मखात् किं मम बुधैः । अभक्तानां नृणामपि तटभुवां दूषणकृतां गतिर्मे, कावेरि त्वमिह दधतीं वित्तमतुलम् ॥ ५१॥ न मन्ये मान्यानां गुणलवविहीनं मम वचः चमत्कारं चित्ते रचयितुमलं स्यादिदमिति । मतं मे पूताया निरुपधिदयानिघ्नमनसो जनन्या बालस्याबिलमिव परं ते मुदमिति ॥ ५२॥ लसत्स्वर्णाभिख्यां रमणमथ रत्नाकरमिता वहन्तीमुत्सङ्गे शयितमपि पुंसां प्रथमजम् । सुदूरे द्रष्टुं त्यामचलकुलवृद्धस्तनुभवां शिरः श्रीमानुच्चैर्वहति भृतबाष्पः किमु मुदा ॥ ५३॥ नृणामन्यत्राहुर्भुवि निवसतां यत्तटयुगाद् विशुद्धिं कृच्छ्रायः स्मृतिसमुदितां ये बहुविदः । प्रथां याः पञ्चाप्ता जगति महतीनां च सरितां श्रुता तास्वेका त्वं ननु जननि गङ्गासु जयसि ॥ ५४॥ इति नारायणकविविरचिता कावेरीलहरी समाप्ता । Encoded and proofread by Mandar Mali aryavrutta at gmail.com
% Text title            : Kaveri Lahari
% File name             : kAverIlaharI.itx
% itxtitle              : kAverIlaharI (nArAyaNakavivirachitA)
% engtitle              : kAverIlaharI
% Category              : devii, devI, laharI, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Narayana Kavi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mandar Mali aryavrutta at  gmail.com
% Proofread by          : Mandar Mali aryavrutta at  gmail.com
% Indexextra            : (Scan)
% Latest update         : August 22, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org